अक्षर आकार:

श्रीविष्णुस्तुतिः

shrIviShNustutiH

श्रीविष्णुस्तुतिः

श्रीगणेशाय नमः ॥ बहुदुःखभरोदर्कस्तमसोग्रतमोऽधमः । नरको नर को वा तं मतिमानतिवर्तते ॥ १॥ नरकान्तकपादाब्जपरिचर्यापरान्नरान् । विना विनायकाद्यर्चापरोऽप्युच्चतरोरितः ॥ २॥ पतेत्तत्र न तत्त्राणं कुर्युस्ते पर्युपासिताः । पश्य दृश्यपदद्वद्वस्यार्थं न व्यर्थधीर्भव ॥ ३॥ असुरो हि सुरक्लेशकरो नरकनामकः । तस्य हन्ता सतां चिन्तासन्तापाद्यन्तकृन्न किम् ॥ ४॥ विशेषेण घ्नन्ति कायं विघ्नास्तेषामधीश्वरः । आरब्धशुभकार्याणां विरुद्धस्य हि नायकाः ॥ ५॥ अजामिलो द्विजः पूर्वमतिचक्राम केन तान् । ससुरा कस्य भजकाः कुतो वा तत्र चक्रमुः ॥ ६॥ इति चिन्तय तेनापि सन्देहं छिन्धि सन्मते । गङ्गासेतू पापभङ्गकरौ कः कुरुते प्रभुः ॥ ७॥ हयाननस्य वाक्शेष्यो नाभिपुत्रः पदार्चकः । गुरुर्हि तस्य भ्रूभङ्गः शिवाय स्यात्सतां सदा ॥ ८॥ वादिराजयतिप्रोक्तं स्तोत्रमेतत्पठन्सदा । वादे विजयमाप्नोति नाधो याति कदाचन ॥ ९॥ इति श्रीवादिराजकृता विष्णुस्तुतिः समाप्ता ॥