अक्षर आकार:

श्रीविठ्ठलहृदयम्

shrIviThThalahRRidayam

श्रीविठ्ठलहृदयम्

श्रीपार्वत्युवाच । महाशम्भो देवदेव भक्तानुग्रहकारक । श्रीविठ्ठलारव्यं हृदयं तन्मे ब्रूहि सदाशिव ॥ १॥ श्रीशङ्कर उवाच । श‍ृणु देवि महादेवि पार्वति प्राणवल्लभे । गुह्याद्गुयतरं श्रेष्ठं नास्ति गुह्यमतः परम् ॥ २॥ जीवस्य जीवनं साक्षात्प्राणिनां प्राण उच्यते । योगिनां हि महागम्यं पाण्डुरङ्गाभिधानकम् ॥ ३॥ अद्यापि महिमा तस्य सर्वथा ज्ञायते न हि । नित्यनूतनतत्क्षेत्रस्योपमा नास्ति निश्चितम् ॥ ४॥ मुखं कञ्जेन तुलितं पद्मपत्रसमेक्षणम् । कथं साम्यं भवेद्देवि ह्यन्तरं महदन्तरम् ॥ ५॥ गजैरावतयोश्चैव अश्वोच्चैःश्रवसोस्तथा । स्पर्शपाषाणायोश्चैव ह्यन्तरं महदन्तरम् ॥ ६॥ काश्याः शतगुण श्रेष्ठं द्वारवत्या द्विलक्षयोः । एवं सर्वाणि तीर्थानि कलां नार्हन्ति कानिचित् ॥ ७॥ तीर्थं क्षेत्रं दैवतं च मन्त्रः स्तोत्रं महाद्भुतम् । एतत्सर्वं यथाशक्त्या वर्णयामि मम प्रिये ॥ ८॥ एकदा क्षीरसंस्थाने देवदेवं जगद्गुरुम् । गतोऽहं पादपूजार्थं सुरेन्न्द्रब्राह्यणैः सह ॥ ९॥ शेषनारदपक्षीन्द्रैर्लक्ष्मीकान्तं गणैः सह । प्रणम्य परमात्मानं तमुवाच चतुर्मुखः ॥ १०॥ ब्रह्मोवाच । महाविष्णो जगन्नाथ सर्वविश्वगुहाशय । तव यच्च प्रियं देव संस्थानं ब्रूहि केशव ॥ ११॥ श्रीभगवानुवाच । श‍ृणु ब्रह्मन् महाशम्भो अधिष्ठानं ममालयम् । पाण्डुरङ्गमिति ख्यातं न साम्यं भुवनत्रये ॥ ११॥ पाण्डुरङ्गं च वैकुण्ठं तुलयित्वा मयाऽधुना । पाण्डुरङ्गं गुरुं मत्वा पूर्णत्वेनास्थितोऽस्म्यहम् ॥ १३॥ नाहं तिष्ठामि क्षीराब्धौ नास्मि सूर्येन्दुमण्डले । मन्नामकर्तिनस्थाने तत्र तिष्ठामि शङ्कर ॥ १४॥ कार्यकारणकर्तृत्वे सम्भवक्षेत्रमुच्यते । तादृशं नास्ति तत्क्षेत्रं यत्र तिष्ठामि सर्वदा ॥ १५॥ सुखे सञ्जयति ब्रह्म ब्रह्मबीजं प्रशस्यते । बीजेन व्यज्यते बिन्दुर्बिन्दोर्नादः प्रकीर्तितः ॥ १६॥ आहतोऽनाहतश्चेति द्विधा नादस्तु विद्यते । ओङ्कारोऽनाहतो मूर्तिराहतो नामकीर्तनम् ॥ १७॥ बिन्दुनादात्मकं क्षेत्रं नादोऽव्यक्तः प्रदृश्यते । यत्र सङ्कीर्तनेनैव साक्षाद्ब्रह्ममयो भवेत् ॥ १८॥ कीदृशं धृतवान् रूपमित्याह परमेश्वरः । इष्टिकायां समपदं तत्त्वमस्यादिलक्षपाम् ॥ १९॥ कटिविन्यस्तहस्ताब्जं प्रणवाकृतिसौरसम् । ऊर्ध्वबीजसमाख्यातं पूर्णेन्दुमुखमण्डनम् ॥ २०॥ सर्वभूषणशोभाढ्यमीदृशं मोक्षदं नृणाम् । अज्ञानजनबोधार्थं तिष्ठामीह जनार्दनः ॥ २१॥ विठ्ठलः परमो देवस्त्रयीरूपेण तिष्ठति । तीर्थं क्षेत्रं तथा देवो ब्रह्म ब्रह्मविदां वर ॥ २२॥ गुह्याद्गुह्यतरं देवं क्षेत्राणां क्षेत्रमुत्तमम् । चन्द्रभागावरं तीर्थं न भूतं न भविष्यति ॥ २३॥ इति श्रुत्वा रमेशस्य वचनं परमामृतम् । ब्रह्मा नारदसंयुक्तो हृदयं कीर्तयन् ययौ ॥ २४॥ इदं विठ्ठलहृदयं सर्वदारिद्र्यनाशनम् । सकृत्पठनमात्रेण लभते परमं पदम् ॥ २५॥ ओमस्य हृदयमन्त्रस्य परब्रह्म ऋषिः स्मृतः । छन्दोऽनुष्टुप् प्रविख्यातो देवः श्रीविठ्ठलो महः ॥ २६॥ ॐ नमो बीजमाख्यातं श्रीं पातु शक्तिरीडिता । ॐ श्रीं क्लीं कीलकं यस्य वेधको देवविठ्ठलः ॥ २७॥ त्रिबीजैरङ्गुलिन्यासः षडङ्गानि ततः परम् । ध्यानादिकं महादिव्यं हृदयं हृदये स्मरेत् ॥ २८॥ ॐ अस्य श्रीविठ्ठलहृदयस्तोत्रमत्रस्य परब्रहा ऋषिः । अनुष्टुप् छन्दः । श्रीविठ्ठलः परमात्मा देवता । ॐ नम इति बीजम् । ॐ श्रीं शक्तिः । ॐ श्रीं क्लीं कीलकम् । ॐ श्रीं विठ्ठलो वेधकः । श्रीविठ्ठलप्रीत्यर्थं जपे विनियोगः । ॐ श्रीं क्लीं अङ्गुल्यादि- षडगन्यासः ॥ अथ ध्यानम् ॐ श्रीं क्लीं प्रहसितमुखचन्द्रं प्रोल्लसत्पूर्णबिम्बं प्रणमदभयहस्तं चारुनीलाम्बुदाभम् । समपदकमनीयं तत्त्वबोधावगम्यं सदयवरददेवं विठ्ठलं तं नमामि ॥ २९॥ क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ॥ पाण्डुरङ्गः शिखां पातु मूर्धानं पातु विठ्ठलः । मस्तकं माधवः पातु तिलकं पातु श्रीकरः ॥ ३०॥ भर्गः पातु भुवोर्मध्ये लोचने विष्णुरोजसा । दृष्टिं सुदर्शनः पातु श्रोत्रे पातु दिगम्बरः ॥ ३१॥ नासाग्रं सृष्टिसौन्दर्य ओष्ठौ पातु सुधार्णवः । दन्तान् दयानिधिः पातु जिह्वां मे वेदवल्लभः ॥ ३२॥ तालुदेशं हरिः पातु रसनां गोरसप्रियः । चिबुकं चिन्मयः पातु ग्रीवां मे गरुडध्वजः ॥ ३३॥ कण्ठं तु कम्बुकण्ठश्च स्कन्धौ पातु महाबलः । भुजौ गिरिधरः पातु बाहू मे मधुसूदनः ॥ ३४॥ कूर्परौ कृपयाविष्टः करौ मे कमलापतिः । अगुलीरच्युतः पातु नखानि नरकेसरी ॥ ३५॥ वक्षः श्रीलाञ्छनः पातु स्तनौ मे स्तनलालसः । हृदयं श्रीहृषीकेश उदरं परमामृतः ॥ ३६॥ नाभिं मे पद्मनाभश्च कुक्षिं ब्रहयाडनायकः । कटिं पातु कटिकरो जघनं तु जनार्दनः ॥ ३७॥ शिश्नं पातु स्मराधीशो वृषणे वृषभः पतिः । गुह्यं गुह्यतरः पातु ऊरू पातूरुविक्रमः ॥ ३८॥ जानू पातु जगन्नाथो जङ्घे मे मनमोहनः । गुल्फौ पातु गणाधीशः पादौ पातु त्रिविक्रमः ॥ ३९॥ शरीरं चाखिलं पातु नरनारायणो हरिः । अग्रे ह्यग्रतरः पातु दक्षिणे दक्षकप्रियः ॥ ४०॥ पृष्ठे पुष्टिकरः पातु वामे मे वासवप्रभुः । पूर्वे पूर्वापरः पातु आग्नेय्यां चाग्निरक्षकः ॥ ४१॥ दक्षिणे दीक्षितार्थश्च नैरृत्यामृतुनायकः । पश्चिमे वरुणाधीशो वायव्ये वातजापतिः ॥ ४२॥ उत्तरे धृतखड्गश्च ईशान्ये पातु ईश्वरः । उपरिष्टात्तु भगवानन्तरिक्षे चिदम्बरः ॥ ४३॥ भूतले धरणीनाथः पाताले कूर्मनायकः । स्वर्गे पातु सुरेद्रेन्द्रो ब्रह्माण्डे ब्रह्मणस्पतिः ॥ ४४॥ अटव्यां नृहरिः पातु जीवने विश्वजीवनः । मार्गे पातु मनोगम्यः स्थाने पातु स्थिरासनः ॥ ४५॥ सबाह्याभ्यन्तरं पातु पुण्डरीकवरप्रियः । विष्णुर्मे विषयान् पातु वासनाः पातु वामनः ॥ ४६॥ कर्ता कर्मेन्द्रियं पातु ज्ञाता ज्ञानेन्द्रियं सदा । प्राणान् पातु प्राणनाथ आत्मारामो मनादिषु ॥ ४७॥ जागतिं मे जगद्ब्रह्म स्वप्नं पातु सुतेजकः । सुषुप्तिं मे समाधीशस्तुर्यां पातु मुनिप्रियः ॥ ४८॥ भार्यां पातु रमाकान्तः पुत्रान्पातु प्रजानिधिः । कन्यां मे करुणानाथो बान्धवान्भक्तवत्सलः ॥ ४९॥ धनं पातु धनाध्यक्षो धान्यं विश्वकुटुम्बकः । पशून्मे पालकः पातु विद्यां पातु कलानिधिः ॥ ५०॥ वाचस्पतिः पातु वादे सभायां विश्वमोहनः । कामक्रोधोद्भवात्पातु पूर्णकामो मनोरमः ॥ ५१॥ वस्त्रं रत्नं भूषणं च नाम रूपं कुलं गहम् । सर्वं सर्वात्मकः पातु शुद्धब्रह्मपरात्परः ॥ ५२॥ क्ली श्रीं ॐ ॐ श्री क्लीम् । विष्टलं मूर्ध्नि विन्यस्य ललाटे श्रीकरं न्यसेत् । पाण्डुरङ्गं भ्रुवोर्मध्ये नेत्रयोर्व्यापकं न्यसेत् ॥ ५३॥ कर्णयोर्निगमार्थं च गल्लयोर्वल्लभं न्यसेत् । नासिकायां न्यसेत्कृष्णं मुखे वै माधवं न्यसेत् ॥ ५४॥ ओष्ठयोर्मुरलीकान्तं दन्तपङ्क्त्यां सुहासकम् । रसनायां रसाधीशं जिह्वारग्रे कीर्तनं न्यसेत् ॥ ५५॥ कण्ठे न्यसेन्महाविष्णुं स्कन्धयोः कमलापतिम् । बाह्वोर्बलानुजं न्यस्य करे चक्रधरं न्यसेत् ॥ ५६॥ पाणितले पद्मधरं कराग्रे वरदाभयम् । वक्षःस्थले वरेण्यं च हृदये श्रीहरिं न्यसेत् ॥ १ ७॥ उदरे विश्वभर्तारं नाभौ नाभिकरं न्यसेत् । कट्यां न्यसेत्क्रियातीतमूरौ तु उद्धवप्रियम् ॥ ५८॥ जानुद्वये न्यसेच्छक्तिं पादयोः पावनं न्यसेत् । सबाह्याभ्यन्तरं न्यस्य देवदेवं जगद्गुरुम् ॥ ५९॥ क्लीं श्रीं ॐ ॐ श्रीं क्लीम् । विष्ठलाय नमस्तुभ्यं नमो विज्ञानहेतवे । विष्णुजिष्णुस्वरूपाय श्रीविष्णवे नमो नमः ॥ ६०॥ नमः पुण्डरीकाक्षाय पूर्णबिम्बात्मभे नमः । नमस्ते पाण्डुरङ्गाय पावनाय नमो नमः ॥ ६१॥ नमः पूर्णप्रकाशाय नमस्ते पूर्णतेजसे । पूर्णैश्वर्यस्वरूपाय पूर्णज्ञानात्मने नमः ॥ ६२॥ सच्चिदानन्दकन्दाय नमोऽनन्तसुखात्मने । नमोऽनन्ताय शान्ताय श्रीरामाय नमो नुमः ॥ ६३॥ नमो ज्योतिःस्वरूपाय नमो ज्योतिर्मयात्मने । नमो ज्योतिःप्रकाशाय सर्वोत्कृष्टात्मने नमः ॥ ६४॥ ॐ नमोब्रह्मरूपाय नम ॐङ्कारमूर्तये । निर्विकल्पाय सत्याय शुद्धसत्त्वात्मने नमः ॥ ६५॥ महद्ब्रह्म नमस्तेऽस्तु सत्यसङ्कल्पहेतवे । नमः सृष्टिप्रकाशाय गुणसाम्यायते नमः ॥ ६६॥ ब्रह्मविष्णुमहेशाय नानावर्णात्मरूपिणे । सदोदिताय शुद्धाय गुणातीताय ते नमः ॥ ६७॥ नमः सहस्रनाम्ने च नमः सहस्ररूपिणे । नमः सहस्रवक्त्राय सहस्राक्षायते नमः ॥ ६८॥ केशवाय नमस्तुभ्यं नमो नारायणायच । माधवाय नमस्तेऽस्तु गोविन्दाय नमो नमः ॥ ६९॥ श्रीविष्णवे नमस्तुभ्यं मधुसूदनरूपिणे । त्रिविक्रम सुदीर्घाय वामनाय नमो नमः ॥ ७०॥ श्रीधराय नमस्तुभ्यं हृषीकेशाय ते नमः । नमस्ते पद्मनाभाय दामोदराय ते नमः ॥ ७१॥ नमस्ते सङ्कर्षणाय वासुदेवाय ते नमः । प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धायते नमः ॥ ७२॥ नमः पुरुषोत्तमायाधोक्षजाय ते नमो नमः । नमस्ते नारसिंहाय अच्युताय नमो नमः ॥ ७३॥ नमो जनार्दनायास्तूपेन्द्राय च नमो नमः । श्रीहरये नमस्तुभ्यं श्रीकृष्णाय नमो नमः ॥ ७४॥ नमः पण्ढरिनाथाय भीमातीरनिवासिने । नमो ऋषिप्रसन्नाय वरदाय नमो नमः ॥ ७५॥ इष्टिकारूढरूपाय समपादाय ते नमः । कटिविन्यस्तहस्ताय मुखब्रह्मात्मने नमः ॥ ७६॥ नमस्तीर्थस्वरूपाय क्षेत्ररूपात्मने नमः । नमोऽस्तु मूर्तिमूर्ताय त्रिमूर्तये नमो नमः ॥ ७७॥ नमस्ते बिन्दुतीर्थाय नमोऽमृतेश्वराय च । नमः पुष्करतीर्थाय चन्द्रभागाय ते नमः ॥ ७८॥ नमस्ते जानुदेवाय धीरावत्यै नमो नमः । नमस्ते पुण्डरीकाय भीमरथ्यै नमो नमः ॥ ७९॥ मुक्तिकेशप्रवराय वेणुवादात्मने नमः । नमस्तेऽनन्तपादाय द्विपदाय नमो नमः ॥ ८०॥ नमो गोवत्सपादाय गोपालाय नमो नमः । नमस्ते पद्मतीर्थाय नरनारायणात्मने ॥ ८१॥ नमस्ते पितृतीर्थाय लक्ष्मीतीर्थाय ते नमः । नमोऽस्तु शङ्खचक्राय गदापद्माय ते नमः ॥ ८२॥ नमोऽश्वत्थनृसिंहाय कुण्डलाख्यस्वरूपिणे । नमस्ते क्षेत्रपालाय महालिङ्गाय ते नमः ॥ ८३॥ नमस्ते रङ्गशालाय नमः कीर्तनरूपिणे । ममौ रुक्मिणिनाथाय महामूर्त्यै नमो नमः ॥ ८४॥ नमो वैकुण्ठनाथाय नमः क्षीराब्धिशायिने । सर्वब्रह्म नमस्तुभ्यमहम्ब्रह्मात्मने नमः ॥ ८५॥ नमो नमो नमस्तुभ्यं नमस्तेऽस्तु नमो नमः । क्लीं श्रीं ओम् । आद्यन्ते सम्पुटीकृत्य बीजैश्च प्राणवल्लभे ॥ ८६॥ अष्टोत्तरशतं मन्त्रान् हृदयं नमनैः सह । उरनन्यैः कीर्तितं यैश्च तेषामाज्ञां वहाम्यहम् ॥ ८७॥ यावद्यस्य यथा भावो यन्नामन्यासपूर्वकम् । तावदेव हि विज्ञानं गदितं मदनुग्रहात् ॥ ८८॥ श्रीशङ्कर उवाच । इत्युक्तं वासुदेत्रोक्तं गोप्याद्गोप्यतरं महत् । नित्यं सङ्कीर्तनं यस्य प्राप्तमुक्तिर्न संशयः ॥ ८९॥ इदं गुह्यं हि हृदयं विठ्ठलस्य महाद्भुतम् । श‍ृणुयाच्छ्रद्धया युक्तो वैकुण्ठे लभते रतिम् ॥ ९०॥ एवमुक्त्वा महादेवः पार्वतीमनुकम्पया । समाधिस्थोऽभवच्छभुः सुस्मितः कमलाननः ॥ ९१॥ (श्रीभविष्योत्तरपुराणे पाण्डुरङ्गमाहात्म्यतः) इति विठ्ठलहृदयं सम्पूर्णम् ।