अक्षर आकार:

श्रीविठ्ठलसहस्रनामावलिः

shrIviThThalasahasranAmAvaliH

श्रीविठ्ठलसहस्रनामावलिः

ॐ क्लीं विट्टलाय नमः । पाण्डुरङ्गेशाय । ईशाय । श्रीशाय । विशेषजिते । शेषशायिने । शभुवन्द्याय । शरण्याय । शङ्करप्रियाय । चन्द्रभागासरोवासाय । कोटिचन्द्रप्रभास्मिताय । विधातृ- सूचिताय । सर्वप्रमाणातीताय । अव्ययाय । पुण्डरीकस्तुताय । वन्द्याय । भक्तचित्तप्रसादकाय । स्वधर्मनिरताय । प्रीताय । गोगोपीपरिवारिताय नमः ॥ २० ॐ गोपिकाशतनीराज्याय नमः । पुलिनाकीडाय । आत्मभुवे । आत्मने । आत्मरामाय । आत्मस्थाय । आत्मरामनिषेविताय । सच्चित्सुखाय । महामायिने । महते । अव्यक्ताय । अद्भुताय । स्थूलरूपाय । सूक्ष्मरूपाय । कारणाय । परस्मै । अञ्जनाय । महाकारणाय । आधाराय । अधिष्ठानाय नमः ॥ ४० ॐ प्रकाशकाय नमः । कञ्जपादाय । रक्तनखाय । रक्तपादतलाय । प्रभवे । साम्राज्यचिह्नितपदाय । नीलगुल्फाय । सुजङ्घकाय । सज्जानवे । कदलीस्तम्भनिभोरवे । उरुविक्रमाय । पीताम्बरावृतकटये । क्षुल्लकादामभूषणाय । कटिविन्यस्तहस्ताब्जाय । शङ्खिने । पद्मविभूषताय । गम्भीरनाभये । ब्रह्माधिष्ठितनाभिसरोरुहाय । त्रिवलीमण्डितोदारोदरोमावलिमालिनाय । कपाटवक्षसे नमः ॥ ६० ॐ श्रीवत्सभूषितोरसे नमः । कृपाकराय । वनमालिने । कम्बुकण्ठाय । सुस्वराय । सामलालसाय । कञ्चवक्त्राय । श्मश्रुहीनचुबुकाय । वेदजिह्वकाय । दाडिमीबीजसदृशरदाय । रक्ताधराय । विभवे । नासामुक्तापाटलिताधरच्छवये । अरिन्दमाय । शुकनासाय । कञ्जनेत्राय । कुण्डलाक्रामितांसकाय । महाबाहवे । घनभुजाय । केयूराङ्गदमण्डिताय नमः ॥ ८० ॐ रत्नभूषितभूषाढ्यमणिबन्धाय नमः । सुभूषणाय । रक्तपाणितलाय । स्वङ्गाय । सन्मुद्रामण्डिताङ्गुलये । नखप्रभा- रञ्जिताब्जाय । सर्वसौन्दर्यमण्डिताय । सुभ्रुवे । अर्धशशि- प्रख्यललाटाय । कामरूपधृशे । कुङ्कुमाङ्कितसद्भालाय । सुकेशाय । बर्हभूषणाय । किरीटभाव्याप्तनभसे । विकलीकृतभास्कराय । वनमालिने । पीतवाससे । शार्ङ्गचापाय । असुरान्तकाय । दर्पापहाय नमः ॥ १०० ॐ कंसहन्त्रे नमः । चाणूरमुरमर्दनाय । वेणुवादनसन्तुष्टाय । दध्यन्नास्वादलोलुपाय । जितारये । कामजनकाय । कामघ्ने । कामपूरकाय । विक्रोधाय । दारितामित्राय । भूर्भुवःसुवरादिराजे । अनादये । अजनये । जन्यजनकाय । जाह्नवीपदाय । बहुजन्मने । जामदग्न्याय । सहस्रभुजखण्डनाय । कोदण्डधारिणे । जनकपूजिताय नमः ॥ १२० ॐ कमलाप्रियाय नमः । पुण्डरीकभवद्वेषिणे । पुण्डरीक- भवप्रियाय । पुण्डरीकस्तुतिरसाय । सद्भक्तपरिपालकाय । सुषुमालासङ्गमस्थाय । गोगोपीचित्तरञ्जनाय । इष्टिकास्थाय । भक्तवश्याय । त्रिमूर्तये । भक्तवत्सलाय । लीलाकृतजगद्धाम्ने । जगत्पालाय । हराय । विराजे । अश्वत्थपद्मतीर्थस्थाय । नारदस्तुतवैभवाय । प्रमाणातीततत्त्वज्ञाय । तत्त्वम्पदनिरूपिताय । अजाजनये नमः ॥ १४० अजाजानये नमः । अजायाय । नीरजाय । अमलाय । लक्ष्मीनिवासाय । स्वर्भूषाय । विश्ववन्द्याय । महोत्सवाय । जगद्योनये । अकर्त्रे । आद्याय । भोक्त्रे । भोग्याय । भवातिगाय । षड्गुणैश्वर्यसम्पन्नाय । भगवते । मुक्तिदायकाय । अधःप्राणाय । मनसे । बुद्ध्यै नमः ॥ १६० ॐ सुषुप्त्यै नमः । सर्वगाय । हरये । मत्स्याय । कूर्माय । वराहाय । अत्रये । वामनाय । हरिरूपधृते । नारसिंहाय । ऋषये । व्यासाय । रामाय । नीलांशुकाय । हलिने । बुद्धाय । अर्हते । सुगताय । कल्किने । नराय नमः ॥ १८० ॐ नारायणाय नमः । परस्मै । परात्पराय । करीड्येशाय । नक्रशापविमोचनाय । नारदोक्तिप्रतिष्ठात्रे । मुक्तकेशिने । वरप्रदाय । चन्द्रभागाप्सुसुस्नाताय । कामितार्थप्रदाय । अनघाय । तुलसी- दामभूषाढ्याय । तुलसीकाननप्रियाय । पाण्डुरङ्गाय । क्षेत्रमूर्तये । सर्वमूर्तये । अनामयाय । पुण्डरीकव्याजकृतजडोद्धाराय । सदागतये । अगतये नमः ॥ २०० ॐ सद्गतये नमः । सभ्याय । भवाय । भव्याय । विधीडिताय । प्रलम्बघ्नाय । द्रुपदजाचिन्ताहारिणे । भयापहाय । वह्निवक्त्राय । सूर्यनुताय । विष्णवे । त्रैलोक्यरक्षकाय । जगद्भक्ष्याय । जगद्गेहाय । जनाराध्याय । जनार्दनाय । जेत्रे । विष्णवे । वरारोहाय । भीष्म- पूज्यपदाम्बुजाय नमः ॥ २२० ॐ भर्त्रे नमः । भीष्मकसम्पूज्याय । शिशुपालवधोद्यताय । शतापराधसहनाय । क्षमावते । आदिपूजनाय । शिशुपालशिरश्छेत्रे । दन्तवक्त्रबलापहाय । शिशुपालकृतद्रोहाय । सुदर्शनविमोचनाय । सश्रिये । समायाय । दामेन्द्राय । सुदामक्रीडनोत्सुकाय । वसुदामकृतक्रीडाय । किङ्किणीदामसेविताय । पश्चाङ्गपूजनरताय । शुद्धचित्तवशंवदाय । रुक्मिणीवल्लभाय । सत्यभामाभूषितविग्रहाय नमः ॥ २४० ॐ नाग्नजित्याकृतोद्वाहाय नमः । सुनन्दाचित्तमोहनाय । मित्रविन्दाऽऽलिङ्गिताङ्गाय । ब्रह्मचारिणो । वटुप्रियाय । सुलक्षणाधौतपदाय । जाम्बवत्या कृतादराय । सुशीलाशीलसन्तुष्टाय । जलकेलिकृतादराय । वासुदेवाय । देवकीड्याय । नन्दानन्दकराङ्घ्रियुजे । यशोदामानसोल्लासाय । बलावरजनये । स्वभुवे । सुभद्रानन्ददाय । गोपवश्याय । गोपीप्रियाय । अजयाय । मन्दारमूलवेदिस्थाय नमः ॥ २६० ॐ सन्तानतरुसेविताय नमः । पारिजातापहरणाय । कल्पद्रुमपुरःसराय । हरिचन्दनलिप्ताङ्गाय । इन्द्रवन्द्याय । अग्निपूजिताय । यमनेत्रे । नैरृतेयाय । वरुणेशाय । खगप्रियाय । कुबेरवन्द्याय । ईशेशाय । विधीड्याय । अनन्तवन्दिताय । वज्रिणे । शक्तये । दण्डधराय । खड्गिने । पाशिने । अङ्गुशिने नमः ॥ २८० ॐ गदिने नमः । त्रिशूलिने । कमलिने । चक्रिणे । सत्यव्रतमयाय । नवाय । महामन्त्राय । प्रणवभुवे । भक्तचिन्तापहारकाय । स्वक्षेत्रवासिने । सुखदाय । कामिने । भक्तविमोचनाय । स्वनामकीर्तनप्रीताय । क्षेत्रेशाय । क्षेत्रपालकाय । कामाय । चक्रधरार्धाय । त्रिविक्रममयात्मकाय । प्रज्ञानकरजिते नमः ॥ ३०० ॐ कान्तिरूपवर्णाय नमः । स्वरूपवते । स्पर्शेन्द्रियाय । शौरिमयाय । वैकुण्ठाय । सानिरुद्धकाय । षडक्षरमयाय । बालाय । श्रीकृष्णाय । ब्रह्मभाविताय । नारदाधिष्ठितक्षेमाय । वेणुवादनतत्पराय । नारदेशप्रतिष्ठात्रे । गोविन्दाय । गरुडध्वजाय । साधारणाय । समाय । सौम्याय । कलावते । कमलालयाय नमः ॥ ३२० ॐ क्षेत्रपाय नमः । क्षणदाधीशवक्त्राय । क्षेमकरक्षणाय । लवाय । लवणिम्ने । धाम्ने । लीलावते । लघुविग्रहाय । हयग्रीवाय । हलिने । हंसाय । हतकंसाय । हलिप्रियाय । सुन्दराय । सुगतये । मुक्ताय । सत्सख्ये । सुलभाय । स्वभुवे । साम्राज्यदाय नमः ॥ ३४० ॐ सामराजाय नमः । सत्तायै । सत्याय । सुलक्षणाय । षड्गुणैश्वर्यनिलयाय । षडृतुपीरसेविताय । षडङ्गशोधिताय । षोढा । षड्दर्शननिरूपिताय । शेषतल्पाय । शतमखाय । शरणागतवत्सलाय । सशम्भवे । समितये । शङ्खवहाय । शार्ङ्गसुचापधृते । वह्नितेजसे । वारिजास्याय । कवये । वंशीधराय नमः ॥ ३६० ॐ विगाय नमः । विनीताय । विप्रियाय । वालिदलनाय । वज्रभूषणाय । रुक्मिणीशाय । रमाजानये । राजराजन्यभूषणाय । रतिप्राणप्रियपित्रे । रावणान्ताय । रघूद्वहाय । यज्ञभोक्त्रे । यमाय । यज्ञभूषणाय । यज्ञदूषणाय । यज्वने । यशोवते । यमुनाकूल- कुञ्जप्रियाय । यमिने । मेरवे नमः ॥ ३८० ॐ मनीषिणे नमः । महिताय । मुदिताय । श्यामविग्रहाय । मन्दगामिने । मुग्धमुखाय । महेशाय । मीनविग्रहाय । भीमाय । भीमाङ्गजातीरवासिने । भीमार्तिभञ्जनाय । भूभारहरणाय । भूतभावनाय । भरताग्रजाय । बलाय । बलप्रियाय । बालाय । बालक्रीडनतत्पराय । बकासुरान्तकाय । बाणासुरदर्पकबाडवाय नमः ॥ ४०० ॐ बृहस्पतये । बलारातिसूनवे । बलिवरप्रदाय । बोद्ध्रे । बन्धुवधोद्युक्ताय । बन्धमोक्षप्रदाय । बुधाय । फाल्गुनानिष्टघ्ने । फल्गुकृतारातये । फलप्रदाय । फेनजातैरकावज्रकृतयादवसङ्क्षयाय । फाल्गुनोत्सवसंसक्ताय । फणितल्पाय । फणानटाय । पुण्याय । पवित्राय । पापात्मदूरगाय । पण्डिताग्रण्ये । पोषणाय । पुलिनावासाय नम ॥ ४२० ॐ पुण्डरीकमनोर्वशाय नमः । निरन्तराय । निराकाङ्क्षाय । निरातङ्काय । निरञ्जनाय । निर्विण्णमानसोल्लासाय । सतां नयनानन्दनाय । नियमाय । नियमिने । नम्याय । नन्दबन्धनमोचनाय । निपुणाय । नीतिमते । नेत्रे । नरनारायणवपुषे । धेनुकासुरविद्वेषिणे । धाम्ने । धात्रे । धनिने । धनाय नमः ॥ ४४० ॐ धन्याय नमः । धन्यप्रियाय । धर्त्रे । धीमते । धर्मविदुत्तमाय । धरणीधरसन्धर्त्रे । धराभूषितदंष्ट्रकाय । दैतेयहन्त्रे । दिग्वाससे । देवाय । देवशिखामणये । दाम्ने । दात्रे । दीप्तिभानवे । दानवादमित्रे । दमाय । स्थिरकार्याय । स्थितप्रज्ञाय । स्थविराय । स्थापकाय । स्थितये नमः ॥ ४६० ॐ स्थितलोकत्रयवपुषे नमः । स्थितिप्रलयकारणाय । स्थापकाय । तीर्थचरणाय । तर्पकाय । तरुणीरसाय । तारुण्यकेलिनिपुणाय । तरणाय । तरणि प्रभवे । तोयमूर्तये । तमोऽतीताय । स्तभोद्भूताय । तपः पराय । तडिद्वाससे । तोयदाभाय । ताराय । तारस्वरप्रियाय । णकाराय । ढौकितजगते । त्रितूर्यप्रीतभूसुराय । डमरूप्रियाय । ऋद्वासिने । डिण्डिमध्वनि- गोचराय नमः ॥ ४८४ ॐ ठयुगस्थमनोर्गम्याय नमः । ठङ्कारिधनुरायुधाय । टणत्कारितकोदण्डहतारये । गणसौख्यदाय । झाङ्कारिचञ्चरीकाङ्किने । श्रुतिकल्हारभूषणाय । जरासन्धार्दितजगत्सुखभुवे । जङ्गमात्मकाय । जगज्जनये । जगद्भूषाय । जानकीविरहाकुलाय । जिष्णुशोकापहरणाय । जन्महीनाय । जगत्पतये । छत्रिताहीन्द्र- सुभगाय । छद्मिने । छत्रितभूधराय । छायास्थलोकत्रितयच्छलेन बलिनिग्रहिणे । चेतश्चमत्कारकराय । चित्रिणे नमः ॥ ५०४ ॐ चित्रस्वभाववते नमः । चारुभुवे । चन्द्रचूडाय । चन्द्रकोटिसमप्रभाय । चूडात्नवद्योतिभालाय । चलन्मकरकुण्डलाय । चरुभुजे । चयनप्रीताय । चम्पकाटविमध्यगाय । चाणूरहन्त्रे । चन्द्राङ्कनाशनाय । चन्द्रदीधितये । चन्दनालिप्तसर्वाङ्गाय । चारुचामरमण्डिताय । घनश्यामाय । घनरवाय । घटोत्कच पितृप्रियाय । घनस्तनीपरीवाराय । घनवाहनगर्वघ्ने । गङ्गापदाय नमः ॥ ५२४ ॐ गतक्लेशाय नमः । गतक्लेशनिषेविताय । गणनाथाय । गजोद्धर्त्रे । गायकाय । गायनप्रियाय । गोपतये । गोपिकावश्याय । गोपबालानुगाय । पतये । गणकोटिपरीवाराय । गम्याय । गगन- निर्मलाय । गायत्रीजपसम्प्रीताय । गण्डकीस्थाय । गुहाशयाय । गुहारण्यप्रतिष्ठात्रे । गुहासुरनिषूदनाय । गीतकीर्तये । गुणारामाय । गोपालाय नमः ॥ ५४५ ॐ गुणवर्जिताय नमः । गोप्रियाय । गोचरप्रीताय । गाननाट्यप्रवर्तकाय । खड्गायुधाय । खरद्वेषिणे । खातीताय । खगमोचनाय । खगपुच्छकृतोत्तंसाय । खेलद्बालकृतप्रियाय । खट्वाङ्गपतोथितारातये । खञ्जनाक्षाय । खशीर्षकाय । कलवंश- रवाक्रान्तगोपीविस्मारितार्भकाय । कलिप्रमाथिने । कञ्जास्याय । कमलायतलोचनाय । कालनेमिप्रहरणाय । कुण्ठितार्तिकिशोरकाय । केशवाय नमः ॥ ५६५ ॐ केवलाय नमः । कण्ठीरवास्याय । कोमलाङ्घ्रियुजे । कम्बलिने । कीर्तिमते । कान्ताय । करुणामृतसागराय । कुब्जासौभाग्यदाय । कुब्जाचन्दनालिप्तगात्रकाय । कालाय । कुवलयापीडहन्त्रे । क्रोधसमाकुलाय । कालिन्दीपुलिनाक्रीडाय । कुञ्जकेलिकुतूहलिने । काञ्चनाय । कमलाजानये । कलाज्ञाय । कामितार्थदाय । कारणाय । कारणातीताय नमः ॥ ५८५ ॐ कृपापूर्णाय नमः । कलानिधये । क्रियारूपाय । क्रियातीताय । कालरूपाय । क्रतुप्रभवे । कटाक्षस्तम्भितारातये । कुटिलालकभूषिताय । कूर्माकाराय । कालरूपिणे । करीरवन- मध्यगाय । कलकण्ठिने । कलरवाय । कलकण्ठरुतानुकृते । करद्वारपुराय । कूटाय । सर्वेषाङ्कवलप्रियाय । कलिकल्मषघ्ने । क्रान्तगोकुलाय । कुलभूषणाय । कूटारये नमः ॥ ६०६ ॐ कुतुपाय नमः । कीशपरिवाराय । कविप्रियाय । कुरुवन्याय । कठिनदोर्दण्डखण्डितभूभराय । किङ्करप्रियकृते । कर्मरतभक्तप्रियङ्कराय । अम्बुजास्याय । अङ्गनाकेलये । अम्बुशायिने । अम्बुधिस्तुताय । अम्भोजमालिने । अम्बुवाहलसदङ्गाय । अन्त्रमालकाय । औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकाय । ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलाय । ऐरावतसमारूढाय । ऐन्द्रीशोकापहारकाय । ऐश्वर्यावधये । ऐश्वर्याय नमः ॥ ६२६ ॐ ऐश्वर्याष्टदलस्थिताय नमः । एणशाबसमानाक्षाय । एधस्तोषितपावकाय । एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पघ्ने । लूनपश्चक्लेशपदाय । लूतातन्तुजगत्कृतये । लुप्तदृश्याय । लुप्तजगज्जयाय । लुप्तसुपावकाय । रूपातीताय । रूपनामरूपमायादि- कारणाय । ऋणहीनाय । ऋद्धिकारिणे । ऋणातीताय । ऋतंवदाय । उषानिमित्तबाणघ्नाय । उषाहारिणे । ऊर्जिताशयाथ । ऊर्ध्वरूपाय । ऊर्ध्वाधरगाय नमः ॥ ६४० ॐ ऊष्मदग्धजगत्त्रयाय नमः । उद्धवत्राणनिरताय । उद्धवज्ञानदायकाय । उद्धर्त्रे । उद्धवाय । उन्निद्राय । उद्बोधाय । उपरिस्थिताय । उदधिक्रीडाय । उदधितनयाप्रियाय । उत्सवाय । उच्छिन्नदेवतारातये । उदध्यावृतिमेखलाय । ईतिघ्नाय । ईशित्रे । ईज्याय । ईड्याय । ईहाविवर्जिताय । ईशध्येयपदाम्भोजाय । इनाय नमः ॥ ६६६ ॐ इनविलोचनाय नमः । इन्द्राय । इन्द्रानुजनटाय । इन्दिराप्राणवल्लभाय । इन्द्रादिस्तुताय । इन्द्रश्रिये । इदमित्थमभीतकृते । आनन्दाभासाय । आनन्दाय । आनन्दनिधये । आत्मदृशे । आयुषे । आर्तिघ्नाय । आयुष्याय । आदये । आमयवर्जिताय । आदिकारणाय । आधाराय । आधारादिकृताश्रयाय । अच्युतैश्वर्याय नमः ॥ ६८६ ॐ अमिताय नमः । अरिनाशाय । अघान्तकृते । अन्नप्रदाय । अन्नाय । अखिलाधाराय । अच्युताय । अब्जभृते । चन्द्रभागाजल- क्रीडासक्ताय । गोपविचेष्टिताय । हृदयाकारहृद्भूषाय । यष्टिमते । गोकुलानुगाय । गवां हुङ्कृतिसुप्रीताय । गवालीढपदाम्बुजाय । गोगोपत्राणसुश्रान्ताय । अश्रमिणे । गोपवीजिताय । पाथेयाशन- सम्प्रीताय । स्कन्धशिक्याय नमः ॥ ७०६ ॐ मुखाम्बुपाय नमः । क्षेत्रपारोपितक्षेत्राय । रक्षोऽधिकृतभैरवाय । कार्यकारणसङ्घाताय । ताटकान्ताय । रक्षोघ्ने । हन्त्रे । तारापतिस्तुत्याय । यक्षाय । क्षेत्राय । त्रयीवपुषे । प्राञ्जलये । लोलनयनाय । नवनीताशनप्रियाय । यशोदातर्जिताय । क्षीरतस्कराय । भाण्डभेदनाय । मुखाशनाय । मातृवश्याय । मातृदृश्यमुखान्तराय नमः ॥ ७२६ ॐ व्यात्तवक्त्राय नमः । गतभयाय । मुखलक्ष्यजगत्त्रयाय । यशोदास्तुतिसम्प्रीताय । नन्दविज्ञातवैभवाय । संसारनौकाधर्मज्ञाय । ज्ञाननिष्ठाय । धनार्जकाय । कुबेराय । क्षत्रनिधनाय । ब्रह्मर्षये । ब्राह्मणप्रियाय । ब्रह्मशापप्रतिष्ठात्रे । यदुराजकुलान्तकाय । युधिष्ठिरसखाय । युद्धदक्षाय । कुरुकुलान्तकृते । अजामिलोद्धारकारिणे । गणिकामोचनाय । गुरवे नमः ॥ ७४६ ॐ जाम्बवद्युद्धरसिकाय नमः । स्यमन्तमणिभूषणाय । सुभद्राबन्धवे । अक्रूरवन्दिताय । गदपूर्वजाय । बलानुजाय । बाहुयुद्धरसिकाय । मयमोचनाय । दग्धखाण्डवसम्प्रीतहुताशाय । हवनप्रियाय । उद्यदादित्यसङ्काशवसनाय । हनुमद्रुचये । भीष्म- बाणव्रणाकीर्णाय । सारथ्यनिपुणाय । गुणिने । भीष्मप्रतिभटाय । चक्रधराय । सम्प्रीणितार्जुनाय । स्वप्रतिज्ञाहानिहृष्टाय । मानातीताय नमः ॥ ७६६ ॐ विदूरगाय नमः । विरागाय । विषयासक्ताय । वैकुण्ठाय । अकुण्ठवैभवाय । सङ्कल्पाय । कल्पनातीताय । समाधये । निर्विकल्पकाय । सविकल्पाय । वृत्तिशून्याय । वृत्तये । बीजाय । अतिगताय । महादेवाय । अखिलोद्धारिणे । वेदान्तेषु प्रतिष्ठिताय । तनवे । बृहत्तनवे । रण्वराजपूज्याय नमः ॥ ७८६ ॐ अजराय नमः । अमराय । भीमाहाजरासन्धाय । प्रार्थितायुधसङ्गराय । स्वसङ्केतप्रक्लृप्तार्थाय । निरर्थ्याय । अर्थिने । निराकृतये । गुणक्षोभाय । समगुणाय । सद्गुणाढ्याय । प्रमाप्रजाय । स्वाङ्गजाय । सात्यकिभ्रात्रे । सन्मार्गाय । भक्तभूषणाय । अकार्यकारिणे । अनिर्वेदाय । वेदाय । गोपाङ्कनिद्रिताय नमः ॥ ८०६ ॐ अनाथाय नमः । दावपाय । दावाय । दाहकाय । दुर्धराय । अहताय । ऋतवाचे । याचकाय । विप्राय । खर्वाय । इन्द्रपदप्रदाय । बलिमूर्धस्थितपदाय । बलियज्ञविघातकृते । यज्ञपूर्तये । यज्ञमूर्तये । यज्ञविघ्नाय । अविघ्नकृते । बलिद्वाःस्थाय । दानशीलाय । दानशीलप्रियाय नभः ॥ ८२६ ॐ व्रतिने नमः । अव्रताय । जतुकागारस्थितपाण्डवजीवनाय । मार्गदर्शिने । मृदवे । हेलादूरीकृतजगद्भयाय । सप्तपातालपादाय । अस्थिपर्वताय । द्रुमरोमकाय । उडुमालिने । ग्रहाभूषाय । दिक्श्रुतये । तटिनीशिराय । वेदश्वासाय । जितश्वासाय । चित्तस्थाय । चित्तशुद्धिकृते । धियै । स्मृत्यै । पुष्ट्यै नमः ॥ ८४६ ॐ अजयाय नमः । तुष्ट्यै । कान्त्यै । धृत्यै । त्रपायै । हलाय । कृष्यै । कलाय । वृष्ट्यै । गृष्ट्यै । गौरवनाय । वनाय । क्षीराय । हव्याय । हव्यवाहाय । होमाय । वेद्यै । समिधे । स्रुवाय । कर्मणे नमः ॥ ८६६ ॐ कर्मफलाय नमः । स्वर्गाय । भूष्याय । भूषायै महाप्रभवे । भुवे । भुवः । स्वः । महर्लोकाय । जनोलोकाय । तपसे । जनाय । सत्याय । विधये । दैवाय । अधोलोकाय । पातालमण्डनाय । जरायुजाय । स्वेदजनये । उद्बीजाय । कुलपर्वताय नमः ॥ ८८७ ॐ कुलस्तम्भाय नमः । सर्वकुलाय । कुलभुवे । कौलदूरगाय । धर्मतत्त्वाय । निर्विषयाय । विषयाय । भोगलालसाय । वेदान्त- साराय । निर्मोक्त्रे । जीवाय । बद्धाय । बहिर्मुखाय । प्रधानाय । प्रकृत्यै । विश्वद्रष्ट्रे । विश्वनिषेधनाय । अन्तश्चतुर्द्वारमयाय । बहिर्द्वारचतुष्टयाय । भुवनेशाय नमः ॥ ९०७ ॐ क्षेत्रदेवाय नमः । अनन्तकायाय । विनायकाय । पित्रे । मात्रे । सुहृदे । बन्धवे । भ्रात्रे । श्राद्धाय । यमाय । अर्यम्णे । विश्वेभ्यो देवेभ्यः । श्राद्धदेवाय । मनवे । नान्दीमुखाय । धनुषे । हेतये । खड्गाय । रथाय । युद्धाय ॥ ९२७ ॐ युद्धकर्त्रे । शराय । गुणाय । यशसे । यशोरिपवे । शत्रवे । अशत्रवे । विजितेन्द्रियाय । पात्राय । दात्रे । दापयित्रे । देशाय । कालाय । धनागमाय । काञ्चनाय । प्रेम्णे । सन्मित्राय । पुत्राय । कोशाय । विकोशकाय नमः ॥ ९४७ ॐ अनीत्यै नमः । शरभाय । हिंस्राय । द्विपाय । द्वीपिने । द्विपाङ्कुशाय । यन्त्रे । निगडाय । आलानाय । सन्मनोगजश‍ृङ्खलाय । मनोऽब्जभृङ्गाय । विटपिगजाय । क्रोष्ट्रे । वृशाय । वृकाय । सत्पथाचारनलिनीषट्पदाय । कामभञ्जनाय । स्वीयचित्त- चकोराब्जाय । स्वलीलाकृतकौतुकाय । लीलधामाम्बुभृन्नाथाय । क्षोणीभर्त्रे नमः ॥ ९६८ सुधाब्धिदाय नमः । मल्लान्तकाय । मल्लरूपाय । बालयुद्ध- प्रवर्तनाय । चन्द्रभागासरोनीरसीकरग्लपितश्रमाय । कन्दुकक्रीडन- क्लान्ताय । नेत्रमीलनकेलिमते । गोपीवस्त्रापहरणाय । कदम्ब- शिखरस्थिताय । वल्लवीप्रार्थिताय । गोपीनतिदेष्ट्रे । अञ्जलि- प्रियाय । रासे परिहासपराय । रासमण्डलमध्यगाय । वल्लवीद्वय- संवीताय । स्वात्मद्वैतात्मशक्तिकाय । चतुर्विंशतिभिन्नात्मने । चतुर्विंशतिशक्तिकाय । स्वात्मज्ञानाय । स्वात्मजातजगत्त्रय- मयात्मकाय नमः ॥ ९८८ इति विठ्ठलसहस्रनामावलिः समाप्ता ।