अक्षर आकार:

श्रीविठ्ठलाष्टोत्तरशतनामावलिः

shrIviThThalAShTottarashatanAmAvaliH

श्रीविठ्ठलाष्टोत्तरशतनामावलिः

ॐ क्लीम् । विठ्ठलाय नमः । पुण्डरीकाक्षाय । पुण्डरीकनिभेक्षणाय । पुण्डरीकाश्रमपदाय । पुण्डरीकजलाप्लुताय । पुण्डरीकक्षेत्रवासाय । पुण्डरीकवरप्रदाय । शारदाधिष्ठितद्वाराय । शारदेन्दुनिभाननाय । नारदाधिष्ठितद्वाराय । नारदेशप्रपूजिताय । भुवनाधीश्वरीद्वाराय । भुवनाधीश्वरीश्वराय । दुर्गाश्रितोत्तरद्वाराय । दुर्गमागमसंवृताय । क्षुल्लपेशीपिनद्धोरुगोपेष्ट्याश्लिष्टजानुकाय । कटिस्थितकरद्वन्द्वाय । वरदाभयमुद्रिताय । त्रेतातोरणपालस्थ- त्रिविक्रमाय । तितऊक्षेत्रपाय नमः ॥ २० अश्वत्थकोटीश्वरवरप्रदाय नमः । करवीरस्थाय नारीनारायणाय । नीरासङ्गमसंस्थाय । सैकतप्रतिमार्चिताय । वेणुनादेन देवानां मनः श्रवणमङ्गलाय । देवकन्याकोटिकोटिनीराजितपदाम्बुजाय । पद्मतीर्थस्थिताश्वत्थाय । नराय । नारायणाय महते । चन्द्रभागासरोनीरकेलिलोलदिगम्बराय । ससध्रीचीत्सविषूचीरितिश्रुत्यर्थरूपधृषे । ज्योतिर्मयक्षेत्रवासिने । सर्वोत्कृष्टत्रयात्मकाय । स्वकुण्डलप्रतिष्ठात्रे । पञ्चायुधजलप्रियाय । क्षेत्रपालाग्रपूजार्थिने । पार्वतीपूजिताय । चतुर्मुखस्तुताय । जगन्मोहनरूपधृषे विष्णवे नमः ॥ ४० मन्त्राक्षरावली हृत्स्थकौस्तुभोरःस्थलप्रियाय नमः । स्वमन्त्रोज्जीवितजनाय । सर्वकीर्तनवल्लभाय । वासुदेवाय । दयासिन्धवे । गोगोपीपरिवारिताय । युधिष्ठिरहतारातये । मुक्तकेशिने । वरप्रदाय । बलदेवोपदेष्ट्रे । रुक्मिणीपुत्रनायकाय । गुरुपुत्रप्रदाय । नित्यमहिम्ने । भक्तवत्सलाय । भक्तारिघ्ने । महादेवाय । भक्ताभिलषितप्रदाय । सव्यसाचिने । ब्रह्मविद्यागुरवे । मोहापहारकाय नमः ॥ ६० भीमामार्गप्रदात्रे नमः । भीमसेनमतानुगाय । गन्धर्वानुग्रहकराय । अपराधसहाय हरये । स्वप्नदर्शिने । स्वप्नदृश्याय । भक्तदुःस्वप्नशान्तिकृते । आपत्कालानुपेक्षिणे । अनपेक्षाय । जनैरपेक्षिताय । सत्योपयाचनाय । सत्यसन्धाय । सत्याभितारकाय । सत्याजानये । रमाजानये । राधाजानये । रथाङ्गभाजे । सिञ्चनाय । गोपैः क्रीडनाय । दधिदुग्धापहारकाय नमः ॥ ८० बोधन्युत्सवयुक्तीर्थाय नमः । शयन्युत्सव- भूमिभागे । मार्गशीर्षोत्सवाक्रान्तवेणुनादपदाङ्कभुवे । दध्यन्नव्यञ्जनाभोक्त्रे । दधिभुजे । कामपूरकाय । बिलान्तर्धानसत्केलि- लोलुपाय । गोपवल्लभाय । सखिनेत्रे पिधायाशु कोऽहं पृच्छाविशारदाय । समासमप्रश्नपूर्वमुष्टिमुष्टिप्रदर्शकाय । कुटिलीलासु कुशलाय । कुटिलालकमण्डिताय । सारीलीलानुसारिणे । सदा वाहक्रीडापराय । कार्णाटकीरतिरताय । मङ्गलोपवनस्थिताय । माध्याह्नतीर्थपूरेक्षाविस्मायितजगत्त्रयाय । निवारितक्षेत्रविघ्नाय । दुष्टदुर्बुद्धिभञ्जनाय । वालुकावृक्षपाषाणपशुपक्षिप्रतिष्ठिताय नमः । आशुतोषाय नमः । भक्तवशाय । पाण्डुरङ्गाय । सुपावनाय । पुण्यकीर्तये । परस्मै ब्रह्मणे । ब्रह्मण्याय । कृष्णाय नमः ॥ १०८ इति श्रीपद्मपुराणान्तर्गता श्रीविठ्ठलाष्टोत्तरशतनामावलिः समाप्ता ।