अक्षर आकार:

श्रीविठ्ठसहस्रनामस्तोत्रम्

Shri Vitthala Sahasranamastotram

श्रीविठ्ठसहस्रनामस्तोत्रम्

शौनक उवाच- सूत वेदार्थतत्वज्ञ श्रुतं सर्वं भवन्मुरवात् । तथापि श्रोतुमिच्छामि तीर्थं क्षेत्रञ्च दैवतम् ॥ १॥ स्तोत्रं च जगतां पूज्य मूढानामपि मोक्षदम् । स्नानाद्दर्शनतः स्मृत्या पाठमात्राच्छुभप्रदम् ॥ २॥ सूत उवाच- स्मारितोऽहं हरेस्तीर्थं स्तोत्रं क्षेत्रं च दैवतम् । स क्षणः सफलो यत्र स्मर्यते मधुसूदनः ॥ ३॥ कयापि वृत्या विप्रेन्द्र तत्सर्वं कथयामि ते । जनं कलिमलाक्रान्तं दृष्ट्वा विषयलालसम् ॥ ४॥ ज्ञानानधिकृतं कर्मविहीनं भक्तवत्सलः । चन्द्रभागासरस्तीरे पितृभक्तिपरं द्विजम् ॥ ५॥ पुण्डरीकाभिधे क्षेत्रे भीमयाऽऽप्लाविते ततः । पुण्डरीकाभिधं शान्तं निमित्तीकृत्य माधवः ॥ ६॥ आविरासीत्समुद्धर्तुं जनं कलिमलाकुलम् । तत्तीर्थं चन्द्रभागाख्यं स्नानमात्रेण मोक्षदम् ॥ ७॥ तत्क्षेत्रं पाण्डुरङ्गाख्यं दर्शनान्मोक्षदायकम् । तद्दैवतं विठ्ठलाख्यं जगत्कारणमव्ययम् ॥ ८॥ स्थितिप्रलययोर्हेतुं भक्तानुग्रहविग्रहम् । सत्यज्ञानानन्दमयं स्थानज्ञानादि यद्विदा ॥ ९॥ यन्नामस्मरणादेव कामाक्रान्तोऽपि सन्तरेत् । पुण्डरीकेण मुनिना प्राप्तं तद्दर्शनेन यत् ॥ १०॥ शौनक उवाच- सहस्रनामभिः स्तोत्रं कृतं वेदविदुत्तम । सकृत्पठनमात्रेण कामितार्थश्रुतप्रदम् ॥ ११॥ तीर्थं क्षेत्रं दैवतं च त्वत्प्रसादाच्छ्तुतं मया । इदानीं श्रोतुमिच्छामि स्तोत्रं तव मुखाम्बुजात् ॥ १२॥ सच्चित्सुखस्वरूपोऽपि भक्तानुग्रहहेतवे । कीदृशं धृतवान् रूपं कृपयाऽऽचक्ष्व तन्मम ॥ १३॥ सूत उवाच- श‍ृणुष्वावहितो ब्रह्मन्भगवद्ध्यानपूर्वकम् । सहस्रनामसन्मन्त्रं सर्वमन्त्रोत्तमोत्तमम् ॥ १४॥ अथ श्रीविठ्ठलसहस्रनामस्तोत्रमन्त्रस्य श्रीपुण्डरीक ऋषिः । श्रीगुरुः परमात्मा श्रीविठ्ठलो देवता । अनुष्टुप् छन्दः । पुण्डरीकवरप्रद इति बीजं । रुक्मिणीशो रमापतिरिति शक्तिः । पाण्डुरङ्गेश इति कीलकम् । श्री विठ्ठलप्रीत्यर्थं विठ्ठलसहस्रनामस्तोत्रमन्त्रजपे विनियोगः । ॐ पुण्डरीक वरप्रद इति अङ्गुष्ठाभ्यां नपः । ॐ विठ्ठलः पाण्डुरङ्गेश इति तर्जनीभ्यां नमः । ॐ चन्द्रभागासरोवास इति मध्यमाभ्यां नमः । ॐ वज्री शक्तिर्दण्डधर इति अनामिकाभ्यां नमः । ॐ कलवंशरवाक्रान्त इति कनिष्ठिकाभ्यां