अक्षर आकार:

श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे

Shri Vishnustavan by Markendeya in Narasimhapurana

श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे

मार्कण्डेय उवाच -- नरं नृसिंहं नरनाथमच्युतं प्रलम्बबाहुं कमलायतेक्षणम् । क्षितीश्वरैरर्चितपादपङ्कजं नमामि विष्णुं पुरुषं पुरातनम् ॥ १॥ जगत्पतिं क्षीरसमुद्रमन्दिरं तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् । श्रियः पतिं श्रीधरमीशमीश्वरं नमामि गोविन्दमनन्तवर्चसम् ॥ २॥ अजं वरेण्यं जनदुःखनाशनं गुरुं पुराणं पुरुषोत्तमं प्रभुम् । सहस्रसूर्यद्युतिमन्तमच्युतं नमामि भक्त्या हरिमाद्यमाधवम् ॥ ३॥ पुरस्कृतं पुण्यवतां परां गतिं क्षितीश्वरं लोकपतिं प्रजापतिम् । परं पराणामपि कारणं हरिं नमामि लोकत्रयकर्मसाक्षिणम् ॥ ४॥ भोगे त्वनन्तस्य पयोदधौ सुरः पुरा हि शेते भगवाननादिकृत् । क्षीरोदवीचीकणिकाम्बुनोक्षितं तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥ ५॥ यो नारसिंहं वपुरास्थितो महान् सुरो मुरारिर्मधुकैटभान्तकृत् । समस्तलोकार्तिहरं हिरण्यकं नमामि विष्णुं सततं नमामि तम् ॥ ६॥ अनन्तमव्यक्तमतीन्द्रियं विभुं स्वे स्वे हि रूपे स्वयमेव संस्थितम् । योगेश्वरैरेव सदा नमस्कृतं नमामि भक्त्या सततं जनार्दनम् ॥ ७॥ आनन्दमेकं विरजं विदात्मकं वृन्दालयं योगिभिरेव पूजितम् । अणोरणीयांसमवृद्धिमक्षयं नमामि भक्तप्रियमीश्वरं हरिम् ॥ ८॥ इति । अध्याय १० श्लोक ८-१५, अध्याय श्लोक संख्या ५२ श्रीनरसिंहपुराणे मार्कण्डेयचरित्रे दशमोऽध्यायः ॥ १०॥ From Narasimhapurana adhyAya 10. Selected verses. https://archive.org/details/NarsimhaPuranGitapress