अक्षर आकार:

विठ्ठलस्तोत्रम् २

Viththalastotram 2

विठ्ठलस्तोत्रम् २

जीवनजीगोस्वामिकृतं श्रीविठ्ठलं नतोऽस्मि श्रीवल्लभवल्लभं सुमार्तण्डम् । श्रीपुण्डरीकसुखदं रुक्मण्या वल्लभं परमरुचिरम् ॥ १॥ श्रीविठ्ठलेत्यभिख्यां पूर्णां युक्तां विधातुमिह निकटे । कृत्वेमां वैदर्भीं कमलां कमलेक्षण स्थितोऽस्मि विभो ॥ २॥ पतितानुद्धृत्य त्वं सङ्ख्यातीतान्विदाविहीनतरान् । श्रान्तो भृशं ततः किल कटिदेशे धृतकरोऽसि करुणाब्धे ॥ ३॥ धृतमनुजाकृतिरस्म्यहमथापि लोकेऽस्ति कोऽपि मत्सदृशः । इति परिचिचीषया त्वं परिरम्भण उत्सुकोऽसि लोकानाम् ॥ ४॥ संसारोष्णकरोद्भवतापनिवृत्यै रसस्वरूप हरे । सान्द्रघनाभं धृत्वा विग्रहमन्यादृशं स्थितोऽसि किल ॥ ५॥ दरवरमथ ते करगं दृष्ट्वा संसारदरदरं दरताम् । अदरामभजन्नरवर शशधरकरभरमिवान्धकारभरः ॥ ६॥ स्वीयजनाभयदाने दक्षिणहस्तोऽस्ति युक्तसंज्ञो मे । इति तथ्यं सूचयितुं नालीकं सम्बिभर्षि तस्मिंस्त्वम् ॥ ७॥ त्वयि पुण्डरीकसुखदे गोगणसंवेष्टिते त्रयीनिलये । पापान्धनाशकत्वं युक्तं संज्ञासुखप्रदेऽक्षिचरे ॥ ८॥ दाक्षिण्यं स्वीकर्तुं देशेऽस्मिंस्त्वं स्थितोऽसि यदपि विभो । वामत्वं त्वय्याप्तं स्वीयव्रजमा त्यजत्यहो विमलम् ॥ ९॥ ध्यायं ध्यायं नित्यं शैलं गोवर्धनं प्रियं दासम् । तद्विप्रयोगयोगात् शैलसुरूपं भजस्यथो मौनम् ॥ १०॥ स्वर्गं वाणीं पृथ्वीं धेनुं करणानि पास्यजस्रमये । तत्सूचनाय विभुरपि गोपाकृतिकः स्थितोऽसि देशेऽस्मिन् ॥ ११॥ सेष्टकमयपादयुगं मम तस्मादिष्टसिद्धये भजत । सौख्याप्त्यै सूचयितुं पादयुगे सेष्टकोऽसि तत्सुखद ॥ १२॥ स्वचरणनलिनोद्भूतां तटिनीमुग्रोत्तमाङ्गसम्पर्कात् । दोषाकरनैकट्याद्भीमाभिख्यायुतामिमां मत्वा ॥ १३॥ युक्तार्था त्वं मा भव मद्भक्तेष्वथ भवाघसेनायाम् । इति शिक्षयितुं नित्यं तटदेशे वासतत्परोऽस्यस्याः ॥ १४॥ सुद्विजगणसेव्यस्त्वं सुमनोयुक्तः सुपर्णकः फलदः । समघननीलः कल्पद्रुमकल्पोऽनल्पपञ्चशाखोऽसि ॥ १५॥ सन्मानसवर्ती श्रीस्थानं त्वं सन्निलिम्पगणसेव्यः । हंसकरैः पूज्यः किल रक्तोऽन्तमोददः प्रसन्नश्च ॥ १६॥ प्रियपुण्डरीकभक्तासक्तेः प्राप्तस्तदीयसाजात्यम् । किं वा त्वत्सारूप्याल्लोके ख्यातः स पुण्डरीक इति ॥ १७॥ श्रितपुण्डरीकतटिनीतीरे लक्ष्म्यागतिर्हि युक्ततमा । तव किल निलिम्पभर्तुद्रुमसुमशोभेऽस्ति कृष्ण रसिकवर ॥ १८॥ सालोक्यं सामीप्यं लोकेऽस्मिन् पापकारिणां नियतम् । दुर्लभमपि दत्तं तन्मत्सदृशायाथ विठ्ठलोऽसि ततः ॥ १९॥ नखरोडुपैः परीतं चरणतरण्योर्युगं पुरा रचितम् । यद्यपि मग्नं मत्वा तथाविधं निश्चितं हि मामस्मिन् ॥ २०॥ स्मरणाभिधसूर्यस्तव संसाराब्धिं ह्यशूशुषच्छ्रेष्ठः । नामामृतबहुवृष्ट्या पङ्कं निःशेषतामगात्पश्चात् ॥ २१॥ तेन स्वच्छतरोऽहं सोत्कण्ठः स्वच्छवर्त्मना क्षिप्रम् । उपकण्ठं ते भूमन् सम्प्राप्तः किल दयामृताब्धवर ॥ २२॥ पतितोद्धरणजविरुदं लोकप्रख्यातमादितस्तस्मात् । एतच्छ्रमनिरतोऽभूर्नो चेद्धेत्वन्तरं न हि प्रकृते ॥ २३॥ श्रीवल्लभकल्पद्रुमफलरूपत्वं निजेच्छया यत्नात् । स्वीकृतमिह लोके ननु लोकोद्धाराय तत्प्रियाय भृशम् ॥ २४॥ षड्धर्मैर्निजरूपं पुत्रत्वे सप्तधाऽधुना कृत्वा । धरणीतलं सनाथं कृतवानसि शौरिसद्मनीव मुदा ॥ २५॥ राजन्यासुरवृन्दं प्राक्काले संहृतं त्वया नियतम् । पाखण्ड्यसुरविनाशः कृतोऽधुना विप्रविग्रहेण मुहुः ॥ २६॥ किञ्च स्वीयां भक्तिं शुद्धाद्वैतानुसारिणीं विपुलाम् । कर्तुं वेदोद्धारं वारं वारं कृतश्रमोऽसि भृशम् ॥ २७॥ साम्प्रतमिह याम्यायां सरणावतिपापकारिणां कृपया । वससि त्वं तान्नेतुं स्वं लोकं विठ्ठल प्रभो युक्तम् ॥ २८॥ सामोदस्नेहार्पणयोगात्स्नेहान्विताश्च सामोदाः । हृदये भवन्ति तस्मात्तेषां तस्मिन् हि कृष्णवर्त्माऽऽस्ते ॥ २९॥ पञ्चामृतैर्मितैरपि पूजां कुर्वन्ति ये जनास्तेभ्यः । पञ्चामृतमत्यन्तं ददासि दास्यं दयोदधे प्रार्थ्यम् ॥ ३०॥ पञ्चामृतलिप्तस्त्वं ह्यघटितघटनापटो विभास्येवम् । चन्द्रशतैः संवलितः सान्द्रपयोदः किमागतः पृथ्व्याम् ॥ ३१॥ तोयदकान्त नितान्तं तोयासारेण यः पुमान् भक्त्या । स्नपयति शीघ्रं तस्मै ददासि तोयदसमं वपुर्नियतम् ॥ ३२॥ घुसृणागुरुपङ्कैर्ननु कृत्वा त्वां पङ्किलं प्रयत्नेन । निष्पङ्काः सामोदा भवन्ति रागान्विता विनायासम् ॥ ३३॥ परिमितमथ वासः किल जनाद्गृहीत्वाऽल्पकैर्गुणै रचितम् । स्थूलैर्दिव्यगुणैर्युक्त्वानन्तवासोऽयि दीयते सततम् ॥ ३४॥ ये त्वां सालङ्कारं मणिभिः स्वर्णेन परिमितैर्मनुजाः । ननु तानलङ्करोषि द्युमणिसदृशान् सुवर्णकान् भक्त्या ॥ ३५॥ कृत्वा सुमनःपूजां क्षणिकामप्याप्नुवन्ति तेऽजस्रम् । सुमनोऽधिप मर्त्यास्ते सुमनस्त्वं द्विप्रकारकं चित्रम् ॥ ३६॥ भक्त्या तव पाददले दत्वा वृन्दादलं विबलमनुजः । दलयति दुरितदलान्यथ पद्मदलायतविलोचनाऽयि किल ॥ ३७॥ कृष्णत्वान्ननु कृष्णं चूर्णं भक्त्या समर्पयन्ति मुहुः । अत्रत्या मनुजास्ते चूर्णयितुं स्वीयकृष्णकर्माणि ॥ ३८॥ अमृतान्धोऽधिप जग्ध्वा परिमितमन्नं निजं हि मर्त्यं द्राक् । अमृताब्धौ स्थापयसे चित्रं सघृणोऽसि यत्नतः किं नु ॥ ३९॥ नीराजनैश्च दीपैः स्वयं प्रकाशं प्रकाशयन्त्येते । अज्ञांस्तानपि मलिनान् स्वयं प्रकाशान् करोषि तच्चित्रम् ॥ ४०॥ संसृतिचित्रमयूखोत्थितधूमैर्धूम्रवीक्षणान् मनुजान् । तेभ्यः स्वीकृतधूपो विमलदृशस्तान् करोषि करुणाब्धे ॥ ४१॥ प्राकृतभाषारचितैः स्तवैः स्तुतः स्तोतृमानुषायापि । अप्राकृताकृतिं त्विह दत्से क्षिप्रं क्षमं क्षमाजलधे ॥ ४२॥ एतावत्सम्प्रार्थ्यं दुरितोच्चयरूपिणा मया बहुधा । पतितसमुद्धृतिविरुदं नो विस्मार्यं क्षणान्तरेऽप्यार्य ॥ ४३॥ श्रीगोकुलोत्सवात्मजजीवनजीशर्मणा मुदा स्तोत्रम् । श्रीविठ्ठलस्य रचितं तुष्टस्तेनाऽस्तु स प्रभुः सततम् ॥ ४४॥ गोवर्धनगुरुचरणप्रसादतः प्राप्तविठ्ठलेशपुरः । कृतकृत्योऽहं भृत्यो भूवं तस्यैव लोकवन्द्यस्य ॥ ४५॥ रसशशधरनन्दक्षितिमितवर्षे विक्रमस्य सितपक्षे । पौषे सौम्यचतुर्थ्यां पूर्णमभूत्पुण्डरीकपुर एतत् ॥ ४६॥ इति जीवनजीगोस्वामिकृतं विठ्ठलस्तोत्रं २ सम्पूर्णम् ।