अक्षर आकार:

श्रीविष्णुसहस्रनामस्तोत्रम् (स्कन्दपुराणोक्त)

Shri Vishnusahasranamastotram from Skandapurana

श्रीविष्णुसहस्रनामस्तोत्रम् (स्कन्दपुराणोक्त)

श्रीगणेशाय नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । देवा ऊचुः - ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत् । तत्सर्वं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥ १॥ ब्रह्मोवाच - श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् । शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ २॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ ३॥ येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः । अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥ ४॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नमः । कल्पादौ सृष्टिकामेन प्रेरितोऽहं च शौरिणा ॥ ५॥ न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः । एतस्मिन्नन्तरे सद्यो मार्कण्डेयो महाऋषिः ॥ ६॥ सर्वसिद्धेश्वरो दान्तो दीर्घायुर्विजितेन्द्रियः । मयादृष्टोऽथगत्वातं तदाहं समुपस्थितः । ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ॥ ७॥ पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः । तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥ ८॥ भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् । तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवन्दित ॥ ९॥ श्रीमार्कण्डेय उवाच - विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी । सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥ १०॥ एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् । कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥ ११॥ ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन । तद्गतं सर्वं विघ्नन्तियत्तद्धर्मं सनातनम् ॥ १२॥ एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् । पवित्रं च पवित्राणां पावनानां च पावनम् ॥ १३॥ विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् । सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ॥ १४॥ अस्य श्रीविष्णुसहस्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः । विष्णुर्देवताः । अनुष्टुप्च्छन्दः । सर्वकामानवाप्त्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् । व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥ १५॥ ॐ विश्वं विष्णुर्हृषीकेशः सर्वात्मा सर्वभावनः । सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥ १६॥ अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः । सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥ १७॥ जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः । जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥ १८॥ सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः । अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ॥ १९॥ बहुरूपैकरूपश्च सर्वरूपधरो हरः । कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ॥ २०॥ महार्णवो महामेघो जलबुद्बुदसम्भवः । संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ॥ २१॥ अनन्तो वासुकिः शेषो वराहो धरणीधरः । पयःक्षीर विवेकाढ्यो हंसो हैमगिरिस्थितः ॥ २२॥ हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः । मन्थनो रत्नहारी च कूर्मो धरधराधरः ॥ २३॥ विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः । नाभिनालमृणाली च स्वयम्भूश्चतुराननः ॥ २४॥ प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः । मरीचिः कश्यपो दक्षः सुरासुरगुरुः कविः ॥ २५॥ वामनो वाममार्गी च वामकर्मा बृहद्वपुः । त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥ २६॥ यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः । सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ॥ २७॥ तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः । देवराजः सुरपतिर्दानवारिः शचीपतिः ॥ २८॥ अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः । नैरृतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥ २९॥ कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् । अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥ ३०॥ सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः । विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ॥ ३१॥ नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्युमापतिः । शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ॥ ३२॥ कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः । बटुको भैरवो बालः कपाली दण्डविग्रहः ॥ ३३॥ स्मशानवासी मांसाशी दुष्टनाशी वरान्तकृत् । योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ॥ ३४॥ सेनानीः सैन्यदः(सेनदः) स्कन्दो महाकालो गणाधिपः । आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥ ३५॥ ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः । नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ॥ ३६॥ प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः । शलभः सागरः साक्षी कल्पद्रुमविकल्पकः ॥ ३७॥ हेमदो हेमभागीच हिमकर्ता हिमाचलः । भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥ ३८॥ लोकालोकान्तरो लोकी विलोकी भुवनेश्वरः । दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ॥ ३९॥ विरूपो रूपवान्रागी नृत्यगीतविशारदः । हाहा हूहूश्चित्ररथो देवर्षिर्नारदः सखा ॥ ४०॥ विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः । कपिलो जल्पको वादी दत्तो हैहयसङ्घराट् ॥ ४१॥ वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः । जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यृषिः ॥ ४२॥ हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः । अगस्तिः पुलहो दक्षः पौलस्त्यो रावणो घटः ॥ ४३॥ देवारिस्तापसस्तापी विभीषणहरिप्रियः । तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥ ४४॥ दाशरथी राघवो रामो रघुवंशविवर्धनः । सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः ॥ ४५॥ सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः । किरीटी कुडली चापी शङ्खचक्री गदाधरः ॥ ४६॥ कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः । सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥ ४७॥ लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः । हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥ ४८॥ दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः । वनध्वंसी वनी वेगो वानरध्वज लाङ्गुली ॥ ४९॥ रविदंष्ट्री च लङ्काहा हाहाकारो वरप्रदः । भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥ ५०॥ ( var रामेश्वरः) जानकीवल्लभः कामी किरीटी कुण्डली खगी । पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥ ५१॥ चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः । स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाड्गवासकः ॥ ५२॥ जितवैरी जितकामो जितक्रोधो जितेन्द्रियः । शान्तो दान्तो दयारामो ह्येकस्त्रीव्रतधारकः ॥ ५३॥ सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः । बहुराक्षस सम्वीतः सर्वराक्षसनाशकृत् ॥ ५४॥ रावणारी रणक्षुद्र दशमस्तकच्छेदकः । राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥ ५५॥ अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः । सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥ ५६॥ सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः । प्राणश्चाथाप्यपानश्च व्यानोदानः समानकः ॥ ५७॥ नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः । सर्वप्राणविदो व्यापी योगधारकधारकः ॥ ५८॥ तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः । ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥ ५९॥ ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसम्भवः । अध्यात्मविद्विदो दीपो ज्योतीरूपो निरञ्जनः ॥ ६०॥ ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः । सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥ ६१॥ मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः । सन्मन्त्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभञ्जनः ॥ ६२॥ मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः । बहुमायो विमायश्च महामायाविमोहकः ॥ ६३॥ मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः । ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ६४॥ सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः । ( var शक्तियाञ्च्छक्तिः) अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ६५॥ वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः । ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ६६॥ त्रिपदो बहुपादी च शतपथः सर्वतोमुखः । प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ६७॥ सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी । निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ६८॥ निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः । निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ६९॥ सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः । एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ७०॥ द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः । खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ७१॥ क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः । कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ७२॥ दिवाकालकरः कालः कुलधर्मः सनातनः । कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ७३॥ युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः । कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ७४॥ चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः । वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ७५॥ बटुको ब्रह्मचारी च शिखासूत्री कमण्डली । त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ ७६॥ हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः । महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ७७॥ नरनारायणोऽनागो केदारोदारविग्रहः । गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ७८॥ निधिरेष महापद्मः पद्माकरश्रियालयः । ( var निधिरेव) पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ ७९॥ परानन्दः पुराणश्च सम्राड्राज विराजकः । ( var सम्राट् राज) चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ८०॥ आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा । औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ८१॥ चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् । अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ८२॥ गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः । विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ८३॥ बहुवृष्टिकरो वर्षी ऐरावणविरावणः । उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ८४॥ प्रावृषो मेघमाली च गजरत्नपुरन्दरः । वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ८५॥ शेषशायी जलेशायी व्यासः सत्यवतीसुतः । वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ८६॥ स्मृतिः पुराणधर्मार्थी परावरविचक्षणः । सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ८७॥ सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः । बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ८८॥ जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः । अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ८९॥ समुद्रमाथको माथी सर्वरत्नहरो हरिः । वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ९०॥ अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी । पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ९१॥ अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः । पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ९२॥ भगवान्भगहा भागी भवभञ्जो भयङ्करः । कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ९३॥ एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः । बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ९४॥ सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः । षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥ ९५॥ दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः । श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ९६॥ चीरवासा विवासाश्च भूतदानववल्लभः । अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ९७॥ दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः । कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ९८॥ ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः । दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ९९॥ विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः । अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ १००॥ सेवकः सामदानी च भेदी दण्डी च मत्सरी । दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ १०१॥ हविरग्निश्चरुस्थाली समिधश्चानिलो यमः । होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ १०२॥ द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः । दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ १०३॥ दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः । आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ १०४॥ प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः । सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ १०५॥ वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च । क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ १०६॥ राज्यभागविदो भागी सर्वभागविकल्पकः । वाहनो वाहको वेगी पादचारी तपश्चरः ॥ १०७॥ गोपनो गोपको गोपी गोपकन्याविहारकृत् । वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ १०८॥ देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी । यशोदानन्दनो दामी दामोदर उलूखली ॥ १०९॥ पूतनारिः पदाकारी लीलाशकटभञ्जकः । नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ११०॥ वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् । बकारिर्वनवासी च वनक्रीडाविशारदः ॥ १११॥ कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः । गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ११२॥ मायावत्सकरो मायी ब्रह्ममायापमोहकः । आत्मसारविहारज्ञो गोपदारकदारकः ॥ ११३॥ गोचारी गोपतिर्गोपो गोवर्धनधरो बली । इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ११४॥ सुरभित्राणकर्ता च दावपानकरः कली । कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ ११५॥ सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः । लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ ११६॥ यमुनाकर्षणोद्धारो नीलवासा हलो हली । रेवती रमणो लोलो बहुमानकरः परः ॥ ११७॥ धेनुकारिर्महावीरो गोपकन्याविदूषकः । काममानहरः कामी गोपीवासोऽपतस्करः ॥ ११८॥ वेणुवादी च नादी च नृत्यगीतविशारदः । गोपीमोहकरो गानी रासको रजनीचरः ॥ ११९॥ दिव्यमाली विमाली च वनमालाविभूषितः । कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १२०॥ चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् । मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ १२१॥ विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी । सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १२२॥ विद्याशाली विशाली च पितृमातृविमोक्षकः । रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १२३॥ पाञ्चजन्यो महापद्मो बहुनायकनायकः । धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १२४॥ प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः । फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ १२५॥ किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥ शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १२६॥ पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति । युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ १२७॥ नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी । गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ १२८॥ प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः । अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ १२९॥ सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः । दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ १३०॥ लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी । पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ १३१॥ त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः । यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ १३२॥ शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः । सदयो हृदयो दायो दायदो दायभाग्दयी ॥ १३३॥ महोदधिर्महीपृष्ठो नीलपर्वतवासकृत । एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ १३४॥ यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः । बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १३५॥ भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः । त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १३६॥ शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः । श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १३७॥ कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् । कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १३८॥ किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः । एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १३९॥ वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः । बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १४०॥ व्यतीपातोपरागश्च दानवृद्धिकरः शुभः । असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १४१॥ मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः । किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १४२॥ निर्लोकश्च निराकारी बह्वाकारैककारकः । दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १४३॥ द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १४४॥ आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः । मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १४५॥ नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः । सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ १४६॥ यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः । यश्चेदं श‍ृणुयान्नित्यं नरो निश्चलमानसः ॥ १४७॥ त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते । नन्दते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥ १४८॥ प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसङ्कटात् । सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥ १४९॥ विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् । वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥ १५०॥ रणे घोरे विवादे च व्यापारे पारतन्त्रके । विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥ १५१॥ एकधा दशधा चैव शतधा च सहस्रधा । पठते हि नरो नित्यं तथैव फलमश्नुते ॥ १५२॥ पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् । मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसञ्चयम् ॥ १५३॥ कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि । ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥ १५४॥ महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे । महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥ १५५॥ अरण्ये प्रान्तरे वाऽपि दावाग्निपरिवारिते । सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥ १५६॥ राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह सङ्गमे । विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥ १५७॥ ग्रहपीडासु चोग्रासु वधबन्धगतावपि । महार्णवे महानद्यां पोतस्थेषु न चापदः ॥ १५८॥ रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः । पठनाच्छवणाद्वापि दिव्यकाया भवन्ति ते ॥ १५९॥ तुलसीवनसंस्थाने सरोद्वीपे सुरालये । बद्रिकाश्रमे शुभे देशे गङ्गाद्वारे तपोवने ॥ १६०॥ मधुवने प्रयागे च द्वारकायां समाहितः । महाकालवने सिद्धे नियताः सर्वकामिकाः ॥ १६१॥ ये पठन्ति शतावर्तं भक्तिमन्तो जितेन्द्रियाः । ते सिद्धाः सिद्धिदा लोके विचरन्ति महीतले ॥ १६२॥ अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् । मोहनं मोहनानां च पवित्रं पापनाशनम् ॥ १६३॥ बालग्रहविनाशाय शान्तीकरणमुत्तमम् । दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ॥ १६४॥ पतद्गर्भा च वन्ध्या च स्राविणी काकवन्ध्यका । अनायासेन सततं पुत्रमेव प्रसूयते ॥ १६५॥ पयःपुष्कलदा गावो बहुधान्यफला कृषिः । स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ॥ १६६॥ अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने । शान्तिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥ १६७॥ यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ । एकाकी च जिताहारो जितक्रोधो जितेन्द्रियः ॥ १६८॥ गरुडारोहसम्पन्नः पीतवासाश्चतुर्भुजः । वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥ १६९॥ एकतः सकला विद्या एकतः सकलं तपः । एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥ १७०॥ यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः । सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥ १७१॥ ( var सोऽहमेकेन) सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः । सहस्रनामानन्ताक्षः सहस्रबाहुर्नमोऽस्तु ते ॥ १७२॥ विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् । पठितव्यं सदा भक्तैः सर्वमङ्गलमङ्गलम् ॥ १७३॥ इति स्तवाभियुक्तानां देवानां तत्र वै द्विज । प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥ १७४॥ श्रीभगवानुवाच - व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवाञ्छितः । तत्सर्वं सम्प्रदास्यामि नाऽत्र कार्या विचारणा ॥ १७५॥ इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