नमः । ॐ एनोऽन्तकृन्नामध्येय इति करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः । ॐ पुण्डरीक वरप्रद इति हृदयाय नमः । ॐ चन्द्रभागासरोवास इति शिरसे स्वाहा । ॐ वज्री शक्तिर्दण्डधर इति शिखायै वषट् । ॐ कलवंशरवाक्रान्त इति कवचाय हुम् । ॐ एनोऽन्तकृन्नामध्येय इति नेत्रत्रयाय वौषट् । ॐ एनोऽन्तकृन्नामध्येय इति अस्त्राय फट् ॥ इति दिग्बन्धः । ध्यानम् - इष्टिकायां समपदं तिष्ठन्तं पुरुषोत्तमम् । जङ्घजस्थकरद्वन्द्वं क्षुल्लकादामभूषणम् ॥ १५॥ सव्यासव्यकरोद्भासिपद्मशङ्खविभूषितम् । दरहासस्मेरमुखं शिक्यस्कन्धं दिगम्बरम् ॥ १६॥ सर्वालङ्कारसंयुक्तं ब्रह्मादिगणसेवितम् । ज्ञानानन्दमयं देवं ध्यायामि हृदि विठ्ठलम् ॥ १७॥ अथ स्तोत्रम् । क्लीं विठ्ठलः पाण्डुरङ्गेश ईशः श्रीशो विशेषजित् । शेषशायी शम्भुवन्द्यः शरण्यः शङ्करप्रियः ॥ १॥ चन्द्रभागासरोवासः कोटिचन्द्रप्रभास्मितः । विधाधृसूचितः सर्वप्रमाणातीत अव्ययः ॥ २॥ पुण्डरीकस्तुतो वन्द्यो भक्तचित्तप्रसादकः । स्वधर्मनिरतः प्रीतो गोगोपीपरिवारितः ॥ ३॥ गोपिकाशतनीराज्यः पुलिनाक्रीड आत्मभूः । आत्माऽऽत्माराम आत्मस्थः आत्मारामनिषेवितः ॥ ४॥ सच्चित्सुखं महामायी महदव्यक्तमद्भुतः । स्थूलरूपः सूक्ष्मरूपः कारणं परमञ्जनम् ॥ ५॥ महाकारणमाधारः अधिष्ठानं प्रकाशकः । कञ्जपादो रक्तनखो रक्तपादतलः प्रभुः ॥ ६॥ साम्राज्यचिह्नितपदो नीलगुल्फः सुजङ्घकः । सज्जानुः कदलीस्तम्भनिभोरुरुरुविक्रमः ॥ ७॥ पीताम्बरावृतकटिः क्षुल्लकादामभूषणः । कटिविन्यस्तहस्ताब्जः शङ्खी पद्मविभूषितः ॥ ८॥ गम्भीरनाभिर्ब्रह्माधिष्ठितनाभिसरोरुहः । त्रिवलीमण्डितोदारोदरोमावलिमालिनः ॥ ९॥ कपाटवक्षाः श्रीवत्सभूषितोराः कृपाकरः । वनमाली कम्बुकण्ठः सुस्वरः सामलालसः ॥ १०॥ कञ्जवक्त्रः श्मश्रुहीनचुबुको वेदजिह्वकः । दाडिमीबीजसदृशरदो रक्ताधरो विभुः ॥ ११॥ नासामुक्तापाटलिताधरच्छविररिन्दमः । शुकनासः कञ्जनेत्रः कुण्डलाक्रमितांसकः ॥ १२॥ महाबाहुर्घनभुजः केयूराङ्गदमण्डितः । रत्नभूषितभूषाढ्यमणिबन्धः सुभूषणः ॥ १३॥ रक्तपाणितलः स्वङ्गः सन्मुद्रामण्डिताङ्गुलिः । नखप्रभारञ्जिताब्जः सर्वसौन्दर्यमण्डितः ॥ १४॥ सुभ्रूरर्धशशिप्रख्यललाटः कामरूपधृक् । कुङ्कुमाङ्कितसद्भालः सुकेशो बर्हभूषणः ॥ १५॥ किरीटभाव्याप्तनभो विकलीकृतभास्करः । वनमाली पतिवासाः शार्ङ्गचापोऽसुरान्तकः ॥ १६॥ दर्पापहः कंसहन्ता चाणूरमुरमर्दनः । वेणुवादनसन्तुष्टो दध्यन्नास्वादलोलुपः ॥ १७॥ जितारिः कामजनकः कामहा कामपूरकः । विक्रोधो दारितामित्रो भूर्भुवःसुवरादिराट् ॥ १८॥ अनादिरजनिर्जन्यजनको जाह्नवीपदः । बहुजन्मा जामदग्न्यः सहस्रभुजखण्डनः ॥ ९९॥ कोदण्डधारी जनकपूजितः कमलाप्रियः । पुण्डरीकभवद्वेषी पुण्डरीकभवप्रियः ॥ २०॥ पुण्डरीकस्तुतिरसः सद्भक्तपरिपालकः । सुषुमालासङ्गमस्थो गोगोपीचित्तरञ्जनः ॥ २१॥ इष्टिकास्थो भक्तवश्यस्त्रिमूर्तिर्भक्तवत्सलः । लीलाकृतजगद्धामा जगत्पालो हरो विराट् ॥ २२॥ अश्वत्थपद्मतीर्थस्थो नारदस्तुतवैभवः । प्रमाणातीततत्त्वज्ञस्तत्त्वम्पदनिरूपितः ॥ २३॥ अजाजनिरजाजानिरजायो नीरजोऽमलः । लक्ष्मीनिवासः स्वर्भूषो विश्ववन्द्यो महोत्सवः ॥ २४॥ जगद्योनिरकर्ताऽऽद्यो भोक्ता भोग्यो भवातिगः । षड्गुणैश्वर्यसम्पन्नो भगवान्मुक्तिदायकः ॥ २५॥ अधःप्राणो मनो बुद्धिः सुषुप्तिः सर्वगो हरिः । मत्स्यः कूर्मो वराहोऽत्रिर्वामनो हीररूपधृत् ॥ २६॥ नारसिंहो ऋषिर्व्यासो रामो नीलांशुको हली । बुद्धोऽर्हन् सुगतः कल्की नरो नारायणः परः ॥ २७॥ परात्परः करीड्येशो नक्रशापविमोचनः । नारदोक्तिप्रतिष्ठाता मुक्तकेशी वरप्रदः ॥ २८॥ चन्द्रभागाप्सु सुस्नातः कामितार्थप्रदोऽनघः । तुलसीदामभूषाढ्यस्तुलसीकाननप्रियः ॥ २९॥ पाण्डुरङ्गः क्षेत्रमूर्तिः सर्वमूर्तिरनामयः । पुण्डरीकव्याजकृतजडोद्धारः सदागतिः ॥ ३०॥ अगतिः सद्गतिः सभ्यो भवो भव्यो विधीडितः । प्रलम्बघ्नो द्रुपदजाचिन्ताहारी भयापहः ॥ ३१॥ वह्निवक्त्रः सूर्यनुतो विष्णुस्त्रैलोक्यरक्षकः । जगद्भक्ष्यो जगद्गेहो जनाराध्यो जनार्दनः ॥ ३२॥ जेता विष्णुर्वरारोहो भीष्मपूज्यपदाम्बुजः । भर्ता भीष्णकसम्पूज्यः शिशुपालवधोद्यतः ॥ ३३॥ शतापराधसहनः क्षमावानादिपूजनः । शिशुपालशिरच्छेत्ता दन्तवक्त्रबलापहः ॥ ३४॥ शिशुपालकृतद्रोहः सुदर्शनविमोचनः ॥ ३५॥ सश्रीः समायो दामेन्द्रः सुदामक्रीडनोत्सुकः । वसुदामकृतक्रीडः किङ्किणीदामसेवितः ॥ ३६॥ पञ्चाङ्गपूजनरतः शुद्धचित्तवशंवदः । रुक्मिणीवल्लभः सत्यभामाभूषितविग्रहः ॥ ३७॥ नाग्नजित्या कृतोत्साहः सुनन्दाचित्तमोहनः । मित्रवृन्दाऽऽलिङ्गिताङ्गो ब्रह्मचारी वटुप्रियः ॥ ३८॥ सुलक्षणाधौतपदो जाम्बवत्या कृतादरः । सुशीलाशीलसन्तुष्टो जलकेलिकृतादरः ॥ ३९॥ वासुदेवो देवकीड्यो नन्दानन्दकराङ्घ्रियुक् । यशोदामानसोल्लासो बलावरजनिःस्वभूः ॥ ४०॥ सुभद्राऽऽनन्ददो गोपवश्यो गोपीप्रियोऽजयः । मन्दारमूलवेदिस्थः सन्तानतरुसेवितः ॥ ४१॥ पारिजातापहरणः कल्पद्रुमपुरःसरः । हरिचन्दनलिप्ताङ्ग इन्द्रवन्द्योऽग्निपूजितः ॥ ४२॥ यमनेता नैरृतेयो वरुणेशः खगप्रियः । कुबेरवन्द्य ईशेशो विधीड्योऽनन्तवन्दितः ॥ ४३॥ वज्री शक्तिर्दण्डधरः खड्गी पाश्यङ्कुशी गदी । त्रिशूली कमली चक्री सत्यव्रतमयो नवः ॥ ४४॥ महामन्त्रः प्रणवभूर्भक्तचिन्तापहारकः । स्वक्षेत्रवासी सुखदः कामी भक्तविमोचनः ॥ ४५॥ स्वनामकीर्तनप्रीतः क्षेत्रेशः क्षेत्रपालकः । कामश्चक्रधरार्धश्च त्रिविक्रममयात्मकः ॥ ४६॥ प्रज्ञानकरजित्कान्तिरूपवर्णः स्वरूपवान् । स्पर्शेन्द्रियं शौरिमयो वैकुण्ठः सानिरुद्धकः ॥ ४७॥ षडक्षरमयो बालः श्रीकृष्णो ब्रह्मभावितः । नारदाधिष्ठितक्षेमो वेणुवादनतत्परः ॥ ४८॥ नारदेशप्रतिष्ठाता गोविन्दो गरुडध्वजः । साधारणः समः सौम्यः कलावान् कमलालयः ॥ ४९॥ क्षेत्रपः क्षणदाधीशवक्त्रः क्षेमकरक्षणः । लवो लवणिमाधाम लीलावान् लघुविग्रहः ॥ ५०॥ हयग्रीवो हली हंसो हतकंसो हलिप्रियः । सुन्दरः सुगतिर्मुक्तः सत्सखो सुलभः स्वभूः ॥ ५१॥ साम्राज्यदः सामराजः सत्ता सत्यः सुलक्षणः । षड्गुणैश्वर्यनिलयः षडृतुपरिसेवितः ॥ ५२॥ षडङ्गशोधितः षोढा षड्दर्शननिरूपितः । शेषतल्पः शतमखः शरणागतवत्सलः ॥ ५३॥ सशम्भुः समितिः शङ्खवहः शार्ङ्गसुचापधृत् । वह्नितेजा वारिजास्यः कविर्वंशीधरो विगः ॥ ५४॥ विनीतो विप्रियो वालिदलनो वज्रभूषणः । रुक्मिणीशो रमाजानी राजा राजन्यभूषणः ॥ ५५॥ रतिप्राणप्रियपिता रावणान्तो रघूद्वहः । यज्ञभोक्ता यमो यज्ञभूषणो यज्ञदूषणः ॥ ५६॥ यज्वा यशोवान् यमुनाकूलकुञ्जप्रियो यमी । मेरुर्मनीषी महितो मुदितः श्यामविग्रहः ॥ ५७॥ मन्दगामी मुग्धमुखो महेशो मीनविग्रहः । भीमो भीमाङ्गजातीरवासी भीमार्तिभञ्जनः ॥ ५८॥ भूभारहरणो भूतभावनो भरताग्रजः । बलं बलप्रियो बालो बालक्रीडनतत्परः ॥ ५९॥ बकासुरान्तको बाणासुरदर्पकवाडवः । बृहस्पतिबलारातिसूनुर्बलिवरप्रदः ॥ ६०॥ बोद्धा बन्धुवधोद्युक्तो बन्धमोक्षप्रदो बुधः । फाल्गुनानिष्टहा फल्गुकृतारातिः फलप्रदः ॥ ६९॥ फेनजातैरकावज्रकृतयादवसङ्क्षयः । फाल्गुनोत्सवसंसक्तः फणितल्पः फणानटः ॥ ६२॥ पुण्यः पवित्रः पापात्मदूरगः पण्डिताग्रणीः । पोषणः पुलिनावासः पुण्डरीकमनोर्वशः ॥ ६३॥ निरन्तरो निराकाङ्क्षो निरातङ्को निरञ्जनः । निर्विण्णमानसोल्लासो नयनानन्दनः सताम् ॥ ६४॥ नियमो नियमी नम्यो नन्दबन्धनमोचनः । निपुणो नीतिमान्नेता नरनारायणवपुः ॥ ६५॥ धेनुकासुरविद्वेषी धाम धाता धनी धनम् । धन्यो धन्यप्रियो धर्ता धीमान् धर्मविदुत्तमः ॥ ६६॥ धरणीधरसन्धर्ता धराभूषितदंष्ट्रकः । दैतेयहन्ता दिग्वासा देवो देवशिखामणिः ॥ ६७॥ दाम दाता दीप्तिभानुः दानवादमिता दमः । स्थिरकार्यः स्थितप्रज्ञः स्थविरस्थापकः स्थितिः । स्थितलोकत्रयवपुः स्थितिप्रलयकारणम् ॥ ६८॥ स्थापकस्तीर्थचरणस्तर्पकस्तरुणीरसः । तारुण्यकेलिनिपुणस्तरणस्तरणिप्रभुः ॥ ६९॥ तोयमूर्तिस्तमोऽतीतः स्तम्भोद्भूतस्तपःपरः । तडिद्वासास्तोयदाभस्तारस्तारस्वरप्रियः ॥ ७०॥ णकारो ढौकितजगत्त्रितूर्यप्रीतभूसुरः । डमरूप्रियहृद्वासी डिण्डिमध्वनिगोचरः ॥ ७१॥ ठयुगस्थमनोर्गम्यः ठङ्कारि धनुरायुधः । टणत्कारितकोदण्डहतारिर्गणसौख्यदः ॥ ७२॥ झाङ्कारिचाञ्चरीकाङ्की श्रुतिकल्हारभूषणः । जरासन्धार्दितजगत्सुखभूर्जङ्गमात्मकः ॥ ७३॥ जगज्जनिर्जगद्भूषो जानकीविरहाकुलः । जिष्णुशोकापहरणो जन्महीनो जगत्पतिः ॥ ७४॥ छत्रिताहीन्द्रसुभगः छद्मी छत्रितभूधरः । छायास्थलोकत्रितयछलेन बलिनिग्रही ॥ ७५॥ चेतश्चमत्कारकरः चित्री चित्रस्वभाववान् । चारुभूश्चन्द्रचूडश्च चन्द्रकोटिसमप्रभः ॥ ७६॥ चूडारत्नद्योतिभालश्चलन्मकरकुपडलः । चरुभुक् चयनप्रीतश्चम्पकाटविमध्यगः ॥ ७७॥ चाणूरहन्ता चन्द्राङ्कनाशनश्चन्द्रदीधितिः । चन्दनालिप्तसर्वाङ्गश्चारुचामरमण्डितः ॥ ७८॥ घनश्यामो घनरवो घटोत्कचपितृप्रियः । घनस्तनीपरीवारो घनवाहनगर्वहा ॥ ७९॥ गङ्गापदो गतक्लेशो गतक्लेशनिषेवितः । गणनाथो गजोद्धर्ता गायको गायनप्रियः ॥ ८०॥ गोपतिर्गोपिकावश्यो गोपबालानुगः पतिः । गणकोटिपरीवारो गम्यो गगननिर्मलः ॥ ८१॥ गायत्रीजपसम्प्रीतो गण्डकीस्थो गुहाशयः । गुहारण्यप्रतिष्ठाता गुहासुरनिषूदनः ॥ ८२॥ गीतकीर्तिर्गुणारामो गोपालो गुणवर्जितः । गोप्रियो गोचरप्रीतो गाननाट्यप्रवर्तकः ॥ ८३॥ खट्वायुधः खरद्वेषी खातीतः खगमोचनः । खगपुच्छकृतोत्तंसः खेलद्बालकृतप्रियः ॥ ८४॥ खट्वाङ्गपोथितारातिः खञ्जनाक्षः खशीर्षकः । कलवंशरवाक्रान्तगोपीविस्मारितार्भकः ॥ ८५॥ कलिप्रमाथी कञ्जास्यः कमलायतलोचनः । कालनेमिप्रहरणः कुण्ठितार्तिकिशोरकः ॥ ८६॥ केशवः केवलः कण्ठीरवास्यः कोमलाङ्घ्रियुक् । कम्बली कीर्तिमान् कान्तः करुणामृतसागरः ॥ ८७॥ कुब्जासौभाग्यदः कुब्जाचन्दनालिप्तगात्रकः । कालः कुवलयापीडहन्ता क्रोधसमाकुलः ॥ ८८॥ कालिन्दीपुलिनाक्रीडः कुञ्जकेलिकुतूहली । काञ्चनं कमलाजानिः कलाज्ञः कामितार्थदः ॥ ८९॥ कारणं करणातीतः कृपापूर्णः कलानिधिः । क्रियारूपः क्रियातीतः कालरूपः क्रतुप्रभुः ॥ ९०॥ कटाक्षस्तम्भितारातिः कुटिलालकभूषितः । कूर्माकारः कालरूपी करीरवनमध्यगः ॥ ९१॥ कलकण्ठी कलरवः कलकण्ठरुतानुकृत् । करद्वारपुरः कूटः सर्वेषां कवलप्रियः ॥ ९२॥ कलिकल्मषहा क्रान्तगोकुलः कुलभूषणः । कूटारिः कुतुपः कीशपरिवारः कविप्रियः ॥ ९३॥ कुरुवन्द्यः कठिनदोर्दण्डखण्डितभूभरः । किङ्करप्रियकृत्कर्मरतभक्तप्रियङ्करः ॥ ९४॥ अम्बुजास्योऽङ्गनाकेलिरम्बुशाय्यम्बुधिस्तुतः । अम्भोजमाल्यम्बुवाहलसदङ्गोऽन्त्रमालकः ॥ ९५॥ औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकः । ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलः ॥ ९६॥ ऐरावतसमारूढ ऐन्द्रीशोकापहारकः । ऐश्वर्यावधिरैश्वर्यमैश्वर्याष्टदलस्थितः ॥ ९७॥ एणशावसमानाक्ष एधस्तोषितपावकः । एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पहा ॥ ९८॥ लूनपञ्चक्लेशपदो लूतातन्तुर्जगत्कृतिः । लुप्तदृश्यो लुप्तजगज्जयो लुप्तसुपावकः ॥ ९९॥ रूपातीतो रूपनामरूपमायादिकारणम् । ऋणहीनो ऋद्धिकारी ऋणातीतो ऋतंवदः ॥ १००॥ उषानिमित्तबाणघ्न उषाहार्यूर्जिताशयः । ऊर्ध्यरूपोर्ध्वाधरग ऊष्मदग्धजगत्त्रयः ॥ १०१॥ उद्धवत्राणनिरत उद्धवज्ञानदायकः । उद्धर्तोद्धव उन्निद्र उद्बोध उपरिस्थितः ॥ १०२॥ उदधिक्रीड उदधितनयाप्रिय उत्सवः । उच्छिन्नदेवतारातिरुदध्यावृतिमेखलः ॥ १०३॥ ईतिघ्न ईशिता ईज्य ईड्य ईहाविवर्जितः । ईशध्येयपदाम्भोज इन ईनविलोचनः ॥ १०४॥ इन्द्र इन्द्रानुजनट इन्दिराप्राणवल्लभः । इन्द्रादिस्तुत इन्द्रश्रीरिदमित्थमभीतकृत् ॥ १०५॥ आनन्दाभास आनन्द आनन्दनिधिरात्मदृक् । आयुरार्तिघ्न आयुष्य आदिरामयवर्जितः ॥ १०६॥ आदिकारणमाधार आधारादिकृताश्रयः । अच्युतैश्वर्यममित अरिनाश अघान्तकृत् ॥ १०७॥ अन्नप्रदोऽन्नमखिलाधार अच्युत अब्जभृत् । चन्द्रभागाजलक्रीडासक्तो गोपविचेष्टितः ॥ १०८॥ हृदयाकारहृद्भूषो यष्टिमान् गोकुलानुगः । गवां हुङ्कृतिसम्प्रीतो गवालीढपदाम्बुजः ॥ १०९॥ गोगोपत्राणसुश्रान्त अश्रमी गोपवीजितः । पाथेयाशनसम्प्रीतः स्कन्धशिक्यो मुखाम्बुपः ॥ ११०॥ क्षेत्रपारोपितक्षेत्रो रक्षोऽधिकृतभैरवः । कार्यकारणसङ्घातस्ताटकान्तस्तु रक्षहा ॥ १११॥ हन्ता तारापतिस्तुत्यो यक्षः क्षेत्रं त्रयीवपुः । प्राञ्जलिर्लोलनयनो नवनीताशनप्रियः ॥ ११२॥ यशोदातर्जितः क्षीरतस्करो भाण्डभेदनः । मुखाशनो मातृवश्यो मातृदृश्यमुखान्तरः ॥ ११३॥ व्यात्तवक्त्रो गतभयो मुखलक्ष्यजगत्त्रयः । यशोदास्तुतिसम्प्रीतो नन्दविज्ञातवैभवः ॥ ११४॥ संसारनौकाधर्मज्ञो ज्ञाननिष्ठो धनार्जकः । कुबेरः क्षत्रनिधनं ब्रह्मर्षिर्ब्राह्मणप्रियः ॥ ११५॥ ब्रह्मशापप्रतिष्ठाता यदुराजकुलान्तकः । युधिष्ठिरसखो युद्धदक्षः कुरुकुलान्तकृत् ॥ १९६॥ अजामिलोद्धारकारी गणिकामोचनो गुरुः । जाम्बवद्युद्धरसिकः स्यमन्तमणिभूषणः ॥ ११७॥ सुभद्राबन्धुरक्रूरवन्दितो गदपूर्वजः । बलानुजो बाहुयुद्धरसिको मयमोचनः ॥ ११८॥ दग्धखाण्डवसम्प्रीतहुताशो हवनप्रियः । उद्यदादित्यसङ्काशवसनो हनुमद्रुचिः ॥ ११९॥ भीष्मबाणव्रणाकीर्णः सारथ्यनिपुणो गुणी । भीष्मप्रतिभटश्चक्रधरः सम्प्रीणितार्जुनः ॥ १२०॥ स्वप्रतिज्ञाहानिहृष्टो मानातीतो विदूरगः । विरागी विषयासक्तो वैकुण्ठोऽकुण्ठवैभवः ॥ १२९॥ सङ्कल्पः कल्पनातीतः समाधिर्निर्विकल्पकः । सविकल्पो वृत्तिशून्यो वृत्तिर्बीजमतीगतः ॥ १२२॥ महादेवोऽखिलोद्धारी वेदान्तेषु प्रतिष्ठितः । तनुर्बृहत्तनूरण्वराजपूज्योऽजरोऽमरः ॥ १२३॥ भीमाहतजरासन्धः प्रार्थितायुधसङ्गरः । स्वसङ्केतप्रकॢप्तार्थो निरर्थ्योऽर्थी निराकृतिः ॥ १२४॥ गुणक्षोभः समगुणः सद्गुणाढ्यः प्रमाप्रजः । स्वाङ्गजः सात्यकिभ्राता सन्मार्गो भक्तभूषणः ॥ १२५॥ अकार्यकार्यनिर्वेदो वेदो गोपाङ्कनिद्रितः । अनाथो दावपो दावो दाहको दुर्धरोऽहतः ॥ १२६॥ ऋतवाग्याचको विप्रः खर्व इन्द्रपदप्रदः । बलिमूर्धस्थितपदो बलियज्ञविघातकृत् ॥ १२७॥ यज्ञपूर्तिर्यज्ञमूर्तिर्यज्ञविघ्नमविघ्नकृत् । बलिद्वाःस्थो दानशीलो दानशीलप्रियो व्रती ॥ १२८॥ अव्रतो जतुकागारस्थितपाण्डवजीवनम् । मार्गदर्शी मृदुर्हेलादूरीकृतजगद्भयः ॥ १२९॥ सप्तपातालपादोऽस्थिपर्वतो द्रुमरोमकः । उडुमाली ग्रहाभूषो दिक् श्रुतिस्तटिनीशिरः ॥ १३०॥ वेदश्वासो जितश्वासश्चित्तस्थश्चित्तशुद्धिकृत् । धीः स्मृतिः पुष्टिरजयः तुष्टिः कान्तिर्धृतिस्त्रपा ॥ १३१॥ हलः कृषिः कलं वृष्टिर्गृष्टिर्गौरवनं वनम् । क्षीरं हव्यं हव्यवाहो होमो वेदी समित्स्रुवः ॥ १३२॥ कर्म कर्मफलं स्वर्गो भूष्यो भूषा महाप्रभुः । भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोजनः ॥ १३३॥ सत्यो विधिर्दैवमधोलोकः पातालमण्डनः । जरायुजः स्वेदजनिरुद्बीजः कुलपर्वतः ॥ १३४॥ कुलस्तम्भः सर्वकुलः कुलभूः कौलदूरगः । धर्मतत्वं निर्विषयो विषयो भोगलालसः ॥ १३५॥ वेदान्तसारो निर्मोक्ता जीवो बद्धो बहिर्मुखः । प्रधानं प्रकृतिर्विश्वद्रष्टा विश्वनिषेधनः ॥ १३६॥ अन्तश्चतुर्द्वारमयो बहिर्द्वारचतुष्टयः । भुवनेशो क्षेत्रदेवोऽनन्तकायो विनायकः ॥ १३७॥ पिता माता सुहृद्वन्धुर्भ्राता श्राद्धं यमोऽर्यमा । विश्वेदेवाः श्राद्धदेवो मनुर्नान्दीमुखो धनुः ॥ १३८॥ हेतिः खड्गो रथो युद्धं युद्धकर्ता शरो गुणः । यशो यशोरिपुः शत्रुरशत्रुर्विजितेन्द्रियः ॥ १३९॥ पात्रं दाता दापयिता देशः कालो धनागमः । काञ्चनं प्रेम सन्मित्रं पुत्रः कोशो विकोशकः ॥ १४०॥ अनीतिः शरभो हिंस्रो द्विपो द्वीपी द्विपाङ्कुशः । यन्ता निगड आलानं सन्मनो गजश‍ृङ्खलः ॥ १४१॥ मनोऽब्जभृङ्गो विटपी गजः क्रोष्टा वृशो वृकः । सत्पथाचारनलिनीषट्पदः कामभञ्जनः ॥ १४२॥ स्वीयचित्तचकोराब्जः स्वलीलाकृतकौतुकः । लीलाधामाम्बुभृन्नाथः क्षोणी भर्ता सुधाब्धिदः ॥ १४३॥ मल्लान्तको मल्लरूपो बालयुद्धप्रवर्तनः । चन्द्रभागासरोनीरसीकरग्लपितक्लमः ॥ १४४॥ कन्दुकक्रीडनक्लान्तो नेत्रमीलनकेलिमान् । गोपीवस्त्रापहरणः कदम्बशिखरस्थितः ॥ १४५॥ बल्लवीप्रार्थितो गोपीनतिदेष्टाञ्जलिप्रियः । परिहासपरो रासे रासमण्डलमध्यगः ॥ १४६॥ बल्लवीद्वयसंवीतः स्वात्मद्वैतात्मशक्तिकः । चतुर्विंशतिभिन्नात्मा चतुर्विंशतिशक्तिकः ॥ १४७॥ स्वात्मज्ञानं स्वात्मजातजगत्त्रयमयात्मकः । इति विठ्ठलसंज्ञस्य विष्णोर्नामसहस्रकम् ॥ १४८॥ त्रिकालमेककालं वा श्रद्धया प्रयतः पठेत् । स विष्णोर्नात्र सन्देहः किं बहूक्तेन शौनक ॥ १४९॥ कामी चेन्नियताहारो जितचित्तो जितेन्द्रियः । जपन् कामानवाप्नोति इति वै निश्चितं द्विज ॥ १५०॥ ॥ इति श्रीविठ्ठलसहस्रनामस्तोत्रं सम्पूर्णम् ॥