अक्षर आकार:

नारदाय शौनककृतविष्णुस्तुतिः

nAradAya shaunakakRitaviShNustutiH

नारदाय शौनककृतविष्णुस्तुतिः

ऋषय ऊचुः ॥ कथं सनत्कुमारस्तु नारदाय महात्मने । प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥ १॥ कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ । हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ २॥ सूत उवाच ॥ सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः । निर्ममा निरहङ्काराः सर्वे ते ह्यूर्ध्वरेतसः ॥ ३॥ तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः । सनत्कुमारश्च विभुः सनातन इति स्मृताः ॥ ४॥ विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः । सहस्रसूर्यसङ्काशाः सत्यसन्धा मुमुक्षवः ॥ ५॥ एकदा मेरुश‍ृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् । इष्टां मार्गेऽथ ददृशुः गङ्गां विष्णुपदीं द्विजाः ॥ ६॥ तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् । एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ ७॥ आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रातॄन्स्वकाग्रजान् । तान्दृष्ट्वा स्नातुमुद्युक्तान्नमस्कृत्य कृताञ्जिलिः ॥ ८॥ गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः । नारायणाच्युतानन्त वासुदेव जनार्दन ॥ ९॥ यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ॥ पद्माक्ष कमलाकान्त गङ्गाजनक केशव । क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ॥ १०॥ श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसङ्कर्षण वासुदेव । अजानिरुद्धामलरुङ्मुरारे त्वं पाहि नः सर्वभयादजस्रम् ॥ ११॥ इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् । उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥ १२॥ तेषां चापि तु सीताया जले लोकमलापहे । स्नात्वा सन्तर्प्य देवर्षिपितॄन्विगतकल्मषाः ॥ १३॥ उत्तीर्य्य सन्ध्योपास्यादि कृत्वाऽऽचारं स्वकं द्विजाः । कथां प्रचक्रुर्विविधाः नारायणगुणाश्रिताः ॥ १४॥ कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे । चकार नारदः प्रश्नं नानाख्यानकथान्तरे । १५॥ नारद उवाच । सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः । यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ १६॥ लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् । पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ १७॥ येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ १८॥ कथं च त्रिविधं कर्म सफलं जायते नृणाम् । ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ॥ १९॥ अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ॥ एवमादीनि गुह्यानि हरितुष्टिकराणि च । अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ २०॥ शौनक उवाच ॥ नमः पराय देवाय परस्मात्परमाय च । परावरनिवासाय सगुणायागुणाय च ॥ २१॥ अमायायाऽऽत्मसंज्ञाय मायिने विश्वरूपिणे । योगीश्वराय योगाय योगगम्याय विष्णवे ॥ २२॥ ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे । ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसम्पदे ॥ २३॥ ध्यानाय ध्यानगम्याय ध्यातृपापहराय च । ध्यानेश्वराय सुधिये ध्येयध्यातृस्वरूपिणे ॥ २४॥ आदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः । यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥ २५॥ यो ब्रह्मरूपी जगतां विधाता स एव पाता द्विजविष्णुरूपी । कल्पान्तरुद्राख्यतनुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ॥ २६॥ यन्नामसङ्कीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः । विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ २७॥ शिवस्वरूपी शिवभक्तिभाजां यो विष्णुरूपी हरिभावितानाम् । सङ्कल्पपूर्वात्मकदेहहेतुस्तमेव नित्यं शरणं प्रपद्ये ॥ २८॥ यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् । देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥ २९॥ लेभेऽवतीर्योग्रनृसिंहरूपी यो दैत्यवक्षः कठिनं शिलावत् । विदार्य संरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥ ३०॥ व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् । जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ॥ ३१॥ ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसङ्घैः । स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मानमहं भजामि ॥ ३२॥ यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै । यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः ॥ ३३॥ यः स्थितो विश्वरूपेण सङ्गीवात्र प्रतीयते । असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ ३४॥ हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् । न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥ ३५॥ सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् । सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ ३६॥ दधार मन्दरं पृष्ठे नीरोदेऽमृतमन्थने । देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ ३७॥ दंष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् । तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥ ३८॥ प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् । विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ॥ ३९॥ लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः । आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ॥ ४०॥ हैहयस्यापराधेन ह्येकविंशतिसङ्ख्यया । क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥ ४१॥ आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । घ्नतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥ ४२॥ मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च । सञ्जहार कुलं स्वं यस्तं श्रीकृष्णमहं भजे ॥ ४३॥ भूम्यादिलोकत्रितयं सन्तृप्तात्मानमात्मनि । पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ ४४॥ युगान्ते पापिनोऽशुद्धान्भित्त्वा तीक्ष्णसुधारया । स्थापयामास यो धर्मं कृतादौ तं नमाम्यहम् ॥ ४५॥ एवमादीन्यनेकानि यस्य रूपाणि पाण्डवाः । न शक्यं तेन सङ्ख्यातुं कोट्यब्दैरपि तं भजे ॥ ४६॥ महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः । देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥ ४७॥ यन्नामश्रवणेनापि महापातकिनो नराः । पवित्रतां प्रपद्यन्ते तं कथं स्तौमि चाल्पधीः ॥ ४८॥ यथाकथञ्चिद्यन्नाम्नि कीर्तिते वा श्रुतेऽपि वा । पापिनस्तु विशुद्धाः स्युः शुद्धा मोक्षमवाप्नुयुः ॥ ४९॥ आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः । पश्यन्ति यं ज्ञानरूपं तमस्मि शरणं गतः ॥ ५०॥ साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिम् । तमादिदेवमजरं ज्ञानरूपं भजाम्यहम् ॥ ५१॥ सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् । सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ ५२॥ यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् । दशाङ्गुलं योऽत्यतिष्ठत्तमीशमजरं भजे ॥ ५३॥ अणोरणीयांसमजं महतश्च महत्तरम् । गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ ५४॥ ध्यातः स्मृतः पूजितो वा श्रितः प्रणमितोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ ५५॥ इति स्तुवन्तं परमं परेशं हर्षाम्बुसंरुद्धविलोचनास्ते । मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रमुदं प्रजग्मुः ॥ ५६॥ य इदं प्रातरुत्थाय पठेद्वै पौरुषं स्तवम् । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ५७॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदाय शौनककृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ॥ २॥