अक्षर आकार:

विष्णुस्तुतिः

viShNustutiH

विष्णुस्तुतिः

गर्गसंहिताततः कक्षीवानुवाच - वासुदेव नमस्तेऽस्तु गोविन्द पुरुषोत्तम । दीनवत्सल दीनेश द्वारकेश परेश्वर ॥ १॥ ध्रुवे ध्रुवपदं दात्रे प्रह्लादस्यार्तिहारिणे । गजस्योद्धारिणे तुभ्यं बलेर्बलिविदे नमः ॥ २॥ द्रौपदीचीरसन्तानकारिणे हरये नमः । गराग्निवनवासेभ्यः पाण्डवानां सहायिने ॥ ३॥ यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे । गुरुमातृद्विजानां च पुत्रदात्रे नमो नमः ॥ ४॥ जरासन्धनिरोधार्तनृपाणां मोक्षकारिणे । नृगस्योद्धारिणे साक्षात्सुदाम्नो दैन्यहारिणे ॥ ५॥ वासुदेवाय कृष्णाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ॥ ६॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ७॥ इति गर्गसंहितायां द्वारकाखण्डे द्वादशाध्यायान्तर्गता त्रितमुनिशिष्येन कक्षीवता कृता विष्णुस्तुतिः समाप्ता ॥ Garga Samhita, Dwarakakhanda, Adhaya 12 verses 13-19