अक्षर आकार:

श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे

Shri Vishnustavan by Markendeya in Narasimhapurana

श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे

व्यास उवाच -- प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् । मार्कण्डेयोऽभितुष्टाव भोगपर्यङ्कशायिनम् ॥ १॥ मार्कण्डेय उवाच -- प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम । प्रसीद देवदेवेश प्रसीद गरुडध्वज ॥ २॥ प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर । प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ॥ ३॥ प्रसीद सर्वदेवेश प्रसीद कमलेक्षण । प्रसीद मन्दरधर प्रसीद मधुसूदन ॥ ४॥ प्रसीद सुभगाकान्त प्रसीद भुवनाधिप । प्रसीदाद्य महादेव प्रसीद मम केशव ॥ ५॥ जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय । जय विश्व जयाव्यक्त जय विष्णो नमोऽस्तु ते ॥ ६॥ जय देव जयाजेय जय सत्य जयाक्षर । जय काल जयेशान जय सर्व नमोऽस्तु ते ॥ ७॥ जय यज्ञपते नाथ जय विश्वपते विभो । जय भूतपते नाथ जय सर्वपते विभो ॥ ८॥ जय विश्वपते नाथ जय दक्ष नमोऽस्तु ते । जय पापहरानन्त जय जन्मजरापह ॥ ९॥ जय भद्रातिभद्रेश जय भद्र नमोऽस्तु ते । जय कामद काकुत्स्थ जय मानद माधव ॥ १०॥ जय शंकर देवेश जय श्रीश नमोऽस्तु ते । जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ॥ ११॥ जय चन्दनलिप्ताङ्ग जय राम नमोऽस्तु ते । जय देव जगन्नाथ जय देवकिनन्दन ॥ १२॥ जय सर्वगुरो ज्ञेय जय शम्भो नमोऽस्तु ते । जय सुन्दर पद्माभ जय सुन्दरिवल्लभ । जय सुन्दरसर्वाङ्ग जय वन्द्य नमोऽस्तु ते ॥ १३॥ जय सर्वद सर्वेश जय शर्मद शाश्वत । जय कामद भक्तानां प्रभविष्णो नमोऽस्तु ते ॥ १४॥ नमः कमलनाभाय नमः कमलमालिने । लोकनाथ नमस्तेऽस्तु वीरभद्र नमोऽस्तु ते ॥ १५॥ नमस्त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते । नमो देवाधिदेवाय नमो नारायणाय ते ॥ १६॥ नमस्ते वासुदेवाय नमस्ते पीतवाससे । नमस्ते नरसिंहाय नमस्ते शार्ङ्गधारिणे ॥ १७॥ नमः कृष्णाय रामाय नमश्चक्रायुधाय च । नमः शिवाय देवाय नमस्ते भुवनेश्वर ॥ १८॥ नमो वेदान्तवेद्याय नमोऽनन्ताय विष्णवे । नमस्ते सकलाध्यक्ष नमस्ते श्रीधराच्युत ॥ १९॥ लोकाध्यक्ष जगत्पूज्य परमात्मन् नमोऽस्तु ते । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥ २०॥ त्वमार्तानां सुहृन्मित्रं प्रियस्त्वं प्रपितामहः । त्वं गुरुस्त्वं गतिः साक्षी त्वं पतिस्त्वं परायणः ॥ २१॥ त्वं ध्रुवस्त्वं वषट्कर्ता त्वं हविस्त्वं हुताशनः । त्वं शिवस्त्वं वसुर्धाता त्वं ब्रह्मा त्वं सुरेश्वरः ॥ २२॥ त्वं यमस्त्वं रविर्वायुस्त्वं जलं त्वं धनेश्वरः । त्वं मनुस्त्वमहोरात्रं त्वं निशा त्वं निशाकरः । त्वं धृतिस्त्वं श्रियः कान्तिस्त्वं क्षमा त्वं धराधरः ॥ २३॥ त्वं कर्ता जगतामीशस्त्वं हन्ता मधुसूदन । त्वमेव गोप्ता सर्वस्य जगतस्त्वं चराचर ॥ २४॥ करणं कारणं कर्ता त्वमेव परमेश्वरः । शङ्खचक्रगदापाणे भो समुद्धर माधव ॥ २५॥ प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम् । त्वामेव भक्त्या सततं नमामि पुरुषोत्तमम् ॥ २६॥ श्रीवत्साङ्कं जगद्बीजं श्यामलं कमलेक्षणम् । नमामि ते वपुर्देव कलिकल्मषनाशनम् ॥ २७॥ लक्ष्मीधरमुदाराङ्गं दिव्यमालाविभूषितम् । चारूपृष्ठं महाबाहुं चारुभूषणभूषितम् ॥ २८॥ पद्मनाभं विशालाक्षं पद्मपत्रनिभेक्षणम् । दीर्घतुङ्गमहाघ्राणं नीलजीमूतसंनिभम् ॥ २९॥ दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम् । सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ॥ ३०॥ चारुबाहुं सुताम्रोष्ठं रत्नोज्ज्वलितकुण्डलम् । वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ॥ ३१॥ सुकुमारमजं नित्यं नीलकुञ्चितमूर्धजम् । उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ॥ ३२॥ हेमारविन्दवदनमिन्दिरायनमीश्वरम् । सर्वलोकविधातारं सर्वपापहरं हरिम् ॥ ३३॥ सर्वलक्षणसम्पन्नं सर्वसत्त्वमनोरमम् । विष्णुमच्युतमीशानमनन्तं पुरुषोत्तमम् ॥ ३४॥ नतोऽस्मि मनसा नित्यं नारायणमनामयम् । वरदं कामदं कान्तमनन्तं सूनृतं शिवम् ॥ ३५॥ नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल । अस्मिन्नेकार्णवे घोरे वायुस्कम्पितचञ्चले ॥ ३६॥ अनन्तभोगशयने सहस्रफणशोभिते । विचित्रशयने रम्ये सेविते मन्दवायुना ॥ ३७॥ भुजपञ्जरसंसक्तकमलालयसेवितम् । इह त्वां मनसा सर्वमिदानीं दृष्टवानहम् ॥ ३८॥ इदानीं तु सुदुःखार्थो मायया तव मोहितः । एकोदके निरालम्बे नष्टस्थावरजङ्गमे ॥ ३९॥ शून्ये तमसि दुष्पारे दुःखपङ्के निरामये । शीतातपजरारोगशोकतृष्णादिभिः सदा ॥ ४०॥ पीडितोऽस्मि भृशं तात सुचिरं कालमच्युत । शोकमोहग्रहग्रस्तो विचरन् भवसागरे ॥ ४१॥ इहाद्य विधिना प्राप्तस्तव पादाब्जसंनिधौ । एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ॥ ४२॥ चिरभ्रमपरिश्रान्तस्त्वामद्य शरणं गतः । प्रसीद सुमहामाय विष्णो राजीवलोचन ॥ ४३॥ विश्वयोने विशालाक्ष विश्वात्मन् विश्वसम्भव । अनन्यशरणं प्राप्तमतोऽत्र कुलनन्दन ॥ ४४॥ त्राहि मां कृपया कृष्ण शरणागतमातुरम् । नमस्ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ॥ ४५॥ अञ्जनाभ हृषीकेश मायामय नमोऽस्तु ते । मामुद्धर महाबाहो मग्ने संसारसागरे ॥ ४६॥ गह्वरे दुस्तरे दुःखक्लिष्टे क्लेशमहाग्रहैः । अनाथं कृपणं दीनं पतितं भवसागरे । मां समुद्धर गोविन्द वरदेश नमोऽस्तु ते ॥ ४७॥ नमस्त्रैलोक्यनाथाय हरये भूधराय च । देवदेव नमस्तेऽस्तु श्रीवल्लभ नमोऽस्तु ते ॥ ४८॥ कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भवान् । संसारार्णवमग्नानां प्रसीद मधुसूदन ॥ ४९॥ त्वामेकमाद्यं पुरुषं पुराणं जगत्पतिं कारणमच्युतं प्रभुम् । जनार्दनं जन्मजरार्तिनाशनं सुरेश्वरं सुन्दरमिन्दिरापतिम् ॥ ५०॥ बृहद्भुजं श्यामलकोमलं शुभं वराननं वारिजपत्रनेत्रम् । तरंगभङ्गायतकुन्तलं हरिं सुकान्तमीशं प्रणतोऽस्मि शाश्वतम् ॥ ५१॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्त्वदर्पितम् । तावेव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ॥ ५२॥ जन्मान्तरसहस्रेषु यन्मया पातकं कृतम् । तन्मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ॥ ५३॥ व्यास उवाच -- इति स्तुतस्ततो विष्णुर्मार्कण्डेयेन धीमता । संतुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ॥ ५४॥ श्रीभगवानुवाच -- प्रीतोऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन । वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ॥ ५५॥ मार्कण्डेय उवाच -- त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा । यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ॥ ५६॥ स्तोत्रेणानेन देवेश यस्त्वां स्तोष्यति नित्यशः । स्वलोकवसतिं तस्य देहि देव जगत्पते ॥ ५७॥ दीर्घायुष्ट्वं तु यद्दत्तं त्वया मे तप्यतः पुरा । तत्सर्वं सफलं जातमिदानीं तव दर्शनात् ॥ ५८॥ वस्तुमिच्छामि देवेश तव पादाब्जमर्चयन् । अत्रैव भगवन् नित्यं जन्ममृत्युविवर्जितः ॥ ५९॥ श्रीभगवानुवाच -- मय्यस्तु ते भृगुश्रेष्ठ भक्तिरव्यभिचारिणी । भक्त्या मुक्तिर्भवत्येव तव कालेन सत्तम ॥ ६०॥ यस्त्विदं पठते स्तोत्रं सायं प्रातस्तवेरितम् । मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ॥ ६१॥ यत्र यत्र भृगुश्रेष्ठ स्थितस्त्वं मां स्मरिष्यसि । तत्र तत्र समेष्यामि दान्तो भक्तवशोऽस्मि भोः ॥ ६२॥ व्यास उवाच -- इत्युक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः । विरराम स सर्वत्र पश्यन् विष्णुं यतस्ततः ॥ ६३॥ इति ते कथितं विप्र चरितं तस्य धीमतः । मार्कण्डेयस्य च मुनेस्तेनैवोक्तं पुरा मम ॥ ६४॥ ये विष्णुभक्त्या चरितं पुराणं भृगोस्तु पौत्रस्य पठन्ति नित्यम् । ते मुक्तपापा नरसिंहलोके वसन्ति भक्तैरभिपूज्यमानाः ॥ ६५॥ इति श्रीनरसिंहपुराणे मार्कण्डेयचरितं नाम एकादशोऽध्यायः ॥ ११॥ Narasimhapurana adhyAya 11 https://archive.org/details/NarsimhaPuranGitapress