अक्षर आकार:

श्रीविठ्ठलेशाष्टकम्

Shri Viththaleshashtakam

श्रीविठ्ठलेशाष्टकम्

रघुनाथकृतं श्रीगणेशाय नमः । कुरुसदसि कृताभूद्द्रौपदीवस्त्रशेषा सकलनृपवरेन्द्रा यत्र वक्तुं न शक्ताः । हरिचरणरताङ्गी येन तत्रात्मधीरा स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ १॥ प्रथमजननपापप्राप्तसम्प्रेतदेहौ समय इह ममास्मिन्कृष्णभक्त्या समेतौ । गलितपतितवेषावुद्धतौ येन सद्यः स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ २॥ कमलदलसुनेत्रेणैव भूतेशमाया- ततिभिरिव हि येन भ्रामितः सर्वलोकः । अखिलजगति सर्वस्वीयभक्ताः कृतार्थाः स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ३॥ सकलयदुकुलेन्द्रो येन कंसो हतोऽभूत् जननसमयपूर्वं देवकीशूरयोश्च । परिहृतमपि दुःखं यामिका मोहिताश्च स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ४॥ तपनदुहितुरन्तः कालियो मारितः सन् अलिगणसुहितेऽस्मिंस्तत्फणे येन नृत्यम् । कृतमपि च तदम्भो लम्भितं निर्विषत्वं स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ५॥ कपटकृतशरीरा पूतना प्रापिताऽभ्रं व्रजपतिगृहसुप्तावेकपादेन येन । शकट असुरवेषः प्रेषितः स्थाननाशं स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ६॥ पदनतियुतहस्ता तोषिता येन कुन्ती ह्यसुरकुलसमूहा हिंसिता वीर्यवन्तः । अखिलभुवनभारः प्रेषितः संलघुत्वं स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ७॥ अखिलसुरकुलेन्द्रस्यैव येनाभिमानो गिरिवरधरणेन क्षीणतां प्रापितश्च । जलधरभवधाराः संहृता ग्रावयुक्ताः स भवतु मम भूत्यै विठ्ठलेशः सहायः ॥ ८॥ विट्ठलेशाष्टकमिदं प्रातरुत्थाय यः पठेत् । भक्त्या नत्वा च सुमनाः स याति परमां गतिम् ॥ ९॥ इति रघुनाथकृतं श्रीविठ्ठलेशाष्टकं सम्पूर्णम् ।