अक्षर आकार:

श्रीविठ्ठलस्तोत्रम्

shrIviThThalastotram

श्रीविठ्ठलस्तोत्रम्

श्रीमद्वल्लभसागरसमुदितकुन्दौघजीवदो नरः । विश्वसमुद्धृतदीनो जगति श्रीविठ्ठलो जयति ॥ १॥ मायावादः कुलनाशनकरणे प्रसिद्धदिननाथः । अपरःकृष्णावतारो जगति श्रीविठ्ठलो जयति ॥ २॥ श्रीमद्गिरिधरपदयुगसेवनपरिनिष्ठहृत्सरोजश्च । वंशस्थापितमहिमा जगति श्रीविठ्ठलो जयति ॥ ३॥ श्रीमद्गोकुलहिमरुचिरुचिकरलब्धैकसच्चकोरपदः । परिलसदद्भुतचरितो जगति श्रीविठ्ठलो जयति ॥ ४॥ शारदचन्द्रसमानःशिशिरीकृतदग्धसकललोकः । विद्याजितसुरवन्द्यो जगति श्रीविठ्ठलो जयति ॥ ५॥ गोवर्धनधरमिलनत्यागविधानेऽतिकातरः सुभगः । प्रकटितपुष्टिजभक्तिर्जगति श्रीविठ्ठलो जयति ॥ ६॥ यज्ञविधायकचेताः सकलप्रतिपक्षसिन्धुवडवाग्निः । कुण्डलशोभितगल्लो जगति श्रीविठ्ठलो जयति । पालितभक्तसमाजो व्रजभुवि विशदीकृतैकनवरत्नः । वासितगोकुलनगरो जगति श्रीविठ्ठलो जयति ॥ ८॥ नित्यं स्तोत्रवरं तद्भक्तिनियुक्तः पठन् स्वकीयाष्टकम् । परमपदं लभते स च यः किल निष्ठोऽपि विठ्ठलस्येदम् ॥ इति श्रीमद्देवकीनन्दनात्मजश्रीरघुनाथजीकृतं श्रीविठ्ठलस्तोत्रं सम्पूर्णम् ।