अक्षर आकार:

श्रीविष्णुसहस्रनामस्तोत्रं नारदपञ्चरात्रे

shrIviShNusahasranAmastotram

श्रीविष्णुसहस्रनामस्तोत्रं नारदपञ्चरात्रे

श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीमहादेव उवाच- ब्रह्महत्यासहस्राणां पापं शाम्येत् कथञ्चन । न पुनस्त्वय्यविज्ञाते कल्पकोटिशतैरपि ॥ १॥ यस्मान्न या कृता स्पर्धा पवित्रं स्यात्कथं हरे । नश्यन्ति सर्वपापानि तन्मां वद सुरेश्वर । तदाह देवो गोविन्द मम प्रीत्या यथायथम् ॥ २॥ श्रीभगवानुवाच- सदा नामसहस्रं मे पावनं मत्पदावहम् । तत्परोऽनुदिनं शम्भो सर्वैश्वर्यं यदीच्छसि ॥ ३॥ श्रीमहादेव उवाच- तमेव तपसा नित्यं भजामि स्तौमि चिन्तये । तेनाद्वितीयमहिमो जगत्पूज्योऽस्मि पार्वति ! ॥ ४॥ श्रीपार्वत्युवाच- तन्मे कथय देवेश यथाहमपि शङ्कर ! । सर्वेश्वरी निरूपमा तव स्यां सदृशी प्रभो ! ॥ ५॥ श्रीमहादेव उवाच- साधु ! साधु ! त्वया पृष्टो विष्णोर्भगवतः शिवे ! । नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमङ्गलम् ॥ ६॥ ॐ नमोनारायणाय पुरुषोत्तमाय च महात्मने । विशुद्धसद्माधिष्ठाय महाहंसाय धीमहि ॥ ७॥ विनियोगः ॐ अस्य श्रीविष्णोः सहस्रनाममन्त्रस्य महादेव ऋषिः । अनुष्टुप्छन्दः । परमात्मा देवता । सूर्यकोटिप्रतीकाश इति बीजम् । गङ्गातीर्थोत्तमा शक्तिः । प्रपन्नाशनिपञ्जर इति कीलकम् । दिव्यास्त्र इत्यस्रम् । सर्वपापक्षयार्थं सर्वाभीष्टसिद्ध्यर्थं श्रीविष्णोर्नामसहस्रजपे विनियोगः । ऋष्यादिन्यासः ॐ महादेवाय ऋषये नमः इति शिरसि ॥ १॥ अनुष्टुप् छन्दसे नमः मुखे ॥ २॥ परमात्मदेवतायै नमः हृदि ॥ ३॥ सूर्यकोटिप्रतीकाशबीजाय नमः गुह्ये ॥ ४॥ गङ्गातीर्थोत्तमशक्त्ये नमः पादयोः ॥ ५॥ प्रसन्नाशनिपञ्जरकीलकाय नमः नाभौ ॥ ६॥ विनियोगाय नमः सर्वाङ्गे ॥ ७॥ करन्यासः ॐ वासुदेवः परं ब्रह्म इत्यङ्गुष्ठाभ्यां नमः ॥ १॥ ॐ मूलप्रकृतिरिति तर्जनीभ्यां नमः ॥ २॥ ॐ भूमहावराह इति मध्यमाभ्यां नमः ॥ ३॥ ॐ सूर्यवंशध्वजो राम इति अनामिकाभ्यां नमः ॥ ४॥ ॐ ब्रह्मादिकमलादिगदासूर्यकेशवमिति कनिष्ठिकाभ्यां नमः ॥ ५॥ शेष इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । षडङ्गन्यासः ॐ वासुदेवः परं ब्रह्म इति हृदयाय नमः ॥ १॥ ॐ मूलप्रकृति शिरसे स्वाहा ॥ २॥ ॐ भूमहावाराह इति शिखायै वषट् ॥ ३॥ ॐ सूर्यवंशध्वजो रामः इति कवचाय हुं ॥ ४॥ ब्रह्मादिकमलादिगदासूर्यकेशवः नेत्रत्रयाय वौषट ॥ ५॥ ॐ दिव्यास्त्र इत्यस्त्राय फट् ॥ ६॥ इति हदयादिषडङ्गान्यासः ॥ ७॥ ॥ ध्यानम् ॥ विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदरांघ्रि- श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलं मण्डितांसम् । हस्तोद्यच्चक्रशङ्खाम्बुजगदलमलं पीतकौशयवासो - विद्युद्भासं समुद्यद्दिनकरसदृशं पद्महस्तं नमामि ॥ ८॥ ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परम् । परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ ९॥ परं शिवं परो ध्येयः परं ज्ञानं परा गतिः । परमार्थः परं श्रेयः परानन्दः परोदयः ॥ १०॥ परो व्यक्तः परं व्योम परार्धः परमेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ११॥ निरञ्जनो निरालम्बो निर्लेपो निरवग्रहः । निर्गुणोनिष्कलोऽनन्तोऽचिन्त्योऽसावचलोऽच्युतः ॥ १२॥ अतीन्द्रियोऽमितोऽरोध्योऽनीहोऽनीशोऽव्ययोऽक्षयः । सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ १३॥ शर्वः शम्भुः सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ १४॥ सर्वावासः सर्वरूपः सर्वादि सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ १५॥ सर्वातिशायकः सर्वाध्यक्षः सर्वेश्वरेश्वरः । षड्विंशको महाविष्णुर्महागुह्यो महाहरिः ॥ १६॥ नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ १७॥ जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १८॥ योगिप्रियो योगमयो भवबन्धैकमोचकः । पुराणः पुरुषः प्रत्यक् चैतन्यं पुरुषोत्तमः ॥ १९॥ वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः । ब्रह्मविद्याश्रयोऽलङ्घ्यः स्वप्रकाशः स्वयम्प्रभः ॥ २०॥ सर्वोपेय उदासीनः प्रणवः सर्वतः समः । सर्वानवद्यो दुष्प्रापस्तुरीयस्तमसः परः ॥ २१॥ कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः । सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ २२॥ अनुल्लघ्यं सर्वगतिर्महारुद्रो दुरासदः । मूलप्रकृतिरानन्दः प्रज्ञाता विश्वमोहनः ॥ २३॥ महामायो विश्वबीजः पराशक्तिसुखैकभुक् । सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥ २४॥ अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः । निरुपाधिः प्रियो हंसोऽक्षरः सर्वनियोजकः ॥ २५॥ ब्रह्मा प्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ २६॥ अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । योगी मृग्यः पद्मनाभः शेषशायी श्रियः पतिः ॥ २७॥ श्रीसत्योपास्यपादाब्जोऽनन्तः श्रीः श्रीनिकेतनः । नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २८॥ रम्यश्रीर्निश्चयश्रीदो विष्णुः क्षीराब्धिमन्दिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २९॥ श्रीवत्सवक्षा निःसीमः कल्याणगुणभाजनम् । पीताम्बरो जगन्नाथो जगद्धाता जगत्पिता ॥ ३०॥ जगद्बन्धुर्जगत्स्रष्टा जगत्कर्ता जगन्निधिः । जगदेकस्फुरद्वीर्यो नाहंवादी जगन्मयः ॥ ३१॥ सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्ववीरजित् । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ ३२॥ शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेववृत्तिरनुत्तमः ॥ ३३॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । यज्ञभुग् यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ ३४॥ यज्ञत्राता यज्ञपुमान् वनमाली द्विजप्रियः । द्विजैकमानदोऽहिंस्रः कुलदेवोऽसुरान्तकः ॥ ३५॥ सर्वदुष्टान्तकृत् सर्वसज्जनानन्दपालकः । सर्वलोकैकजठरः सर्वलोकैकमण्डलः ॥ ३६॥ सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः । शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ ३७॥ अनिर्देश्यवपु सर्वः सर्वलोकैकपावनः । अनन्तकीर्तिर्निः श्रीशः पौरुषः सर्वमङ्गलः ॥ ३८॥ सूर्यकोटिप्रतीकाशो यमकोटिविनाशनः । ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३९॥ कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः । कुबेरकोटिलक्ष्मीवान् शत्रुकोटिविनाशनः ॥ ४०॥ कन्दर्पकोटिलावण्यो दुर्गकोटिविमर्द्धनः । समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ॥ ४१॥ हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ४२॥ सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ४३॥ विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ४४॥ वैकुण्ठोऽनन्तमाहात्म्यो महायोगीश्वरेश्वरः । नित्यतृप्तोऽथ सद्भावो निःशङ्को नरकान्तकः ॥ ४५॥ दीनानाथैकशरणं विश्वैकव्यसनापहा । जगत्क्षमाकृतो नित्यो कृपालुः सज्जनाश्रयः ॥ ४६॥ योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेता प्रजापतिसभाधिपः ॥ ४७॥ शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४८॥ जगत्सेतुर्धर्मसेतुर्धीरोऽरिष्टधुरन्यरः । निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४९॥ रम्यमायो विश्वविश्वो विष्वक्सेनो नगोत्तमः । सर्वाश्रयः पतिर्देव्या सर्वभूषणभूषितः ॥ ५०॥ सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा । समस्तदेवसर्वज्ञः सर्वदैवतनायकः ॥ ५१॥ समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः । समस्तदेवकवचं सर्वदेवशिरोमणिः ॥ ५२॥ समस्तभयनिर्भिन्नो भगवान् विष्टरश्रवाः । विभुः सर्वहितोदर्को हतारिः सुगतिप्रदः ॥ ५३॥ सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः । ब्रह्मशम्भुपरार्धाढ्यी ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ५४॥ विराट् भक्तपराधीनः स्तुत्यः सर्वार्थसाधकः । सर्वार्थकर्ता कृत्यज्ञः स्वार्थकृत्यमदोज्झितः ॥ ५५॥ सदा नवः सदा भद्रः सदा शान्तः सदा शिवः । सदा प्रियः सदा तुष्टः सदा पुष्टः सदार्चितः ॥ ५६॥ सदा पूतः पावनाग्रो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥ ५७॥ भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मुञ्जकेशः सर्वयोगविनिस्मृतः ॥ ५८॥ वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यश्रेष्ठः पुराणर्षिर्निष्ठाशान्तिपरायणः ॥ ५९॥ शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः । नरकृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ६०॥ आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालो जितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥ ६१॥ आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्म गुरुर्वाग्मीश्वरीपतिः ॥ ६२॥ अनन्तविद्याप्रभवो मूलाविद्याविनाशकः । सर्वार्हणो जगज्जाढ्यनाशको मधुसूदनः ॥ ६३॥ अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपावकः । आदिविद्वान् वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ६४॥ ब्रह्मार्थवेदाभरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानराजो ज्ञानसिन्धुरखण्डधीः ॥ ६५॥ मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रधृक् । लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ६६॥ आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भवः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ६७॥ आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः । हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६८॥ समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुग्भव्यो गुणभव्यैकदायकः ॥ ६९॥ लोमान्तलीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञघ्नध्वंसनो याज्ञिकाश्रयः ॥ ७०॥ नरसिंहो दिव्यसिंहः सर्वारिष्टार्तिदुःखहा । एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनम् ॥ ७१॥ ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः । कोटिवज्राधिकनखो गजदुष्प्रेक्षमूर्तिधृक् ॥ ७२॥ मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिन्त्योऽमोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ७३॥ हिरण्यकशिपुच्छेदी कालः सङ्कर्षणः पतिः । कृतान्तवाहनः सद्यः समस्तभयनाशनः ॥ ७४॥ सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ७५॥ भैरवेशो हरार्तिघ्न कालकल्पो दुरासदः । दैत्यगर्भस्राविनामा स्फुरद्ब्रह्माण्डवर्जितः ॥ ७६॥ स्मृतिमात्राखिलत्राता भूतरूपो महाहरिः । ब्रह्मचर्मशिरःपट्टा दिक्पालोऽर्धाङ्गभूषणः ॥ ७७॥ द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरिजारतो भैरवतर्जकः ॥ ७८॥ वीरचक्रेश्वरोऽत्युग्रो यमारिः कालसंवरः । क्रोधेश्वरो रुद्रचण्डीपरिवादी सुदुष्टभाक् ॥ ७९॥ सर्वाक्षः सर्वमृत्युश्च मृत्युर्मृत्युनिर्वतकः । असाध्यः सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ८०॥ गणेशकोटिदर्पघ्नो दुःसहोऽशेषगोत्रहा । देवदानवदुर्धषो जगद्भक्ष्यप्रदः पिता ॥ ८१॥ समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रेशोऽसुरमार्जारः कालमूषकभक्षकः ॥ ८२॥ अनन्तायुधदोर्द्दण्डो नृसिंहो वीरभद्रजित् । योगिनीचक्रगुह्येशः शक्रारिः पशुमांसभुक् ॥ ८३॥ रुद्रो नारायणो मेषरूपशङ्करवाहनः । मेषरूपी शिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ८४॥ तुलसीवल्लभो वीरोऽचिन्त्यमायोऽखिलेष्टदः । महाशिवः शिवारुद्रो भैरवैककपालभूत् ॥ ८५॥ भिल्लश्चक्रेश्वरः शक्रो दिव्यमोहनरूपधृक् । गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ८६॥ ब्रह्मतेजोमयो ब्रह्म श्रीमयश्च त्रयीमयः । सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ८७॥ उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः । बलिस्वाराज्यदः सर्वदेवविप्रात्मदोऽच्युतः ॥ ८८॥ उरुक्रमस्तीर्थपादस्त्रिदशश्च त्रिविक्रमः । व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८९॥ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतकर्माद्रिधारणः । अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ९०॥ बहुमूर्धा पराङ्छिद्रभृगुपत्नीशिरोहरः । पापस्तेयः सदापुण्यो दैत्येशो नित्यखण्डकः ॥ ९१॥ पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् । अमरो नित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ९२॥ वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः । विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ९३॥ पराशक्तिसमायुक्तो योगानन्दमदोन्मदः । समस्तेन्द्रारितेजोहृत् परमानन्दपादपः ॥ ९४॥ अनसूयागर्भरत्नो भोगमोक्षसुखप्रदः । जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिहृत् ॥ । ९५॥ मातृहत्यघनिर्लेपः स्कन्दजिद्विप्रराज्यदः । सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ९६॥ योगी योगावतारश्च योगीशो योगवत्परः । परमानन्ददाता च शिवाचार्ययशःप्रदः ॥ ९७॥ भीमः परशुरामश्च शिवाचार्यैकविश्वभूः । शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ॥ ९८॥ द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तकृत् । अद्वितीयतमोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ॥ ९९॥ मनुश्रेष्ठः सतां सेतुर्महीयान् वृषभो विराट् । आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥ १००॥ पृथुजन्माद्येकदक्षो ह्रीः श्रीः कीर्तिः स्वयंधृतिः । जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठो दुरस्त्रधृक् ॥ १०१॥ सनकादिमुनिप्राप्तभगवद्भक्तिवर्धनः । वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ॥ १०२॥ सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः । काकुत्स्थवीरताधर्मो राजधर्मधुरन्धरः ॥ १०३॥ नित्यसुस्थाशयः सर्वभद्रग्राही शुभैकदृक् । नवरत्नं रत्ननिधिः सर्वाध्यक्षो महानिधिः ॥ १०४॥ सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् । जगद्वशी दाशरथिः सर्वरत्नाश्रयो नृपः ॥ १०५॥ धर्मः समस्तधर्मस्थो धर्मद्रष्टाखिलार्तिहृत् । अतीन्द्रो ज्ञानविज्ञानपारदृश्वा क्षमाम्बुधिः ॥ १०६॥ सर्वप्रकृष्टः शिष्टेष्टो हर्षशोकाधनाकुलः । पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ॥ १०७॥ गुहादेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः । चित्रकूटाप्तरत्नाद्रिजगदीशो रणेचरः ॥ १०८॥ यथेष्टामोघशस्त्रास्त्रो देवेन्द्रतनयाक्षिहा । ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ॥ १०९॥ ब्रह्मशापहताशेषदण्डकारण्यपावनः । चतुर्दशसहस्राग्र्यरक्षोघ्नैकशरैकभृत् ॥ ११०॥ खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः । जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः ॥ १११॥ लीलाधुनःकोट्यापास्तदुन्दुभ्यस्थिमहाचयः । सप्ततालव्यथाकृष्टध्वजपातालदानवः ॥ ११२॥ सुग्रीवे राज्यदो धीमान् मनसैवाभयप्रदः । हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ॥ ११३॥ अग्निदैवत्यबाणैकव्याकुलीकृतसागरः । सम्लिच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ॥ ११४॥ सनागदैत्यधामैकव्याकुलीकृतसागरः । समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ ११५॥ असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । वरदृप्तजनस्थानपौलस्त्यकलकृन्तनः ॥ ११६॥ रावणघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा । रावणैकमुखच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ ११७॥ स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः । रक्षोदेवत्वहृद्धर्मा धर्महर्म्यः पुरुष्टुतः ॥ ११८॥ नातिमात्रदशास्यारिर्दत्तराज्यविभीषणः । सुधासृष्टिभृताशेषस्वसैन्यजीवनैककृत् ॥ ११९॥ देवब्राह्मणनामैकधाता सर्वामरार्चितः । ब्रह्मसूर्येन्द्ररुद्रादिवन्द्योऽर्चितसतां प्रियः ॥ १२०॥ अयोध्याखिलराजाग्र्य सर्वभूतमनोहरः । स्वाम्यतुल्यकृपादत्तो हीनोष्कृष्टैकसत्प्रियः ॥ १२१॥ स्वपक्षादिन्यायदर्शी हीनार्थोऽधिकसाधकः । बाधव्याजानुचितकृत्तावकोऽखिलतुष्टिकृत् ॥ १२२॥ पार्वत्यधिकयुक्तात्मा प्रियात्यक्तः सुरारिजित् । साक्षात्कुशलवत्सद्मेन्द्राग्निनातोऽपराजितः ॥ १२३॥ कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः । यशोदानन्दनो नन्दी धरणीमण्डलोदयः ॥ १२४॥ ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थपः ॥ १२५॥ स्वर्णीतगर्दभश्वादिचिरायोध्याबलैककृत् । रामाद्वितीयः सौमित्रिलक्ष्मणप्रहतेन्द्रजित् ॥ १२६॥ विष्णुभक्ताशिवांहःछित्पादुकाराज्यनिर्वृतः । भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ १२७॥ शत्रुघ्नो वैद्यराडायुर्वेदगर्भौषधीपतिः । नित्यानित्यकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ १२८॥ सूर्यविघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः । छिन्नमूर्धोपदेशार्कतनूजकृतमैत्रिकः ॥ १२९॥ शेषाङ्गस्थापितनरः कपिलः कर्दमात्मजः । योगात्मकध्यानभङ्गसगरात्मजभस्मकृत् ॥ १३०॥ धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः । शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥ १३१॥ विश्वात्माशेषरुद्रार्थशिरश्छेदाक्षताकृतिः । वाजपेयादिनामाग्निर्वेदधर्मापरायणः ॥ १३२॥ श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् । विश्वप्रकाशितध्यानयोगो मोहतमिस्रहा ॥ १३३॥ भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः । महाप्रलयविश्वैकोऽद्वितीयोऽखिलदैत्यराट् ॥ १३४॥ शेषदेवः सहस्राक्षः सहस्राङ्घिशिरोभुजः । फणी फणिफणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १३५॥ कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः । नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १३६॥ स्वसन्तोषतृप्तिमात्रः पातितैकदशाननः । बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १३७॥ मुष्टिकघ्नो द्विविदहा कालिन्दीभेदनो बलः । रेवतीरमणः पूर्वभक्तिरेवाच्युताग्रजः ॥ १३८॥ देवकीवसुदेवोत्थोऽदितिकश्यपनन्दनः । वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३९॥ नराकृतिः पूर्णब्रह्म सव्यसाची परन्तपः । ब्रह्मादिकामनानित्यजगत्पर्वेतशैशवः ॥ १४०॥ पूतनाघ्नः शकटभिद्यमलार्जुनभञ्जनः । वत्सामुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १४१॥ दामोदरो गोपदेवो यशोदानन्दकारकः । कालीयमर्द्दनः सर्वगोपगोपीजनप्रियः ॥ १४२॥ लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः । अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १४३॥ सद्यः कुवलयापीडघाती चाणूरमर्दनः । कंसारिरुग्रसेनादिराज्यस्थाय्यरिहाऽमरः ॥ १४४॥ सुधर्मांकितभूलोको जरासन्धबलान्तकः । त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥ १४५॥ सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । रुक्मिणीरमणो रुक्मिशासनो नरकान्तकृत् ॥ १४६॥ समस्तनरकत्राता सर्वभूपतिकोटिजित् । समस्तसुन्दरीकान्तोऽसुरारिर्गरुडध्वजः ॥ १४७॥ एकाकीजितरुद्रार्कमरुदापोऽखिलेश्वरः । देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १४८॥ बाणबाहुसहस्रच्छित्स्कन्दादिगणकोटिजित् । लीलाजितमहादेवो महादेवैकपूजितः ॥ १४९॥ इन्द्रार्थार्जुननिर्मत्सुर्जयदः पाण्डवैकधृक् । काशीराजशिरस्छेत्ता रुद्रशक्त्येकमर्दनः ॥ १५०॥ विश्वेश्वरप्रसादाढ्यः काशीराजसुतार्दनः । शम्भुप्रतिज्ञापाता च स्वयम्भुगणपूजकः ॥ १५१॥ काशीशगणकोटिघ्नो लोकशिक्षाद्विजार्चकः । शिवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १५२॥ गयासुरप्रतिज्ञाधृक् स्वांशशङ्करपूजकः । शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १५३॥ महालक्ष्मीवपुर्गौरीत्राणो देवलवातहा । विनिद्रमुचुकुन्दैकब्रह्मास्त्रयुवनाश्वहृत् ॥ १५४॥ अक्रूरोऽक्रूरमुख्यैकभक्तस्वच्छन्दमुक्तिदः । सबालस्त्रीजलक्रीडाकृतवापीकृतार्णवः ॥ १५५॥ यमुनापतिरानीतपरिणीतद्विजात्मकः । श्रीदामशङ्कुभक्तार्थभूम्यानीतेन्द्रभैरवः ॥ १५६॥ दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । आचाण्डालादिकं प्राप्य द्वारकानिधिकोटिकृत् ॥ १५७॥ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् । परिणीतद्विजसुतानेताऽर्जुनमदापहः ॥ १५८॥ गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः । पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहभृत् ॥ १५९॥ ब्रह्मशापच्छलध्वस्तयादवो विभवावहः । अनङ्गे जितगौरीशो रतिकान्तः सदेप्सितः ॥ १६०॥ पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः । उषापतिर्विश्वहेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १६१॥ चतुरात्मा चतुर्वर्णश्चतुर्वेदविधायकः । चतुर्विश्वैकविश्वात्मा सर्वोत्कृष्टासु कोटिषु ॥ १६२॥ आश्रयात्मा पुराणर्षिर्व्यासः शास्त्रसहस्रकृत् । महाभारतनिर्माता कवीन्द्रो वादरायणः ॥ १६३॥ कृष्णद्वैपायनः सर्वपुरुषार्थकबोधकः । वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १६४॥ बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः । निरायुधो जगज्जैत्रः श्रीधनो दुष्टमोहनः ॥ १६५॥ दैत्यवेदबहिष्कर्त्ता वेदार्थश्रुतिगोपकः । शुद्धोदनिर्नष्टदिष्टः सुखदः सदसत्पतिः ॥ १६६॥ यथायोग्याखिलकुपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १६७॥ पाषण्डश्रुतिमार्गेण पाषण्डश्रुतिगोपकः । कल्की विष्णुयशः पूतः कलिकालविलोपकः ॥ १६८॥ समस्तम्लेच्छहस्तघ्नः सर्वशिष्टद्विजातिकृत् । सत्यप्रवर्त्तको देवद्विजदीर्घक्षुधापहः ॥ १६९॥ अवगवादिवेदेन पृथ्वीदुर्गतिनाशनः । सद्यः क्ष्मानन्तलक्ष्मीकृत् नष्टनिः शेष धर्मकृत् ॥ १७०॥ अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः । असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १७१॥ आत्मतत्त्वाधिपः कृर्तृश्रेष्ठो विधिरुमापतिः । भर्तुः श्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥ १७२॥ कश्यपो देवरादिन्द्रः प्रह्लादो दैत्यराट् शशी । नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ॥ १७३॥ महर्षिराट् भृगुर्विष्णुरादित्येशो बलिः स्वराट् । वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराट् गुरुः ॥ १७४॥ विद्वत्तमश्चित्ररथो गन्धर्वाग्र्यो वसूत्तमः । वर्णादिरग्र्या स्त्री गौरी शक्त्यग्र्या श्रीश्च नारदः ॥ १७५॥ देवर्षिराट् पाण्डवाग्र्योऽर्जुनो नारदवादराट् । पवनः पवनेशानो वरुणो यादसाम्पतिः ॥ १७६॥ गङ्गातीर्थोत्तमोद्भूतं छत्रकाग्र्यवरौषधम् । अन्नं सुदर्शनास्त्राग्र्यो वज्रप्रहरणोत्तमम् ॥ १७७॥ उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः । अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७८॥ अध्यात्मविद्याविद्यात्मा प्रणवश्छन्दसां वरः । मेरुर्गिरिपतिर्भार्गो मासाग्र्यः कालसत्तमः ॥ १७९॥ दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् । तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १८०॥ दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुरोत्तमः । चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १८१॥ सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्भूधरो नृपः । वणशो ब्राह्मणश्चान्तः करणाग्र्यं नमो नमः ॥ १८२॥ इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १८३॥ अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् । विष्णुलोकैकसोपानं सर्वदु:खविनाशनम् ॥ १८४॥ समस्तसुखदं सत्यं परं निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १८५॥ शान्तिदं पावनं नृणां महापाताकिनामपि । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १८६॥ सर्वविघ्नप्रशमनं सर्वारिष्टविनाशनम् । घोरदुःस्वप्नशमनं तीव्रदारिद्र्यनाशनम् ॥ १८७॥ तापत्रयापहं गुह्यं धनधान्ययशस्करम् । सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वकामदम् ॥ १८८॥ तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् । अप्रज्ञजाड्यशमनं सर्वविद्याप्रवर्त्तकम् ॥ १८९॥ राज्यदं राज्यकामानां रोगिणां सर्वरोगनुत् । वन्ध्यानां सुतदं चाशु सर्वश्रेष्ठफलप्रदम् ॥ १९०॥ अस्त्रग्रामविषध्वंसी ग्रहपीडाविनाशनम् । माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ १९१॥ सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः । । पुराणशास्त्रं स्मृतयः पठिताः पठितास्तथा ॥ १९२॥ जप्त्वास्य श्लोकं श्लोकार्धं पादं वा पठतः प्रिये । नित्यं सिध्यति सर्वेषामचिरात्किमुतोऽखिलम् ॥ १९३॥ प्राणेन सदृशं सद्यः प्रत्यहं सर्वकर्मसु । इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥ १९४॥ नावैष्णवाय दातव्यं विकल्पोपहृतात्मने । भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥ १९५॥ देयं पुत्राय शिष्याय शुद्धाय हितकाम्यया । मत्प्रसादादृते नेदं ग्रहिष्यन्त्यल्पमेधसः ॥ १९६॥ कलौ सद्यः फलं कल्पग्राममेष्यति नारदः । लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥ १९७॥ क्षेत्रेषु वैष्णवेष्वेतदार्यावर्त्ते भविष्यति । नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परम्पदम् ॥ १९८॥ नास्ति विष्णो परं ज्ञानं नास्ति मोक्षो ह्यवैष्णवः । नास्ति विष्णोः परो मन्त्रो नास्ति विष्णोः परं तपः ॥ १९९॥ नास्ति विष्णो परं ध्यानं नास्ति मन्त्रो ह्यवैष्णवः । किं नास्य बहुभिर्मन्त्रैः किं जपैर्बहुविस्तरैः ॥ २००॥ वाजपेयसहस्रैः किं भक्तिर्यस्य जनार्दने । सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभु ॥ २०१॥ सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् । आब्रह्मसारसर्वस्य सर्वमेतन्मयोदितम् ॥ २०२॥ श्रीपार्वत्युवाच- धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते । यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥ २०३॥ अहो बत महत्कष्टं समस्त सुखदे हरौ । विद्यमानेऽपि सर्वेशे मूढाः क्लिश्यन्ति संसृतौ ॥ २०४॥ यमुद्दिश्यसदा नाथो महेशोऽपि दिगम्बरः । जटिलो भस्मलिप्ताङ्गस्तपस्वी वीक्षितो जनैः ॥ २०५॥ अतोऽधिको न देवोऽस्ति लक्ष्मीकान्तान्मधुद्विषः । यतत्वं चिन्त्यते नित्यं त्वया योगीश्वरेण हि ॥ २०६॥ अतःपरं किमधिकं पदं श्रीपुरुषोत्तमात् । तमविज्ञाय तान् मूढा यजन्ते ज्ञानमानिनः ॥ २०७॥ मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः । प्रकाशितो न मे यस्य दत्ताद्या दिव्यशक्तयः ॥ २०८॥ अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः । भवदादिगुरुर्मूढैः सामान्य इव लक्ष्यते ॥ २०९॥ महीयसां हि माहात्म्यं भजमानान् भजन्ति चेत् । द्विषतोऽपि तथा पापानुपेक्ष्यन्ते क्षमालयाः ॥ २१०॥ मयापि बाल्ये स्वपितुः प्रज्ञा दृष्टा बुभुक्षिताः । दुखादशक्ताः स्वं पोष्टुं श्रिया नाध्यासिताः पुरा ॥ २११॥ त्वया संवर्धिताभिश्च प्रजाभिर्विबुधादयः । विससद्भिः स्वशक्त्याद्याः समुहृन्मित्रबान्धवाः ॥ २१२॥ त्वया विना क्व देवत्वं क्व धैर्यं क्य परिग्रहः । सर्वे भवन्ति जीवन्तो यातनाः शिरसि स्थिताः ॥ २१३॥ नामृते नैव धर्मार्थौ कामो मोक्षोऽपि दुर्लभः । क्षुधितानां दुर्गतानां कुतो योगसमाधयः ॥ २१४॥ सा च संसारसारैका सर्वलोकैकपालिका । वश्या सा कमला यस्य त्यक्त्वा त्वामपि शङ्करः ॥ २१५॥ श्रिया धर्मेण शौर्येण रूपेणार्चवसम्पदा । सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः ॥ २१६॥ कस्तेन तुल्यतामेति देवदेवेन विष्णुना । यस्यांशांशकभागेन विना सर्व विलीयते ॥ २१७॥ जगदेतत्तथा प्राहुर्दोषायैतद्विमोहिताः । नास्य जन्म जरा मृत्युर्नाप्राप्यं वार्थमेव वा ॥ २१८॥ तथापि कुरुते धर्मान् पालनाय सतां कृते । विज्ञापय महादेव प्रणम्यकं महेश्वरम् ॥ २१९॥ अवधार्य तथा साहं कान्त कामद शाश्वत । कामाद्यासक्तचित्तत्वात् किं तु सर्वेश्वर प्रभो ॥ २२०॥ त्वन्मयत्वात्प्रसादाद्वा शक्नोमि पठितुं न चेत् । विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ॥ नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥ २२१॥ श्रीमहादेव उवाच- राम रामेति रामेति रमेरामे मनोरमे । सहस्रनामभिस्तुल्यं रामनाम वरानने ॥ २२२॥ अथ सर्वाणि तीर्थानि जलञ्चैव प्रयागजम् । विष्णोर्नामसहस्रस्य कलां नार्हन्ति षोडशीम् ॥ २२३॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं सम्पूर्णम् ॥