अक्षर आकार:

श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

ShrI Vishnu or Vasudeva Sahasranamastotram

श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

पद्मपुराणे उत्तरखण्डे - वासुदेवसहस्रनामस्तोत्रं नारदपञ्चरात्रे विष्णुसहस्रनामं च ब्रह्मनारद - पार्वतीशिवसंवादात्मकं विनियोगः ॐ अस्य श्रीविष्णोस्सहस्रनामस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीविष्णुः परमात्मा देवता। ह्रीं बीजं। श्रीं शक्तिः । क्लीं कीलकम्। धर्मार्थकाममोक्षप्राप्त्त्यर्थे नामपारायणे विनियोगः । करन्यासः । ॐ वासुदेवः परं ब्रह्म इत्यङ्गुष्ठाभ्यां नमः ॥ १॥ ॐ मूलप्रकृतिरिति तर्जनीभ्यां नमः ॥ २॥ ॐ महावराह इति मध्यमाभ्यां नमः ॥ ३॥ सूर्यवंशध्वज इति अनामिकाभ्यां नमः ॥ ४॥ ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति कनिष्ठिकाभ्यां नमः ॥ ५॥ यथार्थखण्डिताशेष इति करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः ॥ ॐ नमो नारायणायेति दिग्बन्धः॥ ॥ ध्यानम् ॥ ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ लमित्यादि पञ्चपूजा । ॐ नमो नारायणाय इति (२) ॐ ह्रां ह्रीं ह्रूं हैं ह्रौं ह्रः क्लीं कृष्णाय विष्णवे ह्रीं रामाय धीमहि । तन्नो देवः प्रचोदयात् इति ॥ क्ष्रौं नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि । तन्नो विष्णुः प्रचोदयात् इति ॥ ॐ वासुदेवाय विद्महे देवकीसुताय धीमहि । तन्नः कृष्णः प्रचोदयात् इति ॥ ॐ ह्रां ह्रीं ह्रूं हैं ह्रौं ह्रः । क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा इति वा मन्त्रं यथोचितं जप्त्वा ध्यायेत् । ॥ ध्यानम् ॥ विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिं श्रीभूषं श्रीसुवक्षोमणि मकरमहाकुण्डलं मण्डिताशम् । हस्तोद्यच्चक्रशङ्खाम्बुजगलममलं पीतकौशयवासं विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परः । परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ १॥ परं शिवः परो ध्येयः परं ज्ञानं परा गतिः । परमार्थः परं श्रेयः परानन्दः परोदयः ॥ २॥ परोऽव्यक्तात्परं व्योम परमर्द्धिः परेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ३॥ निरञ्जनो निरातङ्को निर्लेपो निरवग्रहः । निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्यो बलोचितः ॥ ४॥ अतीन्द्रियोऽमितोऽपारोऽनीशोऽनीहोऽव्ययोऽक्षयः । सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ ५॥ सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ ६॥ सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ ७॥ सर्वातिशायितः सर्वाध्यक्षः सर्वसुरेश्वरः । षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥ ८॥ नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ ९॥ जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १०॥ योगिप्रियो योगमयो भवबन्धैकमोचकः । पुराणः पुरुषः प्रत्यक्चैतन्यं पुरुषोत्तमः ॥ ११॥ वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः । ब्रह्मविद्याश्रयोऽनाद्यः स्वप्रकाशः स्वयम्प्रभुः ॥ १२॥ सर्वोपेय उदासीनः प्रणवः सर्वतः समः । सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥ १३॥ कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः । सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ १४॥ अनुल्लङ्घ्यश्चित्रगतिर्महारुद्रो दुरासदः । मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः ॥ १५॥ महामायो विश्वबीजं पराशक्तिसुखैकभुक् । सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥ १६॥ अनिरुद्धः सर्वजीवो हृषीकेशो मनः पतिः । निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ॥ १७॥ ब्रह्म प्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ १८॥ अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । योगिगम्यः पद्मनाभः शेषशायी श्रियः पतिः ॥ १९॥ श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः । नित्यं वक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २०॥ वश्यश्रीर्निश्चलः श्रीदो विष्णुः क्षीराब्धिमन्दिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २१॥ श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम् । पीताम्बरो जगन्नाथो जगत्त्राता जगत्पिता ॥ २२॥ जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः । जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥ २३॥ सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ २४॥ शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥ २५॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ २६॥ यज्ञत्राता यज्ञपुमान् वनमाली द्विजप्रियः । द्विजैकमानदो विप्रकुलदेवोऽसुरान्तकः ॥ २७॥ सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः । सप्तलोकैकजठरः सप्तलोकैकमण्डनः ॥ २८॥ सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः । शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ २९॥ अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः । अनन्तकीर्तिर्निःसीमपौरुषः सर्वमङ्गलः ॥ ३०॥ सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः । मयकोटिजगत्स्त्रष्टा वायुकोटिमहाबलः ॥ ३१॥ कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः । कन्दर्पकोटिलावण्यो दुर्गाकोटिविमर्दनः ॥ ३२॥ समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः । कुबेरकोटिलक्ष्मीवान् शक्रकोटिविलासवान् ॥ ३३॥ हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ३४॥ सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ३५॥ विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ३६॥ वैकुण्ठेश्वरमाहात्म्यो महायोगेश्वरोत्सवः । नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः ॥ ३७॥ दीनानाथैकशरणं विश्वैकव्यसनापहः । जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥ ३८॥ योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेता प्रजापतिशताधिपः ॥ ३९॥ शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४०॥ जगत्सेतुधर्मसेतुधरो विश्वधुरन्धरः । निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४१॥ वश्यमायो वश्यविश्वो विष्वक्सेनो सुरोत्तमः । सर्वश्रेयः पतिर्दिव्यानर्ध्यभूषणभूषितः ॥ ४२॥ सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा । समस्तदेवसर्वस्वं सर्वदैवतनायकः ॥ ४३॥ समस्तदेवकवचं सर्वदेवशिरोमणिः । समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ॥ ४४॥ समस्तभयहृन्नामा भगवान्विष्टरश्रवाः । विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः ॥ ४५॥ सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः । ब्रह्मा शम्भुः शतार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ४६॥ विराड् भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः । परार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्ज्ञितः ॥ ४७॥ सदानदः सदाभद्रः सदाशान्तः सदाशिवः । सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥ ४८॥ सदापूतः पावनाग्रो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥ ४९॥ भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः ॥ ५०॥ वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यः श्रेष्ठः पुराणर्षिर्निष्ठाशान्तिः परायणम् ॥ ५१॥ शिवत्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः । नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ५२॥ आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालजितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥ ५३॥ आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्मा गुरुर्वागीश्वरीपतिः ॥ ५४॥ अनन्तविद्याप्रभवो मूलाविद्याविनाशकः । सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥ ५५॥ अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपारगः । आदिविद्वान् वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ५६॥ ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः ॥ ५७॥ मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रदृक् । लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ५८॥ आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ५९॥ आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः । हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६०॥ समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुक् हव्यकव्यैकफलदायकः ॥ ६१॥ रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञस्य ध्वंसको याज्ञिकाश्रयः ॥ ६२॥ श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा । एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकम्भञ्जनः ॥ ६३॥ ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः । कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥ ६४॥ मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ६५॥ हिरण्यकशिपुच्छेदी कालः सङ्कर्षिणीपतिः । कृतान्तवाहनासह्यः समस्तभयनाशनः ॥ ६६॥ सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ६७॥ भैरवेशो हरार्तिघ्नः कालकल्पो दुरासदः । दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डवर्जितः ॥ ६८॥ स्मृतिमात्राखिलत्राताद्भुतरूपो महाहरिः । ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः ॥ ६९॥ द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः ॥ ७०॥ वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशम्बरः । क्रोधेश्वरो रुद्रचण्डीपरिवारादिदुष्टभुक् ॥ ७१॥ सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः । असाध्यसर्वदेवघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ७२॥ गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा । देवदानवदुर्दर्शो जगद्भयदभीषणः ॥ ७३॥ समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रशाम्बरमार्जारः कालमूषकभक्षकः ॥ ७४॥ अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित् । योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् ॥ ७५॥ रुद्रो नारायणो मेषरूपशङ्करवाहनः । मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ७६॥ तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः । महाशिवः शिवारुढो भैरवैककपालधृक् ॥ ७७॥ भिल्लीचक्रेश्वरः शक्रदिव्यमोहनरूपदः । गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ७८॥ ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः । सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ७९॥ उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः । बलिस्वराज्यदः सर्वदेवविप्रान्नदोऽच्युतः ॥ ८०॥ उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः । व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८१॥ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतधर्माङ्घ्रिधावनः । var र्द्रुतकर्माद्रिधारणः अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ८२॥ राहुमूर्धापराङ्गछिद् भृगुपत्नीशिरोहरः । पापत्रस्तः सदापुण्यो दैत्याशानित्यखण्डनः ॥ ८३॥ पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् । स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ८४॥ वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः । विश्वश्लाघ्यामिताचारो दत्तात्रेयो मुनीश्वरः ॥ ८५॥ पराशक्तिसदाश्लिष्टो योगानन्दः सदोन्मदः । समस्तेन्द्रारितेजोहृत्परमामृतपद्मपः ॥ ८६॥ अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः । जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ॥ ८७॥ मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः । सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ८८॥ सप्तद्वीपवतीदाता शिवाचार्ययशःप्रदः । भीमः परशुरामश्च शिवाचार्यैकविप्रभुक् ॥ ८९॥ शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः । द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित् ॥ ९०॥ अद्वितीयतपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः । मनुः श्रेष्ठः सतां सेतुर्महीयान् वृषभो विराट् ॥ ९१॥ आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् । पृथुर्जन्माद्येकदक्षो गीःश्रीकीर्त्तिस्वयंवृतः ॥ ९२॥ जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् । सनकादिमुनिप्राप्यो भगवद्भक्तिवर्धनः ॥। ९३॥ वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः । सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ॥ ९४॥ काकुत्स्थो वीरराड् राजा राजधर्मधुरन्धरः । नित्यस्वःस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् ॥। ९५॥ नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः । सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् ॥ ९६॥ जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः । समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥ ९७॥ अतीन्द्रो ज्ञानविज्ञानपारदश्च क्षमाम्बुधिः । सर्वप्रकृष्टशिष्टेष्टो हर्षशोकाद्यनाकुलः ॥ ९८॥ पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः । गुहादेशार्पितैश्वर्यः शिवस्पर्धी जटाधरः ॥। ९९॥ चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः । यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा ॥ १००॥ ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा । ब्रह्मशापहताशेषदण्डकारण्यपावनः ॥ १०१॥ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृक् । खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ॥ १०२॥ जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः । लीलाधनुःकोट्यापास्तदुन्दुभ्यस्थिमहाचयः ॥ १०३॥ सप्ततालव्यधाकृष्टध्वजपातालदानवः । सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः ॥ १०४॥ हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् । सनागदैत्यबाणैकव्याकुलीकृतसागरः ॥ १०५॥ सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः । समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ १०६॥ असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । वरदृप्तजगच्छल्यपौलस्त्यकुलकृन्तनः ॥ १०७॥ रावणिघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा । रावणैकशिरच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ १०८॥ स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः । रक्षोदेवत्वहृद्धर्माधर्मध्नश्च पुरुष्टुतः ॥ १०९॥ नतिमात्रदशास्यारिर्दत्तरज्यविभीषणः । सुधावृष्टिभृताशेषस्वसैन्योज्जीवनैककृत् ॥ ११०॥ देवब्राह्मणनामैकधाता सर्वामरार्चितः । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियः ॥ १११॥ अयोध्याखिलराजन्यः सर्वभूतमनोहरः । स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः ॥ ११२॥ स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः । व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत् ॥ ११३॥ पार्वत्याऽधिकयुक्तात्मा प्रियात्यक्तः स्मरारिजित् । साक्षात्कुशलवच्छद्मेन्द्राग्नितातोऽपराजितः ॥ ११४॥ कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः । शरसन्धाननिर्धूतधरणीमण्डलोदयः ॥ ११५॥ ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः ॥ ११६॥ स्वर्नीतगर्दभाश्वादिः चिरायोध्यावनैककृत्त् । रामाद्वितीयः सौमित्रिर्लक्ष्मणः प्रहतेन्द्रजित् ॥ ११७॥ विष्णुभक्त्याप्तरामाङ्घ्रिः पादुकाराज्यनिर्वृतः । भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ ११८॥ शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः । नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ ११९॥ सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः । छिन्नमूर्धोपदेशार्कः शेषाङ्गस्थापितामरः ॥ १२०॥ विश्वार्थाशेषकृद्राहुशिरश्छेदाक्षताकृतिः । वाजपेयादिनामाग्निर्वेदधर्मापरायणः ॥ १२१॥ श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् । विश्वप्रकाशितज्ञानयोगो मोहतमिस्रहा ॥ १२२॥ देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः । योगस्वमी ध्यानभङ्गसगरात्मजभस्मकृत् ॥ १२३॥ धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः । शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥ १२४॥ भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः । महाप्रलयविश्वैकोऽद्वितीयोऽखिलनागराट् ॥ १२५॥ शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १२६॥ कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः । नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १२७॥ असन्तोषदृष्टिमात्रपातितैकदशाननः । बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १२८॥ मुष्टिकघ्नो द्विविदहा कालिन्दीकर्षणो बलः । रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ॥ १२९॥ देवकीवसुदेवाह्वकश्यपादितिनन्दनः । वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३०॥ नराकृतिः परं ब्रह्म सव्यसाचीवरप्रदः । ब्रह्मादिकाम्यलालित्यजगदाश्चैर्यशैशवः ॥ १३१॥ पूतनाध्नः शकटभिद् यमलार्जुनभञ्जनः । वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १३२॥ दामोदरो गोपदेवो यशोदाऽऽनन्दकारकः । कालीयमर्दनः सर्वगोपगोपीजनप्रियः ॥ १३३॥ लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः । अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १३४॥ सद्यः कुवलयापीडघाती चाणूरमर्दनः । कंसारिरुग्रसेनादिराज्यव्यापारितापरः ॥ १३५॥ सुधर्माङ्कितभूलोको जरासन्धबलान्तकः । त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥ १३६॥ सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । समस्तनारकित्राता सर्वभूपतिकोटिजित् ॥ १३७॥ रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः । समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः ॥ १३८॥ एकाकीजितरुद्रार्कमरुदाद्यखिलेश्वरः । देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १३९॥ बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित् । लीलाजितमहादेवो महादैवेकपूजितः ॥ १४०॥ इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् । काशीराजशिरस्छेत्ता रुद्रशक्त्त्येकमर्दनः ॥ १४१॥ विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः । शम्भुप्रतिज्ञाविध्वंसी काशीनिर्दग्ध नायकः ॥ १४२॥ काशीशगणकोटिघ्नः लोकशिक्षाशिवार्चकः । युवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १४३॥ शङ्करैकप्रतिष्ठाधृक् स्वांशशङ्करपूजकः । शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १४४॥ महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा । स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत् ॥ १४५॥ यमुनापतिरानीतपरिलीनशिवात्मजः । श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवः ॥ १४६॥ दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृत् ॥ १४७॥ अक्रूरोद्भवमुख्यैकभक्तस्वच्छन्दमुक्तिदः । सबालस्त्रीजलक्रीडोऽमृतवापीकृतार्णवः ॥ १४८॥ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् । परिलीनद्विजसुतानेताऽर्जुनमदापहः ॥ १४९॥ गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः । पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहहृत् ॥ १५०॥ गर्भशापच्छलध्वस्तयादवोर्वीभयापहः । जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ॥ १५१॥ कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः । अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥ १५२॥ पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः । उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १५३॥ चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः । चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिकः ॥ १५४॥ आश्रयात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् । महाभारतनिर्माता कवीन्द्रो बादरायणः ॥ १५५॥ कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः । वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १५६॥ बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः । निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ॥ १५७॥ दैत्यवेदबहिःकर्ता वेदार्थश्रुतिगोपकः । शौद्धोदनिर्दृष्टदिष्टः सुखदः सदसस्पतिः ॥ १५८॥ यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १५९॥ पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः । कल्की विष्णुयशःपूत्रः कलिकालविलोपकः ॥ १६०॥ समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् । सत्यप्रवर्त्तको देवद्विजदीर्घक्षुधापहः ॥ १६१॥ अश्ववारादिरेवान्तः पृथ्वीदुर्गतिनाशनः । सद्यः क्ष्मानन्तलक्ष्मीकृत् नष्टनिःशेषधर्मवित् ॥ १६२॥ अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः । असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १६३॥ आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः । भर्तृश्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥ १६४॥ कश्यपो देवराजेन्द्रः प्रह्लादो दैत्यराट् शशी । नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः ॥ १६५॥ महर्षिराड् भृगुर्विष्णुरादित्येशो बलिः स्वराट् । वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराड् गुरुः ॥ १६६॥ विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः । वर्णादिरग्र्यः स्त्री गौरी शक्त्याग्र्यः श्रीश्च नारदः ॥ १६७॥ देवर्षिराट् पाण्डवाग्र्योऽर्जुनो वादप्रवादराट् । पवनः पवनेशानो वरुणो यादसां पतिः ॥ १६८॥ गङ्गातीर्थोत्तमोद्भूतं छत्रकाग्र्यवरौषधम् । अन्नं सुदर्शनास्त्राग्र्यं वज्रं प्रहरणोत्तमम् ॥ १६९॥ उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः । अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७०॥ अध्यात्मविद्या विद्याग्र्यः प्रणवश्छन्दसां वरः । मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥ १७१॥ दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् । तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १७२॥ दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुहृत्तमः । चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १७३॥ सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृपः । वर्णेशो ब्राह्मणश्चेतः करणाग्र्यो नमो नमः ॥ १७४॥ इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १७५॥ अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् । विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ॥ १७६॥ समस्तसुखदं सद्यः परनिर्वाणदायकम् । कामक्रोधादि निःशेषमनोमलविशोधनम् ॥ १७७॥ शान्तिदं पावनं नॄणां महापाताकिनामपि । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १७८॥ समस्तविघ्नशमनं सर्वारिष्टविनाशनम् । घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ॥ १७९॥ ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् । सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ॥ १८०॥ तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् । जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्त्तकम् ॥ १८१॥ राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् । वन्ध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ॥ १८२॥ भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् । मङ्गल्यं पुण्यमापुष्पं श्रवणात् पठनाज्जपात् ॥ १८३॥ नास्ति विष्णोः परं धाम नास्ति विष्णोः परन्तपः । नास्ति विष्णो परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः ॥ १८४॥ नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः । सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः । सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ॥ १८५॥ पार्वत्युवाच धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते । यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥ १८६॥ कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वर प्रभो । त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ॥ १८७॥ विष्णोः सहस्रनामैतत् प्रत्यहं वृषभध्वज । नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥ १८८॥ महादेव उवाच राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ १८९॥ ॥ इति श्रीपद्मपुराणे उत्तरखण्डे पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं च वासुदेवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ var = Also almost same Vishnusahasranamastotram as from Narada pancharatra