अक्षर आकार:

श्रीविष्णुस्तवनम्

Shri Vishnustavanam

श्रीविष्णुस्तवनम्

मेघश्यामं पीत-कौशेय-वासं श्रीवत्साङ्गं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ १॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भव-भय-हरं सर्वलोकैकनाथम् ॥ २॥ सशङ्खचक्रं -सकिरीट-कुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षस्थलशोभिकौस्तुभश्रियं नमामि-विष्णुं शिरसा चतुर्भुजम् ॥ ३॥ क्षीरोदन्वत्प्रदेशे शुचि-मणि-विलसत्-सैकतैर्मौक्तिकानां माला-क्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रै-रभ्रै-रदभ्रै-रुपरिविरचितै-र्मुक्त-पीयूष-वर्षै- रानन्दी नः पुनीयादरि-नलिनदगदा-शङ्खपाणिर्मुकुन्दः ॥ ४॥ भूः पादौ यस्य नाभिर्वियदसुर-निलश्चन्द्र-सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वासोऽयमब्धिः । अन्तस्थं यस्य विश्वं सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यै- श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ ५॥ भव-जलधि-गतानां द्वन्द्ववाताहतानां सुत-दुहितृ-कलत्र-त्राण-भारावृतानाम् । विषम-विषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ ६॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सभद्रश्रवसे नमो नमः ॥ ७॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमस्पृशे । अजाय सर्ग-स्थिति-नाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ ८॥ इति पण्डितश्रीराजबलीत्रिपाठिना सङ्कलितं विष्णुस्तवनं समाप्तम् ।