अक्षर आकार:

श्रीविष्णुस्तुतिः वृत्रकृता

shrIviShNustutiH vRRitrakRRitA

श्रीविष्णुस्तुतिः वृत्रकृता

(श्रीमद्भगवतस्था वृत्रासुरचतुःश्लोकी) अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ॥ १॥ न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ २॥ अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ ३॥ ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्माऽऽत्मजदारगेहेष्वासक्तचित्तस्य न नाथ भूयात् ॥ ४॥ इति श्रीमद्भागवतान्तर्गता वृत्रकृता श्रीविष्णुस्तुतिः समाप्ता ।