अक्षर आकार:

श्रीविष्णुसहस्रनामावलिः गरुडपुराणानुसारम्

shrIviShNusahasranAmAvaliH as per Garuda Purana

श्रीविष्णुसहस्रनामावलिः गरुडपुराणानुसारम्

रुद्र उवाच । संसारसागराद्धोरान्मुच्यते किं जपन्प्रभो । नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १॥ हरिरुवाच । परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । var ईश्वरं परमं विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥ यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! । श‍ृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३॥ अथ नामावलिप्रारम्भः । ॐ वासुदेवाय नमः । महाविष्णवे नमः । वामनाय नमः । वासवाय नमः । वसवे नमः । । बालचन्द्रनिभाय नमः । बालाय नमः । बलभद्राय नमः । बलाधिपाय नमः । बलिबन्धनकृते नमः । (१०) वेधसे नमः । वरेण्याय नमः । वेदविते नमः । कवये नमः । । वेदकर्त्रे नमः । वेदरूपाय नमः । वेद्याय नमः । वेदपरिप्लुताय नमः । वेदाङ्गवेत्त्रे नमः । वेदेशाय नमः । (२०) बलाधाराय नमः । बलधाराय बलार्दनाय नमः । अविकाराय नमः । वरेशाय नमः । वरुणाय नमः । वरुणाधिपाय नमः । वीरहने नमः । बृहद्वीराय नमः । वन्दिताय नमः । परमेश्वराय नमः । (३०) । आत्मने नमः । परमात्मने नमः । प्रत्यगात्मने नमः । वियत्पराय नमः । पद्मनाभाय नमः । पद्मनिधये नमः । पद्महस्ताय नमः । गदाधराय नमः । परमाय नमः । परभूताय नमः । (४०) पुरुषोत्तमाय नमः । ईश्वराय नमः । पद्मजङ्घाय नमः । पुण्डरीकाय नमः । पद्ममालाधराय नमः । प्रियाय नमः । पद्माक्षाय नमः । पद्मगर्भाय नमः । पर्जन्याय नमः । पद्मसंस्थिताय नमः । (५०) अपाराय नमः । परमार्थाय नमः । पराणां पराय नमः । प्रभवे नमः । । पण्डिताय नमः । पण्डितेड्याय नमः । पण्डितेभ्यः पण्डिताय पवित्राय नमः । पापमर्दकाय नमः । शुद्धाय नमः । प्रकाशरूपाय नमः । (६०) पवित्राय नमः । परिरक्षकाय नमः । पिपासावर्जिताय नमः । पाद्याय नमः । पुरुषाय नमः । प्रकृतये नमः । प्रधानाय नमः । पृथिव्यै नमः । पद्माय नमः । पद्मनाभाय नमः । (७०) प्रियप्रदाय नमः । सर्वेशाय नमः । सर्वगाय नमः । सर्वाय नमः । सर्वविदे नमः । सर्वदाय नमः । सुराय नमः । पराय सर्वस्य जगतो धामाय नमः । सर्वदर्शिने नमः । सर्वभृते नमः । (८०) सर्वानुग्रहकृते नमः । देवाय नमः । सर्वभूतहृदिस्थिताय नमः । सर्वपूज्याय नमः । सर्वाद्याय नमः । सर्वपाय सर्वदेवनमस्कृताय नमः । सर्वस्य जगतो मूलाय नमः । सकलाय नमः । निष्कलाय नमः । अनलाय नमः । (९०) सर्वगोप्त्रे नमः । सर्वनिष्ठाय नमः । सर्वकारणकारणाय नमः । सर्वध्येयाय नमः । सर्वमित्राय नमः । सर्वदेवस्वरूपधृषे नमः । सर्वाध्यक्षाय नमः । सर्वाध्यायाय सुराध्यक्षाय नमः । सुरासुरनमस्कृताय नमः । दुष्टानां असुराणां च सर्वदा घातकाय अन्तकाय नमः । (१००) (१०१) सत्यपालाय नमः । सन्नाभाय नमः । सिद्धेशाय नमः । सिद्धवन्दिताय नमः । सिद्धसाध्याय नमः । सिद्धसिद्धाय नमः । साध्यसिद्धाय नमः । सिद्धिसिद्धाय हृदीश्वराय नमः । जगतः शरणाय नमः । श्रेयसे नमः । (११०) क्षेमाय नमः । शुभकृते नमः । शोभनाय नमः । सौम्याय नमः । सत्याय नमः । सत्यपराक्रमाय नमः । सत्यस्थाय नमः । सत्यसङ्कल्पाय नमः । सत्यविदे नमः । सत्यदाय नमः । (१२०) । सत्पदाय धर्माय नमः । धर्मिणे नमः । कर्मिणे नमः । सर्वकर्मविवर्जिताय नमः । कर्मकर्त्रे नमः । कर्मैव क्रिया-कार्याय नमः । श्रीपतये नमः । नृपतये नमः । श्रीमते नमः । सर्वस्य पतये नमः । (१३०) ऊर्जिताय नमः । देवानां पतये नमः । वृष्णीनां पतये नमः । ईडिताय नमः । ईरिताय हिरण्यगर्भस्य पतये नमः । त्रिपुरान्तपतये नमः । पशूनां पतये नमः । प्रायाय नमः । वसूनां पतये नमः । । आखण्डलस्य पतये नमः । (१४०) वरुणस्य पतये नमः । वनस्पतीनां पतये नमः । अनिलस्य पतये नमः । । अनलस्य पतये नमः । यमस्य पतये नमः । कुबेरस्य पतये नमः । नक्षत्राणां पतये नमः । । ओषधीनां पतये नमः । वृक्षाणां पतये नमः । नागानां पतये नमः । (१५०) अर्कस्य पतये नमः । दक्षस्य पतये नमः । । सुहृदां पतये नमः । नृपाणां पतये नमः । गन्धर्वाणां पतये नमः । असूनां उत्तमपतये नमः । । पर्वतानां पतये नमः । निम्नगानां पतये नमः । सुराणां पतये नमः । श्रेष्ठाय नमः । (१६०) कपिलस्य पतये नमः । । लतानां पतये नमः । वीरुधां पतये नमः । मुनीनां पतये नमः । सूर्यस्य उत्तमपतये नमः । । चन्द्रमसः पतये नमः । श्रेष्ठाय नमः । शुक्रस्य पतये नमः । ग्रहाणां पतये नमः । राक्षसानां पतये नमः । । (१७०) किन्नराणां पतये नमः । द्विजानां उत्तमपतये नमः । सरितां पतये नमः । समुद्राणां पतये नमः । । सरसां पतये नमः । भूतानां पतये नमः । वेतालानां पतये नमः । कूष्माण्डानां पतये नमः । । पक्षिणां पतये नमः । श्रेष्ठाय नमः । (१८०) पशूनां पतये नमः । महात्मने नमः । मङ्गलाय नमः । मेयाय नमः । मन्दराय नमः । मन्दरेश्वराय नमः । मेरवे नमः । मात्रे नमः । प्रमाणाय नमः । माधवाय नमः । (१९०) मलवर्जिताय नमः । मनुवर्जिताय मालाधराय नमः । महादेवाय नमः । महादेवपूजिताय नमः । महाशान्ताय नमः । महाभागाय नमः । मधुसूदनाय नमः । महावीर्याय नमः । महाप्राणाय नमः । मार्कण्डेयर्षिवन्दिताय नमः । (२००) । मार्कण्डेयप्रवन्दिताय मायात्मने नमः । मायया बद्धाय नमः । मायया विवर्जिताय नमः । मुनिस्तुताय नमः । मुनये नमः । मैत्राय नमः । महानासाय नमः । महारासाय महाहनवे नमः । । महाबाहवे नमः । महादान्ताय नमः । (२१०) महादन्ताय मरणेन विवर्जिताय नमः । महावक्त्राय नमः । महात्मने नमः । महाकायाय नमः । महाकाराय महोदराय नमः । महापादाय नमः । महाग्रीवाय नमः । महामानिने नमः । महामनसे नमः । महागतये नमः । (२२०) महाकीर्तये नमः । महारूपाय नमः । महासुराय नमः । मधवे नमः । माधवाय नमः । महादेवाय नमः । महेश्वराय नमः । मखेज्याय नमः । मखेष्टाय मखरूपिणे नमः । माननीयाय नमः । (२३०) मखेश्वराय नमः । महेश्वराय महावाताय नमः । महाभागाय नमः । महेशाय नमः । अतीतमानुषाय नमः । मानवाय नमः । मनवे नमः । मानवानां प्रियङ्कराय नमः । मृगाय नमः । मृगपूज्याय नमः । (२४०) मृगाणां पतये नमः । बुधस्य पतये नमः । बृहस्पतेः पतये नमः । । शनैश्चरस्य पतये नमः । राहोः पतये नमः । केतोः पतये नमः । लक्ष्मणाय नमः । लक्षणाय नमः । लम्बोष्ठाय नमः । ललिताय नमः । (२५०) । नानालङ्कारसंयुक्ताय नमः । नानाचन्दनचर्चिताय नमः । नानारसोज्ज्वलद्वक्त्राय नमः । नानापुष्पोपशोभिताय नमः । रामाय नमः । रमापतये नमः । सभार्याय नमः । परमेश्वराय नमः । रत्नदाय नमः । रत्नहर्त्रे नमः । (२६०) रूपिणे नमः । रूपविवर्जिताय नमः । महारूपाय नमः । उग्ररूपाय नमः । सौम्यरूपाय नमः । नीलमेघनिभाय नमः । शुद्धाय नमः । सालमेघनिभाय नमः । कालमेघनिभाय धूमवर्णाय नमः । पीतवर्णाय नमः । (२७०) नानारूपाय नमः । अवर्णकाय नमः । विरूपाय नमः । रूपदाय नमः । शुक्लवर्णाय नमः । सर्ववर्णाय नमः । महायोगिने नमः । यज्ञाय नमः । याज्याय यज्ञकृते नमः । सुवर्णवर्णवते नमः । (२८०) सुवर्णाय वर्णवते सुवर्णाख्याय नमः । सुवर्णावयवाय नमः । सुवर्णाय नमः । स्वर्णमेखलाय नमः । सुवर्णस्य प्रदात्रे नमः । सुवर्णेशाय नमः । सुवर्णस्य प्रियाय नमः । सुवर्णाढ्याय नमः । सुपर्णिने नमः । महापर्णाय नमः । (२९०) सुपर्णस्य कारणाय नमः । वैनतेयाय नमः । आदित्याय नमः । आदये नमः । आदिकराय नमः । शिवाय नमः । महतः कारणाय नमः । प्रधानस्य कारणाय नमः । पुराणस्य कारणाय बुद्धीनां कारणाय नमः । मनसः कारणाय नमः । (३००) चेतसः कारणाय नमः । अहङ्कारस्य कारणाय नमः । भूतानां कारणाय नमः । विभावसोः कारणाय नमः । आकाशकारणाय नमः । पृथिव्याः परं कारणाय नमः । अण्डस्य कारणाय नमः । प्रकृतेः कारणाय नमः । देहस्य कारणाय नमः । चक्षुषः कारणाय नमः । (३१०) श्रोत्रस्य कारणाय नमः । त्वचः कारणाय नमः । जिह्वायाः कारणाय नमः । प्राणस्य कारणाय नमः । हस्तयोः कारणाय नमः । पादयोः कारणाय नमः । वाचः कारणाय नमः । पायोः कारणाय नमः । इन्द्रस्य कारणाय नमः । कुबेरस्य कारणाय नमः । (३२०) यमस्य कारणाय नमः । ईशानस्य कारणाय नमः । यक्षाणां कारणाय नमः । रक्षसां परं कारणाय नमः । नृपाणां कारणाय नमः । भूषणानां कारणाय श्रेष्ठाय नमः । धर्मस्य कारणाय नमः । जन्तूनां कारणाय नमः । वसूनां परं कारणाय नमः । मनूनां कारणाय नमः । (३३०) पक्षिणां परं कारणाय नमः । मुनीनां कारणाय नमः । श्रेष्ठयोगिनां परं कारणाय नमः । सिद्धानां कारणाय नमः । यक्षाणां परं कारणाय नमः । किन्नराणां कारणाय नमः । गन्धर्वाणां कारणाय नमः । नदानां कारणाय नमः । नदीनां परं कारणाय नमः । समुद्राणां कारणाय नमः । (३४०) वृक्षाणां कारणाय नमः । वीरुधां कारणाय नमः । लोकानां कारणाय नमः । पातालस्य कारणाय नमः । देवानां कारणाय नमः । सर्पाणां कारणाय नमः । श्रेयसां कारणाय नमः । पशूनां कारणाय नमः । सर्वेषां कारणाय नमः । देहात्मने नमः । (३५०) इन्द्रियात्मने नमः । बुद्ध्यात्मने नमः । । मनसः आत्मने नमः । अहङ्कारचेतसः आत्मने नमः । जाग्रतः आत्मने नमः । स्वपतः आत्मने नमः । महदात्मने नमः । पराय नमः । प्रधानस्य परात्मने नमः । आकाशात्मने नमः । (३६०) अपां आत्मने नमः । पृथिव्याः परमात्मने नमः । रसस्यात्मने नमः । । वयस्यात्मने गन्धस्य परमात्मने नमः । रूपस्य परमात्मने नमः । शब्दात्मने नमः । वागात्मने नमः । स्पर्शात्मने नमः । पुरुषात्मने नमः । । श्रोत्रात्मने नमः । (३७०) त्वगात्मने नमः । जिह्वायाः परमात्मने नमः । घ्राणात्मने नमः । हस्तात्मने नमः । पादयोः परमात्मने नमः । । उपस्थस्य आत्मने नमः । पायोः परमात्मने नमः । इन्द्रात्मने नमः । ब्रह्मात्मने नमः । रुद्रात्मने नमः । (३८०) शान्तात्मने मनोः आत्मने नमः । । दक्षप्रजापतेरात्मने नमः । सत्यात्मने नमः । परमात्मने नमः । ईशात्मने नमः । परमात्मने नमः । रौद्रात्मने नमः । मोक्षविदे नमः । यतये नमः । । यत्नवते नमः । (३९०) यत्नाय नमः । चर्मिणे नमः । खड्गिने नमः । मुरान्तकाय नमः । असुरान्तकाय ह्रीप्रवर्तनशीलाय नमः । यतीनां हिते रताय नमः । यतिरूपिणे नमः । योगिने नमः । योगिध्येयाय नमः । हरये नमः । (४००) शितये नमः । संविदे नमः । मेधायै नमः । कालाय नमः । ऊष्मने नमः । वर्षायै नमः । मतये नमः । । नतये संवत्सराय नमः । मोक्षकराय नमः । मोहप्रध्वंसकाय नमः । (४१०) दुष्टानां मोहकर्त्रे नमः । माण्डव्याय नमः । वडवामुखाय नमः । संवर्ताय नमः । संवर्तकाय कालकर्त्रे नमः । गौतमाय नमः । भृगवे नमः । अङ्गिरसे नमः । अत्रये नमः । वसिष्ठाय नमः । (४२०) पुलहाय नमः । पुलस्त्याय नमः । कुत्साय नमः । याज्ञवल्क्याय नमः । देवलाय नमः । व्यासाय नमः । पराशराय नमः । शर्मदाय नमः । गाङ्गेयाय नमः । हृषीकेशाय नमः । बृहच्छ्रवसे नमः । । (४३०) केशवाय नमः । क्लेशहन्त्रे नमः । सुकर्णाय नमः । कर्णवर्जिताय नमः । नारायणाय नमः । महाभागाय नमः । प्राणस्य पतये नमः । । अपानस्य पतये नमः । व्यानस्य पतये नमः । उदानस्य पतये नमः । (४४०) **श्रेष्ठाय नमः । समानस्य पतये नमः । । शब्दस्य पतये नमः । **श्रेष्ठाय नमः । स्पर्शस्य पतये नमः । रूपाणां पतये नमः । आद्याय नमः । खड्गपाणये नमः । हलायुधाय नमः । चक्रपाणये नमः । (४५०) कुण्डलिने नमः । श्रीवत्सांकाय नमः । प्रकृतये नमः । कौस्तुभग्रीवाय नमः । पीताम्बरधराय नमः । सुमुखाय नमः । दुर्मुखाय नमः । मुखेन विवर्जिताय नमः । अनन्ताय नमः । अनन्तरूपाय नमः । (४६०) सुनखाय नमः । सुरमन्दराय नमः । सुकपोलाय नमः । विभवे नमः । जिष्णवे नमः । भ्राजिष्णवे नमः । इषुधये नमः । हिरण्यकशिपोर्हन्त्रे नमः । हिरण्याक्षविमर्दकाय नमः । पूतनायाः निहन्त्रे नमः । (४७०) भास्करान्तविनाशनाय नमः । केशिनो दलनाय नमः । मुष्टिकस्य विमर्दकाय नमः । कंसदानवभेत्त्रे नमः । चाणूरस्य प्रमर्दकाय नमः । अरिष्टस्य निहन्त्रे नमः । अक्रूरप्रियाय नमः । अक्रूराय नमः । क्रूररूपाय नमः । अक्रूरप्रियवन्दिताय नमः । (४८०) भगहने नमः । भगवते नमः । भानवे नमः । स्वयं भागवताय नमः । उद्धवाय नमः । उद्धवस्येशाय नमः । उद्धवेन विचिन्तिताय नमः । चक्रधृषे नमः । चञ्चलाय नमः । चलाचलविवर्जिताय नमः । (४९०) अहंकाराय नमः । मतये नमः । चित्ताय नमः । गगनाय नमः । पृथिव्यै नमः । जलाय नमः । वायवे नमः । चक्षुषे नमः । श्रोत्राय नमः । जिह्वायै नमः । (५००) घ्राणाय नमः । वाक्पाणिपादजवनाय नमः । पायूपस्थाय नमः । शङ्कराय नमः । शर्वाय नमः । क्षान्तिदाय नमः । क्षान्तिकृते नमः । नराय नमः । भक्तप्रियाय नमः । भर्त्रे नमः । (५१०) भक्तिमते नमः । भक्तिवर्धनाय नमः । भक्तस्तुताय नमः । भक्तपराय नमः । कीर्तिदाय नमः । कीर्तिवर्धनाय नमः । कीर्तये नमः । दीप्तये नमः । क्षमायै नमः । कान्त्यै नमः । (५२०) भक्ताय नमः । दयापरायै नमः । दानाय नमः । दात्रे नमः । कर्त्रे नमः । देवदेवप्रियाय नमः । शुचये नमः । । शुचिमते नमः । सुखदाय नमः । मोक्षाय नमः । (५३०) कामाय नमः । अर्थाय नमः । सहस्रपदे नमः । सहस्रशीर्ष्र्णे नमः । वैद्याय नमः । मोक्षद्वाराय नमः । प्रजाद्वाराय नमः । सहस्राक्षाय नमः । सहस्रान्ताय सहस्रकराय नमः । शुक्राय नमः । (५४०) सुकिरीट्तिने नमः । सुग्रीवाय नमः । कौस्तुभाय नमः । प्रद्युम्नाय नमः । अनिरुद्धाय नमः । हयग्रीवाय नमः । सूकराय नमः । मत्स्याय नमः । परशुरामाय नमः । प्रह्लादाय नमः । (५५०) बलये नमः । । शरण्याय नमः । नित्याय नमः । बुद्धाय नमः । मुक्ताय नमः । शरीरभृते नमः । खरदूषणहन्त्रे नमः । रावणस्य प्रमर्दनाय नमः । सीतापतये नमः । वर्धिष्णवे नमः । (५६०) भरताय नमः । कुम्भेन्द्रजिन्निहन्त्रे नमः । कुम्भकर्णप्रमर्दनाय नमः । नरान्तकान्तकाय नमः । देवान्तकविनाशनाय नमः । दुष्टासुरनिहन्त्रे नमः । शम्बरारये नमः । । नरकस्य निहन्त्रे नमः । त्रिशीर्षस्य विनाशनाय नमः । यमलार्जुनभेत्त्रे नमः । (५७०) तपोहितकराय नमः । वादित्राय नमः । वाद्याय नमः । बुद्धाय नमः । वरप्रदाय नमः । साराय नमः । सारप्रियाय नमः । सौराय नमः । कालहन्त्रे नमः । निकृन्तनाय नमः । (५८०) अगस्त्याय नमः । देवलाय नमः । नारदाय नमः । नारदप्रियाय नमः । प्राणाय नमः । अपानाय नमः । व्यानाय नमः । रजसे नमः । सत्त्वाय नमः । तमसे नमः । (५९०) शरदे नमः । । उदानाय नमः । समानाय नमः । भेषजाय नमः । भिषजे नमः । कूटस्थाय नमः । स्वच्छरूपाय नमः । सर्वदेहविवर्जिताय नमः । चक्षुरिन्द्रियहीनाय नमः । वागिन्द्रियविवर्जिताय नमः । (६००) हस्तेन्द्रियविहीनाय नमः । पादाभ्यां विवर्जिताय नमः । पायूपस्थविहीनाय नमः । मरुतापविवर्जिताय नमः । महातपोविसर्जिताय प्रबोधेन विहीनाय नमः । बुद्ध्या विवर्जिताय नमः । चेतसा विगताय नमः । प्राणेन विवर्जिताय नमः । अपानेन विहीनाय नमः । व्यानेन विवर्जिताय नमः । (६१०) उदानेन विहीनाय नमः । समानेन विवर्जिताय नमः । आकाशेन विहीनाय नमः । वायुना परिवर्जिताय नमः । अग्निना विहीनाय नमः । उदकेन विवर्जिताय नमः । पृथिव्या विहीनाय नमः । शब्देन विवर्जिताय नमः । स्पर्शेन विहीनाय नमः । सर्वरूपविवर्जिताय नमः । (६२०) रागेण विगताय नमः । अघेन परिवर्जिताय नमः । शोकेन रहिताय नमः । वचसा परिवर्जिताय नमः । रजोविवर्जिताय नमः । विकारैः षड्भिर्विवर्जिताय नमः । कामेन वर्जिताय नमः । क्रोधेन परिवर्जिताय नमः । लोभेन विगताय नमः । दम्भेन विवर्जिताय नमः । (६३०) सूक्ष्माय नमः । सुसूक्ष्माय नमः । स्थूलात्स्थूलतराय नमः । विशारदाय नमः । बलाध्यक्षाय नमः । सर्वस्य क्षोभकाय नमः । प्रकृतेः क्षोभकाय नमः । महतः क्षोभकाय नमः । भूतानां क्षोभकाय नमः । बुद्धेः क्षोमकाय नमः । (६४०) इन्द्रियाणां क्षोभकाय नमः । विषयक्षोभकाय नमः । ब्रह्मणः क्षोभकाय नमः । रुद्रस्य क्षोभकाय नमः । चक्षुरादेः अगम्याय नमः । श्रोत्रागम्याय नमः । त्वचागम्याय नमः । कूर्माय नमः । जिह्वाग्राह्याय नमः । घ्राणेन्द्रियागम्याय नमः । (६५०) वाचाग्राह्याय नमः । पाणिभ्यां अगम्याय नमः । पदागम्याय नमः । पादागम्याय । मनसः अग्राह्यय नमः । बुद्ध्या ग्राह्याय नमः । हरये नमः । अहंबुद्ध्या ग्राह्याय नमः । चेतसा ग्राह्याय नमः । शङ्खपाणये नमः । अव्ययाय नमः । (६६०) गदापाणये नमः । शार्ङ्गपाणये नमः । कृष्णाय नमः । ज्ञानमूर्तये नमः । परन्तपाय नमः । तपस्विने नमः । ज्ञानगम्याय नमः । ज्ञानिने नमः । ज्ञानविदे नमः । ज्ञेयाय नमः । (६७०) ज्ञेयहीनाय नमः । ज्ञप्त्यै नमः । चैतन्यरूपकाय नमः । भावाय नमः । भाव्याय नमः । भवकराय नमः । भावनाय नमः । भवनाशनाय नमः । गोविन्दाय नमः । गोपतये नमः । (६८०) गोपाय नमः । सर्वगोपीसुखप्रदाय नमः । गोपालाय नमः । गोगतये नमः । गोपतये गोमतये नमः । गोधराय नमः । उपेन्द्राय नमः । नृसिंहाय नमः । शौरये नमः । जनार्दनाय नमः । (६९०) आरणेयाय नमः । बृहद्भानवे नमः । बृहद्दीप्तये नमः । दामोदराय नमः । त्रिकालाय नमः । कालज्ञाय नमः । कालवर्जिताय नमः । त्रिसन्ध्याय नमः । द्वापराय नमः । त्रेतायै नमः । (७००) प्रजाद्वाराय नमः । त्रिविक्रमाय नमः । विक्रमाय नमः । दण्डहस्ताय नमः । दरहस्ताय एकदण्डिने नमः । त्रिदण्डधृचे नमः । । सामभेदाय नमः । सामोपायाय नमः । सामरूपिणे नमः । सामगाय नमः । (७१०) सामवेदाय नमः । अथर्वाय नमः । सुकृताय नमः । सुखरूपकाय नमः । अथर्ववेदविदे नमः । अथर्वाचार्याय नमः । ऋग्रूपिणे नमः । ऋग्वेदाय नमः । ऋग्वेदेषु प्रतिष्ठिताय नमः । य़जुर्वेत्त्रे नमः । (७२०) यजुर्वेदाय नमः । यजुर्वेदविदे नमः । एकपदे नमः । बहुपदे नमः । सुपदे नमः । सहस्रपदे नमः । । चतुष्पदे नमः । द्विपदे नमः । स्मृत्यै नमः । न्यायाय नमः । (७३०) यमाय नमः । बलिने नमः । सन्न्यासिने नमः । सन्न्यासाय नमः । चतुराश्रमाय नमः । ब्रह्मचारिणे नमः । गृहस्थाय नमः । वानप्रस्थाय नमः । भिक्षुकाय नमः । ब्राह्मणाय नमः । (७४०) क्षत्रियाय नमः । वैश्याय नमः । शूद्राय नमः । वर्णाय नमः । शीलदाय नमः । शीलसम्पन्नाय नमः । दुःशीलपरिवर्जिताय नमः । मोक्षाय नमः । अध्यात्मसमाविष्टाय नमः । स्तुत्यै नमः । (७५०) स्तोत्रे नमः । पूजकाय नमः । पूज्याय नमः । वाक्करणाय नमः । वाच्याय नमः । वाचकाय नमः । वेत्त्रे नमः । व्याकरणाय नमः । वाक्याय नमः । वाक्यविदे नमः । । (७६०) वाक्यगम्याय नमः । तीर्थवासिने नमः । तीर्थाय नमः । तीर्थिने नमः । तीर्थविदे नमः । तीर्थादिभूताय नमः । सांख्याय नमः । निरुक्ताय नमः । अधिदैवताय नमः । प्रणवाय नमः । (७७०) प्रणवेशाय नमः । प्रणवेन प्रवन्दिताय नमः । प्रणवेन लक्ष्याय नमः । गायत्र्यै नमः । गदाधराय नमः । शालग्रामनिवासिने नमः । शालग्रामाय नमः । जलशायिने नमः । योगशायिने नमः । शेषशायिने नमः । (७८०) कुशेशयाय नमः । महीभर्त्रे नमः । कार्याय नमः । कारणाय नमः । पृथिवीधराय नमः । प्रजापतये नमः । शाश्वताय नमः । काम्याय नमः । कामयित्रे नमः । विराजे नमः । । (७९०) सम्राजे नमः । पूष्णे नमः । स्वर्गाय नमः । रथस्थाय नमः । सारथये नमः । बलाय नमः । धनिने नमः । धनप्रदाय नमः । धन्याय नमः । यादवानां हिते रताय नमः । (८००) अर्जुनस्य प्रियाय नमः । अर्जुनाय नमः । भीमाय नमः । पराक्रमाय नमः । दुर्विषहाय नमः । सर्वशास्त्रविशारदाय नमः । सारस्वताय नमः । महाभीष्माय नमः । पारिजातहराय नमः । अमृतस्य प्रदात्रे नमः । (८१०) क्षीरोदाय नमः । क्षीराय नमः । इन्द्रात्मजाय नमः । इन्द्रात्मजस्य गोप्त्रे नमः । गोवर्धनधराय नमः । कंसस्य नाशनाय नमः । हस्तिपस्य नाशनाय नमः । हस्तिनाशनाय नमः । शिपिविष्टाय नमः । प्रसन्नाय नमः । (८२०) सर्वलोकार्तिनाशनाय नमः । मुद्राय नमः । मुद्राकराय नमः । सर्वमुद्राविवर्जिताय नमः । देहिने नमः । देहस्थिताय नमः । देहस्य नियामकाय नमः । श्रोत्रे नमः । श्रोत्रनियन्त्रे नमः । श्रोतव्याय नमः । (८३०) श्रवणाय नमः । त्वक्स्थिताय नमः । स्पर्शयित्रे नमः । स्पृश्याय नमः । स्पर्शनाय नमः । रूपद्रष्ट्रे नमः । चक्षुःस्थाय नमः । चक्षुष्ः नियन्त्रे नमः । । दृश्याय नमः । जिह्वास्थाय नमः । (८४०) रसज्ञाय नमः । नियामकाय नमः । घ्राणस्थाय नमः । घ्राणकृते नमः । घ्रात्रे नमः । घ्राणेन्द्रियनियामकाय नमः । वाक्स्थाय नमः । वक्त्रे नमः । वक्तव्याय नमः । वचनाय नमः । (८५०) वाङ्नियामकाय नमः । प्राणिस्थाय नमः । शिल्पकृते नमः । शिल्पाय नमः । हस्तयोर्नियामकाय नमः । पदव्याय नमः । गन्त्रे नमः । गन्तव्याय नमः । गमनाय नमः । पादयोर्नियन्त्रे नमः । (८६०) पाद्यभाजे नमः । विसर्गकृते नमः । । विसर्गस्य नियन्त्रे नमः । उपस्थस्थाय नमः । सुखाय नमः । उपस्थस्य नियन्त्रे नमः । उपस्थस्य आनन्दकराय नमः । शत्रुघ्नाय नमः । कार्तवीर्याय नमः । दत्तात्रेयाय नमः । (८७०) अलर्कस्य हिताय नमः । कार्तवीर्यनिकृन्तनाय नमः । कालनेमये नमः । महानेमये नमः । मेघाय नमः । मेघपतये नमः । अन्नप्रदाय नमः । अन्नरूपिणे नमः । अन्नादाय नमः । अन्नप्रवर्तकाय नमः । (८८०) धूमकृते नमः । धूमरूपाय नमः । देवकीपुत्राय नमः । उत्तमाय नमः । देवक्याः नन्दनाय नमः । नन्दाय नमः । रोहिण्याः प्रियाय नमः । वसुदेवप्रियाय नमः । वसुदेवसुताय नमः । दुन्दुभये नमः । (८९०) हासरूपाय नमः । पुष्पहासाय नमः । अट्टहासप्रियाय नमः । सर्वाध्यक्षाय नमः । क्षराय नमः । अक्षराय नमः । अच्युताय नमः । सत्येशाय नमः । सत्यायाः प्रियवराय नमः । रुक्मिण्याः पतये नमः । (९००) रुक्मिण्याः वल्लभाय नमः । गोपीनां वल्लभाय नमः । पुण्यश्लोकाय नमः । विश्रुताय नमः । वृषाकपये नमः । यमाय नमः । गुह्याय नमः । मङ्गलाय नमः । बुधाय नमः । राहवे नमः । (९१०) केतवे नमः । ग्रहाय नमः । ग्राहाय नमः । गजेन्द्रमुखमेलकाय नमः । ग्राहस्य विनिहन्त्रे नमः । ग्रामिण्ये नमः । रक्षकाय नमः । किन्नराय नमः । सिद्धाय नमः । छन्दसे नमः । (९२०) स्वच्छन्दाय नमः । विश्वरूपाय नमः । विशालाक्षाय नमः । दैत्यसूदनाय नमः । अनन्तरूपाय नमः । भूतस्थाय नमः । देवदानवसंस्थिताय नमः । सुषुप्तिस्थाय नमः । सुषुप्तिस्थानाय नमः । स्थानान्ताय नमः । (९३०) जगत्स्थाय नमः । जागर्त्रे नमः । जागरितस्थानाय नमः । स्वप्नस्थाय नमः । सुस्थाय स्वप्नविदे नमः । स्वप्नस्थानाय नमः । स्थानस्थाय स्वप्नाय नमः । जाग्रत्स्वप्नसुषुप्तिविहीनाय नमः । चतुर्थकाय नमः । विज्ञानाय नमः । (९४०) वेद्यरूपाय नमः । चैत्ररूपाय जीवाय नमः । जीवयित्रे नमः । भुवनाधिपतये नमः । भुवनानां नियामकाय नमः । पातालवासिने नमः । पातालाय नमः । सर्वज्वरविनाशनाय नमः । परमानन्दरूपिणे नमः । धर्माणां प्रवर्तकाय नमः । (९५०) सुलभाय नमः । दुर्लभाय नमः । प्राणायामपराय नमः । प्रत्याहाराय नमः । धारकाय नमः । प्रत्याहारकराय नमः । प्रभायै नमः । कान्त्यै नमः । अर्चिषे नमः । शुद्धस्फटिकसन्निभाय नमः । (९६०) अग्राह्याय नमः । गौराय नमः । सर्वाय नमः । शुचये नमः । अभिष्टुताय नमः । वषट्काराय नमः । वषटे नमः । वौषटे नमः । स्वधायै नमः । स्वाहायै नमः । (९७०) रतये नमः । पक्त्रे नमः । नन्दयित्रे नमः । भोक्त्रे नमः । बोद्ध्रे नमः । भावयित्रे नमः । । ज्ञानात्मने नमः । देहात्मने नमः । ऊहात्मने भूम्ने नमः । सर्वेश्वरेश्वराय नमः । (९८०) नद्यै नमः । नन्दिने नमः । नन्दीशाय नमः । भारताय नमः । तरुनाशनाय नमः । चक्रवर्तिनां चक्रपाय नमः । नृपाणां श्रीपतये नमः । नृपाय सर्वदेवानां ईशाय नमः । द्वारकासंस्थिताय नमः । स्वावकाशं स्थिताय पुष्कराय नमः । (९९०) पुष्कराध्यक्षाय नमः । पुष्करद्वीपाय नमः । भरताय नमः । जनकाय नमः । जन्याय नमः । सर्वाकारविवर्जिताय नमः । निराकाराय नमः । निर्निमित्ताय नमः । निरातङ्काय नमः । निराश्रयाय नमः । (१०००) इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये नमः । आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणस्य नामावलिः ॥ Based on Sahasranamastotra from Garuda Purana 1,15.1-160 There are a few repetitions such as shreShThAya.