अक्षर आकार:

श्रीविठ्ठलप्रबोधः

Shri Viththalaprabodhah

श्रीविठ्ठलप्रबोधः

विठ्ठलेश्वरकृतः । जय जय तुहिनकरनिकरकुड्मलितकमलावलीनिलीनतया निवृत्तमधुकरनिकरमधुरतरोद्घोषोद्धतिविहतनिद्र भद्र सुभद्राग्रज ॥ १॥ जय जय निजमुखकमलामलपरिमलाघ्राणजनितसुखातिशयेनैव सञ्जातसुखनिद्राविद्रावणभियेव नयनयुगलखञ्जरीटोन्मीलनभियेव झङ्काररहितैरलिभिरिवालकशतैः परिवृतवदनारविन्द गोविन्द ॥ २॥ जय जय निशाकरकरविकचकुवलयकोशनिर्यातदिवाकरकरनिकरकुञ्चित- कमलावलिकोशस्थितिजनितमधुरमधुपानोन्मोदमुदितभृङ्गाङ्गनारवमधुर- तरोद्घोषविद्रावितनिद्र निखिलगोपीजनजनितनिजाधारहिन्दोलान्दोलन- चलदमलवलयझणत्कारेण मधुरतरनिनदवीणागीतादिभिरुन्निद्र- नयनखञ्जरीटयुगल ॥ ३॥ जय जय ततः किञ्चिदुन्मीलनोन्नतभ्रूलतासमशरासनच्युतकुसुम- विशिखद्वयेनेव गोपीजनवदनशरदिन्दुविभ्रमसञ्चरत्खञ्जनयुगलेनेव हिन्दोलान्दोलनचलदमलसुभगबल्लवीगण्डमण्डलस्फुरत्ताटङ्क- मार्तण्डभ्रमविकसितकमलद्वयेनेवारुणतरामलराधाधरदीधिति- किर्मीरितदरहसनप्रकटरदनावलीतुहिनकरप्रतिभटप्रभाजनितशारद- शर्वरीपत्युदयभ्रमविकसितकुमुदद्वयेन प्रकटितनयनयुगेनेक्षित- निखिलनितम्बनीवृन्द ॥ ४॥ जय जय निजदृगन्तपातसोपानसमारूढमकरकेतुभिर्निजवदनशरदिन्दु- सम्फुल्लातिलोललोचनकुवलयाभिरनल्पाकल्पभूषिताभिर्निजनितम्ब- बिम्बालङ्कृतसुधाकरकरधवलविशदसुभगतल्पाभिर्हरिकरकमल- नखशरसम्पातपराजितानङ्गपृतनाभिरिव विगलितकञ्चिकाञ्चल- नितम्बाम्बरभूषाभिः अतिसुभगविशदजघनकनकासनोपवेशित- प्रियाभिर्निजनखदृगन्तविविधप्रसूनार्चितवल्लभाभिः सुरतविद्याविनोद- चतुराभिर्भावाधिगमसमये प्रियवियोगशङ्कयान्तर्नयनद्वारं प्रवेश्य पिहितकपाटाभिरिव निमीलितनयनाभिः क्रीडित ॥ ५॥ जय जय पुनरतिनिर्वृतिविहितनिद्र जागृहि जागृहि ॥ ६॥ न यावदेष कुङ्कुमारुणांशुरिन्दिरापते पुरन्दरीयदिङ्मुखं समेति तावदुत्थितः । प्रमार्जयाननाम्बुजं निजाधरं च सुन्दरं कदम्बशोभितान्तरस्वतल्पमन्मथोदयम् ॥ ७॥ न चेदमी शमीतरुप्रसूनतल्पकञ्चुकं नखक्षतं च मेचकाधरं सकुङ्कुमं मुखम् । विलोक्य नागरा जनास्त ईदृशीं तव स्थितिं प्रभो सभासु भाषितुं समुज्झितोक्तयो न हि ॥ ८॥ स्फुरत्त्वन्मुखाम्भोजशोभानिवृत्तस्वसौन्दर्यगर्वाचलः शर्वरीशः । ह्रिया मज्जति क्षीरवारान्निधौ तन्नखालिच्छटाभिश्च तुच्छीकृतोऽयम् ॥ ९॥ दिवाकरोऽयमुत्कटस्त्वदङ्घ्रिपङ्कजार्हणं विधातुमागतोऽम्बुजैस्तदर्हणं सभाजय । कलिन्दजा त्वदाननावलोकनाय दृक्सरो जनूंषि सम्प्रसारयत्यनङ्गकोटिसुन्दर ॥ १०॥ स्फुरत्सरोजनिर्गतद्विरेफयूथगायका यशोदयावतन्वते दिशं शुभाय दर्शनार्थिनः । जगद्विलोचने हरे कुरुष्व सार्थजन्मके कृपां कुरुष्व विठ्ठले स्वपादपद्मसेवके ॥ ११॥ इति विठ्ठलेश्वरकृतः श्रीविठ्ठलप्रबोधः सम्पूर्णः ।