अक्षर आकार:

श्रीविष्णुस्तुतिः

Shri VishnustutiH

श्रीविष्णुस्तुतिः

श्रीमध्वसंसेवितपादपद्मं रुद्रादिदेवैः परिसेव्यमानम् । ऋष्यादिभिर्वेदपथैः सुगेयं कथं नु पश्येयममोघवीर्यम् ॥ १॥ हृन्मन्दिरे सुन्दररत्नपीठे लक्ष्म्यात्मके सारतरे निविष्टम् । श्रीभूसमाश्लिष्टतनुं तथाऽपि पूर्णं निजानन्दमयं परेशम् ॥ २॥ अनन्तपूर्णेन्दुकिरीटशोभितं सुनीलस्निग्धालकशोभिसन्मुखम् । प्रत्यग्रकञ्जायतलोललोचनं सुचम्पकाकोरकनासिकायुतम् ॥ ३॥ प्रवालमध्यार्पितकुन्दकोरकं स्फुरत्कपोलद्युतिदीप्तकुण्डलम् । केयूरभूषायुतबाहुदण्डकं सुचक्रशङ्खाब्जगदाविराजितम् ॥ ४॥ ग्रैवेयरत्नाभरणादिभूषितं सत्कौस्तुभावेष्टितकम्बुकन्धरम् । सुवर्णसूत्राञ्चितसुन्दरोरसं विचित्रपिताम्बरधारिणं प्रभुम् ॥ ५॥ करिराजकरोपमोरुयुग्मं प्रियया सेवितजङ्घया समेतम् । वरकूर्मप्रपदेन शोभमानं ह्यनभिव्यक्तसुगुल्फपादयुग्मम् ॥ ६॥ नखराजिसुपूर्णचन्द्रकान्त्या नुतिमज्जनतापहारिणं रमेशम् । निजपूर्णसुबोधविग्रहं परमानन्दपरात्मदैवतम् ॥ ७॥ ॥ इति श्रीत्रिविक्रमपण्डिताचार्यविरचिता श्रीविष्णुस्तुतिः समाप्ता ॥