अक्षर आकार:

श्रीविष्णुवल्लभ अथवा अष्टषष्टिनामतीर्थस्तोत्रं नरसिंहपुराणे

shrIVishnuvallabhastotra or Sixtysix Vishnu Names and Sacred places

श्रीविष्णुवल्लभ अथवा अष्टषष्टिनामतीर्थस्तोत्रं नरसिंहपुराणे

भरद्वाज उवाच त्वत्तो हि श्रोतुमिच्छामि गुह्यक्षेत्राणि वै हरेः । नामानि च सुगुह्यानि वद पापहराणि च ॥ १॥ सूत उवाच मन्दरस्थं हरिं देवं ब्रह्मा पृच्छति केशवम् । भगवन्तं देवदेवं शङ्खचक्रगदाधरम् ॥ २॥ ब्रह्मोवाच केषु केषु च क्षेत्रेषु द्रष्टव्योऽसि मया हरे । भक्तैरन्यैः सुरश्रेष्ठ मुक्तिकामैर्विशेषतः ॥ ३॥ यानि ते गुह्यनामानि क्षेत्राणि च जगत्पते । तान्यहं श्रोतुमिच्छामि त्वत्तः पद्मायतेक्षण ॥ ४॥ किं जपन् सुगतिं याति नरो नित्यमतन्द्रितः । त्वद्भक्तानां हितार्थाय तन्मे वद सुरेश्वर ॥ ५॥ श्रीभगवानुवाच श‍ृणुष्वावहितो ब्रह्मन् गुह्यनामानि मेऽधुना । क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि तत्त्वतः ॥ ६॥ कोकामुखे तु वाराहं मन्दरे मधुसूदनम् । अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम् ॥ ७॥ माल्योदपाने वैकुण्ठं महेन्द्रे तु नृपात्मजम् । ऋषभे तु महाविष्णुं द्वारकायां तु भूपतिम् ॥ ८॥ पाण्डुसह्ये तु देवेशं वसुरूढे जगत्पतिम् । वल्लीवटे महायोगं चित्रकूटे नराधिपम् ॥ ९॥ निमिषे पीतवासं च गवां निष्क्रमणे हरिम् । शालग्रामे तपोवासमचिन्त्यं गन्धमादने ॥ १०॥ कुब्जागारे हृषीकेशं गन्धद्वारे पयोधरम् । गरुडध्वजं तु सकले गोविन्दं नाम सायके ॥ ११॥ वृन्दावने तु गोपालं मथुरायां स्वयम्भुवम् । केदारे माधवं विन्द्याद्वाराणस्यां तु केशवम् ॥ १२॥ पुष्करे पुष्कराक्षं तु धृष्टद्युम्ने जयध्वजम् । तृणबिन्दुवने वीरमशोकं सिन्धुसागरे ॥ १३॥ कसेरटे महाबाहुममृतं तैजसे वने । विश्वासयूपे विश्वेशं नरसिंहं महावने ॥ १४॥ हलाङ्गरे रिपुहरं देवशालां त्रिविक्रमम् । पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः ॥ १५॥ विद्याधरं वितस्तायां वाराहे धरणीधरम् । देवदारुवने गुह्यं कावेर्यां नागशायिनम् ॥ १६॥ प्रयागे योगमूर्तिं च पयोष्ण्यां च सुदर्शनम् । कुमारतीर्थे कौमारं लोहिते हयशीर्षकम् ॥ १७॥ उज्जयिन्यां त्रिविक्रमं लिङ्गकूटे चतुर्भुजम् । हरिहरं तु भद्रायां दृष्ट्वा पापात् प्रमुच्यते ॥ १८॥ विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम् । लोकनाथमयोध्यायां कुण्डिने कुण्डिनेश्वरम् ॥ १९॥ भाण्डारे वासुदेवं तु चक्रतीर्थे सुदर्शनम् । आढ्ये विष्णुपदं विद्याच्छूकरे शूकरं विदुः ॥ २०॥ ब्रह्मेशं मानसे तीर्थे दण्डके श्यामलं विदुः । त्रिकूटे नागमोक्षं च मेरुपृष्ठे च भास्करम् ॥ २१॥ विरजं पुष्पभद्रायां बालं केरलके विदुः । यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥ २२॥ क्षीराब्धौ पद्मनाभं तु विमले तु सनातनम् । शिवनद्यां शिवकरं गयायां च गदाधरम् ॥ २३॥ सर्वत्र परमात्मानं यः पश्यति स मुच्यते । अष्टषष्टिश्च नामानि कथितानि मया तव ॥ २४॥ क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः । एतानि मम नामानि रहस्यानि प्रजापते ॥ २५॥ यः पठेत् प्रातरुत्थाय श‍ृणुयाद्वापि नित्यशः । गवां शतसहस्रस्य दत्तस्य फलमाप्नुयात् ॥ २६॥ दिने दिने शुचिर्भूत्वा नामान्येतानि यः पठेत् । दुःस्वप्नं न भवेत् तस्य मत्प्रसादान्न संशयः ॥ २७॥ अष्टषष्टिस्तु नामानि त्रिकालं यः पठेन्नरः । विमुक्तः सर्वपापेभ्यो मम लोके स मोदते ॥ २८॥ द्रष्टव्यानि यथाशक्त्या क्षेत्राण्येतानि मानवैः । वैष्णवैस्तु विशेषेण तेषां मुक्तिं ददाम्यहम् ॥ २९॥ सूत उवाच हरिं समभ्यर्च्य तदग्रसंस्थितो हरिं स्मरन् विष्णुदिने विशेषतः । इमं स्तवं यः पठते स मानवः प्राप्नोति विष्णोरमृतात्मकं पदम् ॥ ३०॥ इति श्रीनरसिंहपुराणे आद्ये धर्मार्थमोक्षदयिनि विष्णुवल्लभे पञ्चष्टितमोऽध्यायः ॥ ६५॥ From Narasimhapurana adhyAya 65. https://archive.org/details/NarsimhaPuranGitapress