अक्षर आकार:

श्रीविष्णुस्तोत्रम् २

shrIviShNustotraM brahmoktaM narasiMhapurANe 1

श्रीविष्णुस्तोत्रम् २

राजोवाच -- वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्यर्चितवान् हरिम् । तन्मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रमुत्तमम् ॥ मार्कण्डेय उवाच -- श‍ृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम् । सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ॥ तमाराध्य जगन्नाथमूर्ध्वबाहुः पितामहः । भूत्वैकाग्रमना राजन्निदं स्तोत्रमुदीरयत् ॥ ब्रह्मोवाच -- नमामि देवं नरनाथमच्युतं नारायणं लोकगुरुं सनातनम् । अनादिमव्यक्तमचिन्त्यमव्ययं वेदान्तवेद्यं पुरुषोत्तमं हरिम् ॥ १॥ आनन्दरूपं परमं परात्परं चिदात्मकं ज्ञानवतां परां गतिम् । सर्वात्मकं सर्वगतैकरूपं ध्येयस्वरूपं प्रणमामि माधवम् ॥ २॥ भक्तप्रियं कान्तमतीव निर्मलं सुराधिपं सूरिजनैरभिष्टुतम् । चतुर्भुजं नीरजवर्णमीश्वरं रथाङ्गपाणिं प्रणतोऽस्मि केशवम् ॥ ३॥ गदासिशङ्खाब्जकरं श्रियः पतिं सदाशिवं शार्ङ्गधरं रविप्रभम् । पीताम्बरं हारविराजितोदरं नमामि विष्णुं सततं किरीटिनम् ॥ ४॥ गण्डस्थलासक्तसुरक्तकुण्डलं सुदीपिताशेषदिशं निजत्विषा । गन्धर्वसिद्धैरुपगीतमृग्ध्वनिं जनार्दनं भूतपतिं नमामि तम् ॥ ५॥ हत्वासुरान् पाति युगे युगे सुरान् स्वधर्मसंस्थान् भुवि संस्थितो हरिः । करोति सृष्टिं जगतः क्षयं यस्तं वासुदेवं प्रणतोऽस्मि केशवम् ॥ ६॥ यो मत्स्यरूपेण रसातलस्थितान् वेदान् समाहृत्य मम प्रदत्तवान् । निहत्य युद्धे मधुकैटभावुभौ तं वेदवेद्यं प्रणतोऽस्म्यहं सदा ॥ ७॥ देवासुरैः क्षीरसमुद्रमध्यतो न्यस्तो गिरिर्येन धृतः पुरा महान् । हिताय कौर्मं वपुरास्थितो यस्तं विष्णुमाद्यं प्रणतोऽस्मि भास्करम् ॥ ८॥ हत्वा हिरण्याक्षमतीव दर्पितं वराहरूपी भगवान् सनातनः । यो भूमिमेतां सकलां समुद्धरंस्तं वेदमूर्तिं प्रणमामि सूकरम् ॥ ९॥ कृत्वा नृसिंहं वपुरात्मनः परं हिताय लोकस्य सनातनो हरिः जघान यस्तीक्ष्णनखैर्दितेः सुतं तं नारसिंहं पुरुषं नमामि ॥ १०॥ यो वामनोऽसौ भगवाञ्जनार्दनो बलिं बबन्ध त्रिभिरूर्जितैः पदैः । जगत्रयं क्रम्य ददौ पुरंदरे तदेवमाद्यं प्रणतोऽस्मि वामनम् ॥ ११॥ यः कार्तवीर्यं निजघान रोषात् त्रिस्सप्तकृत्वः क्षितिपात्मजानपि । तं जामदग्न्यं क्षितिभारनाशकं नतोऽस्मि विष्णुं पुरुषोत्तमं सदा ॥ १२॥ सेतुं महान्तं जलधौ बबन्ध यः सम्प्राप्य लङ्कां सगणं दशाननम् । जघान भृत्यै जगतां सनातनं तं रामदेवं सततं नतोऽस्मि ॥ १३॥ यथा तु वाराहनृसिंहरूपैः कृतं त्वया देव हितं सुराणाम् । तथाद्य भूमेः कुरु भारहानिं प्रसीद विष्णो भगवन्नमस्ते ॥ १४॥ इति ब्रह्मोक्तं विष्णुस्तोत्रम् । श्रीमार्कण्डेय उवाच -- इति स्तुतो जगन्नाथः श्रीधरः पद्मयोनिना । आविर्बभूव भगवाञ्शङ्खचक्रगदाधरः ॥ उवाच च हृषीकेशः पद्मयोनिं सुरानपि । स्तुत्यानयाहं संतुष्टः पितामह दिवौकसः ॥ पठतां पापनाशाय नृणां भक्तिमतामपि । यतोऽस्मि प्रकटीभूतो दुर्लभोऽपि हरिः सुराः ॥ सङ्क्षिप्तं अध्याये श्लोक संख्या ६८ श्रीनरसिंहपुराणे कृष्णाप्रादुर्भावो नाम त्रिपञ्चाशोऽध्यायः ॥ ५३॥ From Narasimhapurana adhyAya 53 Selected verses. https://archive.org/details/NarsimhaPuranGitapress