अक्षर आकार:

श्रीविष्ण्वष्टोत्तरशतनामावलिः

shrIviShNvaShTottarashatanAmAvaliH

श्रीविष्ण्वष्टोत्तरशतनामावलिः

ॐ हृषीकेशाय नमः । केशवाय । मधुसूदनाय । सर्वदतियानां सूदनाय । नारायणाय । अनामयाय । जयन्ताय । विजयाय । कृष्णाय । अनन्ताय । वामनाय । विष्णवे । विश्वेश्वराय । पुण्याय । विश्वात्मने । सुरार्चिताय । अनघाय । अघहर्त्रे । नारसिंहाय । श्रियः प्रियाय नमः ॥ २० ॐ श्रीपतये नमः । श्रीधराय । श्रीदाय । श्रीनिवासाय । महोदयाय । श्रीरामाय । माधवाय । मोक्षक्षमारूपाय । जनार्दनाय । सर्वज्ञाय । सर्ववेत्त्रे । सर्वेशाय । सर्वदायकाय । हरये । मुरारये । गोविन्दाय । पद्मनाभाय । प्रजापतये । आनन्दज्ञानसम्पन्नाय । ज्ञानदाय नमः ॥ ४० ॐ ज्ञानदायकाय नमः । अच्युताय । सबलाय । चन्द्रवक्त्राय । व्याप्तपरावराय । योगेश्वराय । जगद्योनये । ब्रह्मरूपाय । महेश्वराय । मुकुन्दाय । वैकुण्ठाय । एकरूपाय । कवये । ध्रुवाय । वासुदेवाय । महादेवाय । ब्रह्मण्याय । ब्राह्मणप्रियाय । गोप्रियाय । गोहिताय नमः ॥ ६० ॐ यज्ञाय नमः । यज्ञाङ्गाय । यज्ञवर्धनाय । यज्ञस्य भोक्त्रे । वेदवेदाङ्गपारगाय । वेदज्ञाय । वेदरूपाय । विद्यावासाय । सुरेश्वराय । प्रत्यक्षाय । महाहंसाय । शङ्खपाणये । पुरातनाय । पुष्कराय । पुष्कराक्षाय । वराहाय । धरणीधराय । प्रद्युम्नाय । कामपालाय । व्यासध्याताय नमः ॥ ८० ॐ महेश्वराय नमः । सर्वसौख्याय । महासौख्याय । साङ्ख्याय पुरुषोत्तमाय । योगरूपाय । महाज्ञानाय । योगीशाय । अजितप्रियाय । असुरारये । लोकनाथाय । पद्महस्ताय । गदाधराय । गुहावासाय । सर्ववासाय । पुण्यवासाय । महाजनाय । वृन्दानाथाय । बृहत्कायाय । पावनाय । पपनाशनाय नमः ॥ १०० ॐ गोपीनाथाय नमः । गोपसखाय । गोपालाय । गणाश्रयाय । परात्मने । पराधीशाय । कपिलाय । कार्यमानुषाय नमः ॥ १०८ इति श्रीविष्ण्वष्टोत्तरशतनामावलिः समाप्ता ।