अक्षर आकार:

श्रीविष्णुसहस्रनामावलिः २

shrIviShNusahasranAmAvaliH 2

श्रीविष्णुसहस्रनामावलिः २

श्रीविष्णुसहस्रनामावलिः पाद्मपुराणे उत्तरखण्डतः ॐ । वासुदेवाय नमः । परस्मै ब्रह्मणे । परमात्मने । परात्पराय । परस्मै धाम्ने । परस्मै ज्योतिषे । परस्मै तत्त्वाय । परस्मै पदाय । परस्मै शिवाय । परस्मै ध्येयाय । परस्मै ज्ञानाय । परस्यै गत्यै । परमार्थाय । परस्मै श्रेयसे । परानन्दाय । परोदयाय । अव्यक्तात्पराय । परस्मै व्योम्ने । परमर्द्धये । परेश्वराय नमः ॥ २० ॐ निरामयाय नमः । निर्विकाराय । निर्विकल्पाय । निराश्रयाय । निरञ्जनाय । निरातङ्काय । निर्लेपाय । निरवग्रहाय । निर्गुणाय । निष्कलाय । अनन्ताय । अभयाय । अचिन्त्याय । बलोचिताय । अतीन्द्रियाय । अमिताय । अपाराय । अनीशाय । अनीहाय । अव्ययाय नमः ॥ ४० ॐ अक्षयाय नमः । सर्वज्ञाय । सर्वगाय । सर्वाय । सर्वदाय । सर्वभावनाय । सर्वशास्त्रे । सर्वसाक्षिणे । सर्वस्य पूज्याय । सर्वदृशे । सर्वशक्तये । सर्वसाराय । सर्वात्मने । सर्वतोमुखाय । सर्वावासाय । सर्वरूपाय । सर्वादये । सर्वदुःखघ्ने । सर्वार्थाय । सर्वतोभद्राय नमः ॥ ६० ॐ सर्वकारणकारणाय नमः । सर्वातिशायिताय । सर्वाध्यक्षाय । सर्वसुरेश्वराय । षड्विंशकाय । महाविष्णवे । महागुह्याय । महाविभवे । नित्योदिताय । नित्ययुक्ताय । नित्यानन्दाय । सनातनाय । मायापतये । योगपतये । कैवल्यपतये । आत्मभुवे । जन्ममृत्युजरातीताय । कालातीताय । भवातिगाय । पूर्णाय नमः ॥ ८० ॐ सत्याय नमः । शुद्धबुद्धस्वरूपाय । नित्यचिन्मयाय । योगप्रियाय । योगगम्याय । भवबन्धैकमोचकाय । पुराणपुरुषाय । प्रत्यक्चैतन्याय । पुरुषोत्तमाय । वेदान्तवेद्याय । दुर्ज्ञेयाय । तापत्रयविवर्जिताय । ब्रह्मविद्याश्रयाय । अनाद्याय । स्वप्रकाशाय । स्वयम्प्रभवे । सर्वोपेयाय । उदासीनाय । प्रणवाय । सर्वतःसमाय नमः ॥ १०० ॐ सर्वानवद्याय नमः । दुष्प्राप्याय । तुरीयाय । तमसःपराय । कूटस्थाय । सर्वसंश्लिष्टाय । वाङ्मनोगोचरातिगाय । सङ्कर्षणाय । सर्वहराय । कालाय । सर्वभयङ्कराय । अनुल्लङ्घ्याय । चित्रगतये । महारुद्राय । दुरासदाय । मूलप्रकृतये । आनन्दाय । प्रद्युम्नाय । विश्वमोहनाय । महामायाय नमः ॥ १२० ॐ विश्वबीजाय नमः । परशक्त्यै । सुखैकभुवे । सर्वकाम्याय । अनन्तलीलाय । सर्वभूतवशङ्कराय । अनिरुद्धाय । सर्वजीवाय । हृषीकेशाय । मनःपतये । निरुपाधिप्रियाय । हंसाय । अक्षराय । सर्वनियोजकाय । ब्रह्मणे । प्राणेश्वराय । सर्वभूतभृते । देहनायकाय । क्षेत्रज्ञाय । प्रकृत्यै नगः ॥ १४० ॐ स्वामिने नमः । पुरुषाय । विश्वसूत्रधृशे । अन्तर्यामिणे । त्रिधाम्ने । अन्तःसाक्षिणे । त्रिगुणाय । ईश्वराय । योगिगम्याय । पद्मनाभाय । शेषशायिने । श्रियःपतये । श्रीसदोपास्यपादाब्जाय । नित्यश्रिये । श्रीनिकेतनाय । नित्यंवक्षःस्थलस्थश्रिये । श्रीनिधये । श्रीधराय । हरये । वश्यश्रिये नमः ॥ १६० ॐ निश्चलाय नमः । श्रीदाय । विष्णवे । क्षीराब्धिमन्दिराय । कौस्तुभोद्भासितोरस्काय । माधवाय । जगदार्तिघ्ने । श्रीवत्सवक्षसे । निःसीमकल्याणगुणभाजनाय । पीताम्बराय । जगन्नाथाय । जगत्त्रात्रे । जगत्पित्रे । जगद्बन्धवे । जगत्स्रष्ट्रे । जगद्धात्रे । जगन्निधये । जगदेकस्फुरद्वीर्याय । अनहंवादिने । जगन्मयाय नमः ॥ १८० ॐ सर्वाश्चर्यमयाय नमः । सर्वसिद्धार्थाय । सर्वरञ्जिताय । सर्वामोघोद्यमाय । ब्रह्मरुद्राद्युत्कृष्टचेतनाय । शम्भोः पितामहाय । ब्रह्मपित्रे । शक्राद्यधीश्वराय । सर्वदेवप्रियाय । सर्वदेवमूर्तये । अनुत्तमाय । सर्वदेवैकशरणाय । सर्वदेवैकदैवताय । यज्ञभुजे । यज्ञफलदाय । यज्ञेशाय । यज्ञभावनाय । यज्ञत्रात्रे । यज्ञपुंसे । वनमालिने नमः ॥ २०० ॐ द्विजप्रियाय नमः । द्विजैकमानदाय । विप्रकुलदेवाय । असुरान्तकाय । सर्वदुष्टान्तकृते । सर्वसज्जनानन्यपालकाय । सप्तलोकैकजठराय । सप्तलोकैकमण्डनाय । सृष्टिस्थित्यन्तकृते । चक्रिणे । शार्ङ्गधन्वने । गदाधराय । शङ्खभृते । नन्दकिने । पद्मपाणये । गरुडवाहनाय । अनिर्देश्यवपुषे । सर्वपूज्याय । त्रैलोक्यपावनाय । अनन्तकीर्तये नमः ॥ २२० ॐ निःसीमपौरुषाय नमः । सर्वमङ्गलाय । सूर्यकोटिप्रतीकाशाय । यमकोटिदुरासदाय । मयकोटिजगत्स्रष्ट्रे । वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने । शम्भुकोटिमहेश्वराय । कन्दर्पकोटिलावण्याय । दुर्गाकोट्यरिमर्दनाय । समुद्रकोटिगम्भीराय । तीर्थकोटिसमाह्वयाय । कुबेरकोटिलक्ष्मीवते । शक्रकोटिविलासवते । हिमवत्कोटिनिष्कम्पाय । कोटिब्रह्याण्डविग्रहाय । कोट्यश्वमेध- पापघ्नाय । यज्ञकोटिसमार्चनाय । सुधाकोटिस्वास्थ्यहेतवे । कामधुहे नमः ॥ २४० ॐ कोटिकामदाय नमः । ब्रह्मविद्याकोटिरूपाय । शिपिविष्टाय । शुचिश्रवसे । विश्वम्भराय । तीर्थपादाय । पुण्यश्रवणकीर्तनाय । आदिदेवाय । जगज्जैत्राय । मुकुन्दाय । कालनेभिघ्ने । वैकुण्ठेश्वरमाहात्म्याय । महायोगेश्वरोत्सवाय । नित्यतृप्ताय । लसद्भावाय । निःशङ्काय । नरकान्तकाय । दीनानाथैकशरणाय । विश्वैकव्यसनापहाय । जगत्कृपाक्षमाय नमः ॥ २६० ॐ नित्यं कृपालवे नमः । सज्जनाश्रयाय । योगेश्वराय । सदोदीर्णाय । वृद्धिक्षयविवर्जिताय । अधोक्षजाय । विश्वरेतसे । प्रजापतिशताधिपाय । शक्रब्रह्मार्चितपदाय । शभुब्रह्मोर्ध्व- धामगाय । सूर्यसोमेक्षणाय । विश्वभोक्त्रे । सर्वस्यपारगाय । जगत्सेतवे । धर्मसेतुधराय । विश्वधुरन्धराय । निर्ममाय । अखिललोकेशाय । निःसङ्गाय । अद्भुतभोगवते नमः ॥ २८० ॐ वश्यमायाय नमः । वश्यविश्वाय । विष्वक्सेनाय । सुरोत्तमाय । सर्वश्रेयःपतये । दिव्यानर्घ्यभूषणभूषिताय । सर्वलक्षणलक्षण्याय । सर्वदैत्येन्द्रदर्पघ्ने । समस्तदेवसर्वस्वाय । सर्वदैवतनायकाय । समस्तदेवकवचाय । सर्वदेवशिरोमणये । समस्तदेवतादुर्गाय । प्रपन्नाशनिपञ्जराय । सभस्तभयहृन्नाम्ने । भगवते । विष्टरश्रवसे । विभवे । सर्वहितोदर्काय । हतारये नमः ॥ ३०० ॐ स्वर्गतिप्रदाय नमः । सर्वदैवतजीवेशाय । ब्राह्मणादिनियोजकाय । ब्रह्मणे । शम्भवे । शतार्धायुषे । ब्रह्मज्येष्ठाय । शिशवे । स्वराजे । विराजे । भक्तपराधीनाय । स्तुत्याय । स्तोत्रार्थसाधकाय । परार्थकर्त्रे । कृत्यज्ञाय । स्वार्थकृत्य- सदोज्झिताय । सदानन्दाय । सदाभद्राय । सदाशान्ताय । सदाशिवाय नमः ॥ ३२० ॐ सदाप्रियाय नमः । सदातुष्टाय । सदापुष्टाय । सदाऽर्चिताय । सदापूताय । पावनाग्र्याय । वेदगुह्याय । वृषाकपये । सहस्रनाम्ने । त्रियुगाय । चतुर्मूर्तये । चतुर्भुजाय । भूतभव्यभवन्नाथाय । महापुरुषपूर्वजाय । नारायणाय । मुञ्जकेशाय । सर्वयोगविनिःसृताय । वेदसाराय । यज्ञसाराय नमः ॥ ३४० ॐ सामसाराय नमः । तपोनिधये । साध्याय । श्रेष्ठाय । पुराणर्षये । निष्ठायै । शान्त्यै । परायणाय । शिवत्रिशूलविध्वंसिने । श्रीकण्ठैकवरप्रदाय । नराय । कृष्णाय । हरये । धर्मनन्दनाय । धर्मजीवनाय । आदिकर्त्रे । सर्वसत्याय । सर्वस्त्रीरत्नदर्पघ्ने । त्रिकालजितकन्दर्पाय । उर्वशीसृजे नमः ॥ ३६० उर्वशीदृशे ॐ मुनीश्वराय नमः । आद्याय । कवये । हयग्रीवाय । सर्ववागीश्वरेश्वराय । सर्वदेवमयाय । ब्रह्मणे । गुरवे । वागीश्वरीपतये । अनन्तविद्याप्रभवाय । मूलविद्याविनाशकाय । सर्वज्ञदाय । जगज्जाड्यनाशकाय । मधुसूदनाय । अनेकमन्त्रकोटीशाय । शब्दब्रह्मैकपारगाय । आदिविदुषे । वेदकर्त्रे । वेदात्मने । श्रुतिसागराय नमः ॥ ३८० ॐ ब्रह्मार्थवेदहरणाय नमः । सर्वविज्ञानजन्मभुवे । विद्याराजाय । ज्ञानमूर्तये । शानसिन्धवे । अखण्डधिये । मत्स्यदेवाय । महाश‍ृङ्गाय । जगद्बीजवहित्रदृशे । लीलाव्याप्ताखिलाम्भोधये । चतुर्वेदप्रवर्तकाय । आदिकूर्माय । अखिलाधाराय । तृणीकृतजगद्भराय । अमरीकृतदेवौघाय । पीयूषोत्पत्तिकारणाय । आत्माधाराय । धराधाराय । यज्ञाङ्गाय । धरणीधराय नमः ॥ ४०० ॐ हिरण्याक्षहराय नमः । पृथ्वीपतये । श्राद्धादिकल्पकाय । समस्तपितृभीतिघ्नाय । सगस्तपितृजीवनाय । हव्यकव्यैकभुजे । हव्यकव्यैकफलदायकाय । रोमान्तर्लीनजलधये । क्षोभिताशेष- सागराय । महावराहाय । यज्ञस्य ध्वंसकाय । याज्ञिकाश्रयाय । श्रीनृसिंहाय । दिव्यसिंहाय । सर्वानिष्टार्थदुःखघ्ने । एकवीराय । अद्भुतबलाय । यन्त्रमन्त्रैकभञ्जनाय । ब्रह्मादिदुःसहज्योतिषे । युगान्ताग्न्यतिभीषणाय नमः ॥ ४२० ॐ कोटिवज्राधिकनखाय नमः । जगद्दुष्प्रेक्ष्यमूर्तिधृशे । मातृचक्रप्रमथनाय । महामातृगणेश्वराय । अचिन्त्यामोघ- वीर्याढ्याय । समस्तासुरघस्मराय । हिरण्यकशिपुच्छेदिने । कालाय । सङ्कर्षिणीपतये । कृतान्तवाहनासह्याय । समस्तभय- नाशनाय । सर्वविघ्नान्तकाय । सर्वसिद्धिदाय । सर्वपूरकाय । समस्तपातकध्वंसिने । सिद्धमन्त्राधिकाह्वयाय । भैरवेशाय । हरार्तिघ्नाय । कालकोटिदुरासदाय । दैत्यगर्भस्राविनाम्ने नमः ॥ ४४० ॐ स्फुटद्ब्रह्माण्डगर्जिताय नमः । स्मृतमात्राखिलत्रात्रे । अद्भुतरूपाय । महाहरये । ब्रह्मचर्यशिरःपिण्डिने । दिक्पालाय । अर्धाङ्गभूषणाय । द्वादशार्कशिरोदाम्ने । रुद्रशीर्षैकनूपुराय । योगिनीग्रस्तगिरिजात्रात्रे । भैरवतर्जकाय । वीरचक्रेश्वराय । अत्युग्राय । अपमारये । कालशम्बराय । क्रोधेश्वराय । रुद्रचण्डीपरिवारादिदुष्टभुजे । सर्वाक्षोभ्याय । मृत्युमृत्यवे । कालमृत्युनिवर्तकाय नमः ॥ ४६० ॐ असाध्यसर्वदेवघ्नाय नमः । सर्वदुर्ग्रहसौम्यकृते । गणेशकोटिदर्पघ्नाय । दुःसहाशेषगोत्रघ्ने । देवदानवदुर्दर्शाय । जगद्भयदभीषणाय । समस्तदुर्गतित्रात्रे । जगद्भक्षकभक्षकाय । उग्रशाम्बरमार्जाराय । कालमूषकभक्षकाय । अनन्तायुधदोर्दण्डिने । नृसिंहाय । वीरभद्रजिते । योगिनीचक्रगुह्येशाय । शक्रारिपशुमांसभुजे । रुद्राय । नारायणाय । मेषरूपशङ्कर- वाहनाय । मेषरूपशिवत्रात्रे । दुष्टशक्तिसहस्रभुजे नमः ॥ ४८० ॐ तुलसीवल्लभाय नमः । वीराय । वामाचाराय । अखिलेष्टदाय । महाशिवाय । शिवारूढाय । भैरवैककपालधृशे । कि(हि)ल्लीचक्रेश्वराय । शक्रदिव्यमोहनरूपदाय । गौरीसौभाग्यदाय । मायानिधये । मायाभयापहाय । ब्रह्मतेजोमयाय । ब्रह्मश्रीमयाय । त्रयीमयाय । सुब्रह्मण्याय । बलिध्वंसिने । वामनाय । अदितिदुःखघ्ने । उपेन्द्राय नमः ॥ ५०० ॐ भूपतये नमः । विष्णवे । कश्यपान्वयमण्डनाय । बलिस्वराज्यदाय । सर्वदेवविप्रान्नदाय । अच्युताय । उरुक्रमाय । तीर्थपादाय । त्रिपदस्थाय । त्रिविक्रमाय । व्योमपादाय । स्वपादाम्भःपवित्रितजगत्त्रयाय । ब्रह्मेशाद्यभिवन्द्याङ्घ्रये । द्रुतधर्माङ्घ्रिधावनाय । अचिन्त्याद्भुतविस्ताराय । विश्ववृक्षाय । महाबलाय । राहुमूर्धापराङ्गच्छिदे । भृगुपत्नीशिरोहराय । पापत्रस्ताय नमः ॥ ५२० ॐ सदापुण्याय नमः । दैत्याशानित्यखण्डनाय । पूरिताखिलदेवाशाय । विश्वार्थैकावतारकृते । स्वमायानित्यगुप्तात्मने । सदा भक्तचिन्तामणये । वरदाय । कार्तवीर्यादि राजराज्यप्रदाय । अनघाय । विश्वश्लाघ्यामिताचाराय । दत्तात्रेयाय । मुनीश्वराय । पराशक्तिसदाश्लिष्टाय । योगानन्दाय । सदोन्मदाय । समस्तेन्द्रारितेजोहृते । परमामृतपद्मपाय । अनसूयागर्भरत्नाय । भोगमोक्षसुखप्रदाय । जमदग्निकुलादित्याय नमः ॥ ५४० ॐ रेणुकाद्भुतशक्तिकृते नमः । मातृहत्यादिनिर्लेपाय । स्कन्दजिद्विप्रराज्यदाय । सर्वक्षत्रान्तकृते । वीरदर्पघ्ने । कार्तवीर्यजिते । सप्तद्वीपवतीदात्रे । शिवार्चकयशःप्रदाय । भीमाय । परशुरामाय । शिवाचार्यैकविप्रभुजे । शिवाखिलज्ञानकोशाय । भीष्माचार्याय । अग्निदैवताय । द्रोणाचार्यगुरवे । विश्वजैत्रधन्वने । कृतान्तजिते । अद्वितीयतपोमूर्तये । ब्रह्मचर्यैकदक्षिणाय । मनवे नमः ॥ ५६० ॐ श्रेष्ठाय नमः । सतां सेतवे । महीयसे । वृषभाय । विराजे । आदिराजाय । क्षितिपित्रे । सर्वरत्नैकदोहकृते । पृथवे । जन्माद्येकदक्षाय । गीःश्रीकीर्तिस्वयंवृताय । जगद्गतिप्रदाय । चक्रवर्तिश्रेष्ठाय । अद्वयास्त्रधृशे । सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनाय । वर्णाश्रमादिधर्माणां कर्त्रे । वक्त्रे । प्रवर्तकाय । सूर्यवंशध्वजाय । रामाय नमः ॥ ५८० ॐ राघवाय नमः । सद्गुणार्णवाय । काकुत्स्थाय । वीरराजे । राज्ञे । राजधर्मधुरन्धराय । नित्यस्वःस्थाश्रयाय । सर्वभद्रग्राहिणे । शुभैकदृशे । नररत्नाय । रत्नगर्भाय । धर्माध्यक्षाय । महानिधये । सर्वश्रेष्ठाश्रयाय । सर्वशास्त्रार्थग्रामवीर्यवते । जगद्वशाय । दाशरथये । सर्वरत्नाश्रयाय । नृपाय । समस्तधर्मसुवे नमः ॥ ६०० ॐ सर्वधर्मद्रष्ट्रे नमः । अखिलाघघ्ने । अतीन्द्राय । ज्ञानविज्ञानपारदाय । क्षमाम्बुधये । सर्वप्रकृष्टशिष्टेष्टाय । हर्षशोकाद्यनाकुलाय । पित्राज्ञात्यक्तसाम्राज्याय । सपत्नोदयनिर्भयाय । गुहादेशापिर्तैश्वर्याय । शिवस्पर्धिजटाधराय । चित्रकूटाप्तरत्नाद्रये । जगदीशाय । वनेचराय । यथेष्टामोघसर्वास्त्राय । देवेन्द्रतनयाक्षिघ्ने । ब्रह्मेन्द्रादिनतैषीकाय । मारीचघ्नाय । विराधघ्ने । ब्रह्मशापहतापशेषदण्डकारण्यपावनाय नमः ॥ ६२० ॐ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृशे नमः । खरारये । त्रिशिरोहन्त्रे । दूषणघ्नाय । जनार्दनाय । जटायुषोऽग्निगतिदाय । अगस्त्यसर्वस्वमन्त्रराजे । लीलाधनुःकोट्यपास्तदुन्दुभ्यस्थिमहाचयाय । सप्ततालव्यधाकृष्टध्वस्तपातालदानवाय । सुग्रीवराज्यदाय । अहीनमनसैवाभयप्रदाय । हनुमद्रुद्रमुख्येशसमस्तकपिदेहभृते । सनागदैत्यबाणैकव्याकुलीकृतसागराय । सम्लेच्छकोटिबाणैक- शुष्कनिर्दग्धसागराय । समुद्राद्भुतपूर्वैकबद्धसेतवे । यशोनिधये । असाध्यसाधकाय । लङ्कासमूलोत्कर्षदक्षिणाय । वरदृप्तजगच्छल्य- पौलस्त्यकुलकृन्तनाय । रावणिघ्नाय नमः ॥ ६४० ॐ प्रहस्तच्छिदे नमः । कुम्भकर्णभिदे । उग्रघ्ने । रावणैकशिरश्छेत्रे । निःशङ्केन्द्रैकराज्यदाय । स्वर्गास्वर्गत्वविच्छेदिने । देवेन्द्रादिन्द्रताहराय । रक्षोदेवत्वहृते । धर्माधर्भघ्नाय । पुरुष्टुताय । नतिमात्रदशास्यारये । दत्तराज्यविभीषणाय । सुधावृष्टिमृताशेष- स्वसैन्योज्जीवनैककृते । देवब्राह्मणनामैकधात्रे । सर्वामरार्चिताय । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियाय । अयोध्याखिलराजन्याय । सर्वभूतमनोहराय । स्वामितुल्यकृपादण्डाय । हीनोत्कृष्टैकसत्प्रियाय नमः ॥ ६६० ॐ स्वपक्षादिन्यायदर्शिने नमः । हीनार्थाधिकसाधकाय । व्याधव्याजानुचितकृते । तारकाय । अखिलतुल्यकृते । पार्वत्याऽधिकमुक्तात्मने । प्रियात्यक्ताय । स्मरारिजिते । साक्षात्कुशलवच्छद्मेन्द्रादिताताय । अपराजिताय । कोशलेन्द्राय । वीरबाहवे । सत्यार्थत्यक्तसोदराय । शरसन्धाननिर्धूतधरणी- मण्डलोदयाय । ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवताय । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकाय । स्वर्नीतगर्दभाश्वादये । चिरायोध्यावनैककृते । रामद्वितीयाय । सौमित्रये नमः ॥ ६८० ॐ लक्ष्मणाय नमः । प्रहतेन्द्रजिते । विष्णुभक्त्याप्तरामाङ्घ्रये । पादुकाराज्यनिर्वृताय । भरताय । असह्यगन्धर्वकोटिघ्नाय । लवणान्तकाय । शत्रुघ्नाय । वैद्यराजायुर्वेदगर्भौषधीपतये । नित्यामृतकराय । धन्वन्तरये । यज्ञाय । जगद्धराय । सूर्यारिघ्नाय । सुराजीवाय । दक्षिणेशाय । द्विजप्रियाय । छिन्नमूर्धायतेशार्काय । शेषाङ्गस्थापितामराय । विश्वार्थाशेषकृते नमः ॥ ७०० ॐ राहुशिरच्छेदाक्षताकृतये नमः । वाजपेयादिनामाग्रये । वेदधर्मपरायणाय । श्वेतद्वीपपतये । साङ्ख्यप्रणेत्रे । सर्वसिद्धिराजे । विश्वप्रकाशितज्ञानयोगाय । मोहतमिस्रघ्ने । देवहूत्यात्मजाय । सिद्धाय । कपिलाय । कर्दमात्मजाय । योगस्वामिने । ध्यानभङ्गसगरात्मजभस्मकृते । धर्माय । वृषेन्द्राय । सुरभीपतये । शुद्धात्मभाविताय । शम्भवे । त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहाय नमः ॥ ७२० ॐ भक्तशम्भुजिताय नमः । दैत्यामृतवापीसमस्तपाय । महाप्रलयविश्वैकद्वितीयारिवलनागराजे । शेषदेवाय । सहस्राक्षाय । सहसास्यशिरोभुजाय । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितये । कालाग्निरुद्रजनकाय । मुसलास्त्राय । हलायुधाय । नीलाम्बराय । वारुणीशाय । मनोवाक्कायदोषघ्ने । असन्तोषाय । दृष्टिमात्रपातितैकदशाननाय । बलिसंयमनाय । घोराय । रौहिणेयाय । प्रलम्बघ्ने । मुष्टिकघ्नाय नमः ॥ ७४० ॐ द्विविदघ्ने नमः । कालिन्दीकर्षणाय । बलाय । रेवतीरमणाय । पूर्वभक्तिखेदाच्युताग्रजाय । देवकीवसुदेवाह्वकश्यपादितिनन्दनाय । वार्ष्णेयाय । सात्वतांश्रेष्ठाय । शौरये । यदुकुलोद्वहाय । नराकृतये । परस्मैब्रह्मणे । सव्यसाचिवरप्रदाय । ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवाय । पूतनाघ्नाय । शकटभिदे । यमलार्जुनभञ्जनाय । वातासुरारये । केशिघ्नाय । धेनुकारये नमः ॥ ७६० ॐ गवीश्वराय नमः । दामोदराय । गोपदेवाय । यशोदानन्ददायकाय । कालीयमर्दनाय । सर्वगोपगोपीजनप्रियाय । लीलागोवर्धनधराय । गोविन्दाय । गोकुलोत्सवाय । अरिष्टमथनाय । कामोन्मत्तगोपीविमुक्तिदाय । सद्यःकुवलयापीडघातिने । चाणूरमर्दनाय । कंसारये । उग्रसेनादिराज्यव्यापारितापराय । सुधर्माङ्कितभूलोकाय । जरासन्धबलान्तकाय । त्यक्तभग्नजरासन्धाय । भीमसेनयशःप्रदाय । सान्दीपनिमृतापत्यदात्रे नमः ॥ ७८० ॐ कालान्तकादिजिते नमः । समस्तनारकित्रात्रे । सर्वभूपतिकोटिजिते । रुक्मिणीरमणाय । रुक्मिशासनाय । नरकान्तकाय । समस्तसुन्दरीकान्ताय । मुरारये । गरुडध्वजाय । एकाकिने । जितरुद्रार्कमरुदाद्यखिलेश्वराय । देवेन्द्रदर्पघ्ने । कल्पद्रुमालकृतभूतलाय । बाणबाहुसहस्रच्छिदे । नन्द्यादिगण- कोटिजिते । लीलाजितमहादेवाय । महादेवैकपूजिताय । इन्द्रार्थार्जुननिर्भङ्गजयदाय । पाण्डवैकधृशे । काशिराजशिरश्छेत्रे नमः ॥ ८०० ॐ रुद्रशक्त्येकमर्दनाय नमः । विश्वेश्वरप्रसादाक्षाय । काशीराजसुतार्दनाय । शम्भुप्रतिज्ञाविध्वंसिने । काशीनिर्दग्धनायकाय । काशीशगणकोटिघ्नाय । लोकशिक्षाशिवार्चकाय । युवतीव्रतपाय । वश्याय । पुराशिववरप्रदाय । शङ्करैकप्रतिष्ठाधृशे । स्वांशशङ्करपूजकाय । शिवकन्याव्रतपतये (व्रतप्रीताय)। कृष्णरूपशिवारिघ्ने । महालक्ष्मीवपुर्गौरीत्रात्रे । वैदलवृत्रघ्ने । स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृते । यमुनापतये । आनीतपरिलीनशिवात्मजाय । श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवाय । दुर्वृत्तशिशुपालैकमुक्तिदाय नमः ॥ ८२० ॐ द्वारकेश्वराय नमः । आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृते । अक्रूरोद्धवमुख्यैकभक्तस्वच्छन्दमुक्तिदाय । सबालस्त्रीजलक्रीडाय । अमृतवापीकृतार्णवाय । ब्रह्मास्त्रदग्ध- गर्भस्थपरीक्षिज्जीवनैककृते । परिलीनद्विजसुतानेत्रे । अर्जुनमदापहाय । गूढमुद्राकृतिग्रस्तभीष्माद्यखिलकौरवाय । यथार्थखण्डिताशेषदिव्यास्त्राय । पार्थमोहहृते । गर्भशापच्छलध्वस्तयादवोर्वीभयापहाय । जराव्याधारिगतिदाय । स्मृतिमात्राखिलेष्टदाय । कामदेवाय । रतिपतये । मन्मथाय । शम्बरान्तकाय । अनङ्गाय । जितगौरीशाय नमः ॥ ८४० ॐ रतिकान्ताय नमः । सदेप्सिताय । पुष्पेषवे । विश्वविजयिने । स्मराय । कामेश्वरीप्रियाय । उषापतये । विश्वकेतवे । विश्वदृप्ताय । अधिपूरुषाय । चतुरात्मने । चतुर्व्यूहाय । चतुर्युगविधायकाय । चतुर्वेदैकविश्वात्मने । सर्वोत्कृष्टांशकोटिकाय । आश्रमात्मने । पुरणार्षये । व्यासाय । शाखासहस्रकृते । महाभारतनिर्मात्रे नमः ॥ ८६० ॐ कवीन्द्राय नमः । बादरायणाय । कृष्णद्वैपायनाय । सर्वपुरुषार्थैकबोधकाय । वेदान्तकर्त्रे । ब्रह्मैकव्यञ्जकाय । पुरुवंशकृते । बुद्धाय । ध्यानजिताशेषदेवदेवाय । जगत्प्रियाय । निरायुधाय । जगज्जैत्राय । श्रीधराय । दुष्टमोहनाय । दैत्यवेदबहिःकर्त्रे । वेदार्थश्रुतिगोपकाय । शौद्धोदनये । दृष्टदिष्टाय । सुखदाय । सदसस्पतये नमः ॥ ८८० ॐ यथायोग्याखिलकृपाय नमः । सर्वशून्याय । अखिलेष्टदाय । चतुष्कोटिपृथक्तत्त्वाय । प्रज्ञापारमितेश्वराय । पाखण्डवेदमार्गेशाय । पाखण्डश्रुतिगोपकाय । कल्किने । विष्णुयशःपुत्राय । कलिकालविलोपकाय । समस्तम्लेच्छदुष्टघ्नाय । सर्वशिष्टद्विजातिकृते । सत्यप्रवर्तकाय । देवद्विजदीर्घक्षुधापहाय । अश्ववारादिरेवान्ताय । पृथ्वीदुर्गतिनाशनाय । सद्यःक्ष्मानन्तलक्ष्मीकृते । नष्टनिःशेषधर्मविदे । अनन्तस्वर्णयोगैकहेमपूर्णाखिलद्विजाय । असाध्यैकजगच्छास्त्रे नमः ॥ ९०० ॐ विश्ववन्द्याय नमः । जयध्वजाय । आत्मतत्त्वाधिपाय । कर्तृश्रेष्ठाय । विधये । उमापतये । भर्तृश्रेष्ठाय । प्रजेशाग्र्याय । मरीचये । जनकाग्रण्ये । कश्यपाय । देवराजेन्द्राय । प्रह्लादाय । दैत्यराजे । शशिने । नक्षत्रेशाय । रवये । तेजःश्रेष्ठाय । शुक्राय । कवीश्वराय नमः ॥ ९२० ॐ महर्षिराजे नमः । भृगवे । विष्णवे । आदित्येशाय । बलये । स्वराजे । वायवे । वह्नये । शुचये । श्रेष्ठाय । शङ्कराय । रुद्रराचे । गुरवे । विद्वत्तमाय । चित्ररथाय । गन्धर्वाग्र्याय । अक्षरोत्तमाय । वर्णादये । अग्र्याय । स्त्रियै नमः ॥ ९४० ॐ गौर्यै नमः । शक्त्यग्र्यायै । आशिषे । नारदाय । देवर्षिराजे । पाण्डवाग्र्याय । अर्जुनाय । वादाय । प्रवादराजे । पवनाय । पवनेशानाय । वरुणाय । यादसाम्पतये । गङ्गायै । तीर्थोत्तमाय । द्यूताय । छलकाग्र्याय । वरौषधाय । अन्नाय । सुदर्शनाय नमः ॥ ९६० ओस्त्राग्र्याय नमः । वज्राय । प्रहरणोत्तमाय । उच्चैःश्रवसे । वाजिराजाय । ऐरावताय । इभेश्वराय । अरुन्धत्यै । एकपत्न्यै । ईशाय । अश्वत्थाय । अशेषवृक्षराजे । अध्यात्मविद्यायै । विद्याग्र्याय । प्रणवाय । छन्दसांवराय । मेरवे । गिरिपतये । मार्गाय । मासाग्र्याय नमः ॥ ९८० ॐ कालसत्तमाय नमः । दिनाद्यात्मने । पूर्वीसद्धाय । कपिलाय । सामवेदराजे । तार्क्ष्याय । खगेन्द्राय । ऋत्वग्र्याय । वसन्ताय । कल्पपादपाय । दातृश्रेष्ठाय । कामधेनवे । आर्तिघ्नाग्र्याय । सुहृत्तमाय । चिन्तामणये । गुरुश्रेष्ठाय । मात्रे । हिततमाय । पित्रे । सिंहाय नमः ॥ १००० ॐ मृगेन्द्राय नमः । नागेन्द्राय । वासुकये । नृवराय । नृपाय । वर्णेशाय । ब्राह्मणाय । चेतःकरणाग्र्याय नमः ॥ १००८ इति पाद्मपुराणे उत्तरखण्डे श्रीविष्णुसहस्रनामावलिः समाप्ता ।