अक्षर आकार:

विष्ण्वष्टकम्

viShNvaShTakam

विष्ण्वष्टकम्

श्रीगणेशाय नमः । पुरः सृष्टाविष्टः पुरुष इति तत्प्रेक्षणमुखः सहस्राक्षो भुक्त्वा फलमनुशयी शास्ति तमुत । स्वयं शुद्धं शान्तं निरवधिसुखं नित्यमचलं नमामि श्रीविष्णुं जलधितनयासेवितपदम् ॥ १॥ अनन्तं सत्सत्यं भवभयहरं ब्रह्म परमं सदा भातं नित्यं जगदिदमितः कल्पितपरम् । मुहुर्ज्ञानं यस्मिन् रजतमिव शुक्तौ भ्रमहरं नमामि०॥ २॥ मतौ यत्सद्रूपं मृगयति बुधोऽतन्निरसनात् न रज्जौ सर्पोऽपि मुकुरजठरे नास्ति वदनम् । अतोऽपार्थं सर्वं न हि भवति यस्मिंश्च तमहं नमामि०॥ ३॥ भ्रमद्धीविक्षिप्तेन्द्रियपथमनुष्यैर्हृदि विभुं नयं वै वेद स्वेन्द्रियमपि वसन्तं निजमुखम् । सदा सेव्यं भक्तैर्मुनिमनसि दीप्तं मुनिनुतं नमामि०॥ ४॥ बुधा यत्तद्रूपं न हि तु नैर्गुण्यममलं यथा ये व्यक्तं ते सततमकलङ्के श्रुतिनुतम् । यदाहुः सर्वत्रास्खलितगुणसत्ताकमतुलं नमामि०॥ ५॥ लयादौ यस्मिन्यद्विलयमप्युद्यत्प्रभवति तथा जीवोपेतं गुरुकरुणया बोधजनने । गतं चात्यन्तान्तं व्रजति सहसा सिन्धुनदवन्नमामि०॥ ६॥ जडं सङ्घातं यन्निमिषलवलेशेन चपलं यथा स्वं स्वं कार्यं प्रथयति महामोहजनकम् । मनोवादग्जीवानां न निविशति यं निर्भयपदं नमामि०॥ ७॥ गुणाख्याने यस्मिन्प्रभवति न वेदोऽपि नितरां निषिध्यद्वाक्यार्थैश्चकितचकितं योऽस्य वचनम् । स्वरूपं यद्गत्वा प्रभुरपि च तूष्णीं भवति तं नमामि श्रीविष्णुं जलधितनयासेवितपदम् ॥ ८॥ विण्वष्टकं यः पठति प्रभाते नरोऽप्यखण्डं सुखमश्नुते च । यन्नित्यबोधाय सुबुद्धिनोक्तं रधूत्तमाख्येन विचार्य सम्यक् ॥ ९॥ इति श्रीविष्ण्वष्टकं सम्पूर्णम् ॥