अक्षर आकार:

श्रीविष्णुस्तवराजः नरसिंहपुराणे

Shri Vishnustavaraja from Narasimhapurana

श्रीविष्णुस्तवराजः नरसिंहपुराणे

श्रीशुक उवाच -- संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः । बध्यमानः सुतैश्वर्यैः पतितो योनिसागरे ॥ १॥ यः कामक्रोधलोभैस्तु विषयैः परिपीडितः । बद्धः स्वकर्मभिर्गौणैः पुत्रदारैषणादिभिः ॥ २॥ स केन निस्तरत्याशु दुस्तरं भवसागरम् । पृच्छाम्याख्याहि मे तात तस्य मुक्तिः कथं भवेत् ॥ ३॥ श्रीव्यास उवाच -- श‍ृणु वत्स महाप्राज्ञ यञ्ज्ञात्वा मुक्तिमाप्नुयात् । तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥ ४॥ नरके रौरवे घोरे धर्मज्ञानविवर्जिताः । स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ॥ ५॥ महापापकृतं घोरं सम्प्राप्ताः पापकृज्जनाः । आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥ ६॥ गङ्गाधरं महादेवं शङ्करं शूलपाणिनम् । प्रणम्य विधिवद्देवं नारदः परिपृच्छति ॥ ७॥ नारद उवाच -- यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः । शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ॥ ८॥ कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात् । भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शङ्कर ॥ ९॥ तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः । उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ १०॥ महेश्वर उवाच -- ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम । वक्ष्यामि श‍ृणु दुःखघ्नं सर्वबन्धभयापहम् ॥ ११॥ तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् । चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥ १२॥ तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते । स निस्तरति संसारं देवानामपि दुस्तरम् ॥ १३॥ भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः । संसारसुमहापङ्के जीर्णा गौरिव मज्जति ॥ १४॥ यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत् । तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ॥ १५॥ तस्मान्नारद सर्वेशं देवानां देवमव्ययम् । आराधयेत्सदा सम्यग् ध्यायेद्विष्णुं समाहितः ॥ १६॥ यस्तं विश्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम् । सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ १७॥ निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम् । वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ १८॥ निरञ्जनं परं शान्तमच्युतं भूतभावनम् । देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥ १९॥ सर्वपापविनिर्मुक्तमप्रमेयमलक्षणम् । निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते ॥ २०॥ अमृतं परमानन्दं सर्वपापविवर्जितम् । ब्रह्मण्यं शङ्करं विष्णुं सदा सङ्कीर्त्य मुच्यते ॥ २१॥ योगेश्वरं पुराणाख्यमशरीरं गुहाशयम् । अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥ २२॥ शुभाशुभविनिर्मुक्तमूर्मिषट्कपरं विभुम् । अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ २३॥ सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् । अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ २४॥ अनामगोत्रमद्वैतं चतुर्थं परमं पदम् । तं सर्वहृद्गतं विष्णुं सदा ध्यायन् विमुच्यते ॥ २५॥ अरूपं सत्यसङ्कल्पं शुद्धमाकाशवत्परम् । एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥ २६॥ सर्वात्मकं स्वभावस्थमात्मचैतन्यरूपकम् । शुभ्रमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥ २७॥ अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम् । एकं नूत्नं सदा विष्णुं सदा ध्यायन् विमुच्यते ॥ २८॥ विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम् । स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥ २९॥ सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम् । सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३०॥ ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः । योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३१॥ विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः । विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ॥ ३२॥ संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः । भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३३॥ व्यास उवाच -- नारदेन पुरा पृष्ट एवं स वृषभध्वजः । यदुवाच तदा तस्मै तन्मया कथितं तव ॥ ३४॥ तमेव सततं ध्याहि निर्बीजं ब्रह्म केवलम् । अवाप्स्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ॥ ३५॥ श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् । स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ॥ ३६॥ यश्चैनं पठते चैव नृसिंहकृतमानसः । शतजन्मकृतं पापमपि तस्य प्रणश्यति ॥ ३७॥ विष्णोः स्तवमिदं पुण्यं महादेवेन कीर्तितम् । प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ॥ ३८॥ ध्यायन्ति ये नित्यमनन्तमच्युतं हृत्पद्ममध्येष्वथ कीर्तयन्ति ये । उपासकानां प्रभुमीश्वरं परं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ ३९॥ इति श्रीनरसिंहपुराणे विष्णोः स्तवराजनिरूपणे षोडशोऽध्यायः ॥ १६॥ Narasimhapurana adhyAya 16 https://archive.org/details/NarsimhaPuranGitapress