अक्षर आकार:

श्रीविष्णुसूक्तम् २

Shri Vishnu Suktam 2

श्रीविष्णुसूक्तम् २

युञ्जते मन उत युञ्जते धियो विप्राछिप्रस्य बृहतोविपश्चितो- विहोत्रादधेवयुनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः स्वाहा ॥ १॥ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पाँंसुरे स्वाहा ॥ २॥ इरावती धेनुमती हि भूतँं सूयबसिनीम सरसस्तोत्रसारसङ्ग्रहः नवेदशस्या । व्यस्कब्म्नारोदसी विष्णवे ते दाधर्थपृथिवीमभितो मयूखैः स्वाहा ॥ ३॥ वेदश्रुतौ देवेष्वाघोषतम्प्राचीप्रेतमध्वरं कल्पयन्ती ऊर्ध्वं यज्ञन्नयतम्माजिह्वरतमस्वङ्गोष्टमावदतन्देवी दुर्ये त्रायुर्म्मा निर्वादिष्टम्प्रजाम्मा निर्वादिष्टमत्ररमेथाम्वर्ष्मन्पृथिव्याः ॥ ४॥ विष्णोर्न्नुकं वीर्य्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो अरकभायदुत्तरँ सधस्थं इविचक्रमाणस्स्रेधोरुगायो विष्णवे त्वा ॥ ५॥ दिवोवा विष्णऽ उत वापृथिव्यामहोवा विष्ण उरोरन्तरिक्षात उभाहिहस्तावसुना पृणस्वा प्रयच्छदक्षिणादोतसव्या विष्णवेत्वा ॥ ६॥ प्रतद्विष्णुः स्तवते वीर्य्येण मृगोनभीमः कुचरोगिरिष्टाः यस्योरुषु त्रिषु विक्रम्णेष्वधिक्षियन्ति भुवनानि विश्वा ॥ ७॥ विष्णोरराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोऽर्धुवोसि वैष्णवमसि विष्णवे त्वा ॥ ८॥ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददेनार्यसीदमहँ रक्षसाङ्ग्रीवा अपिकृन्तामि बृहन्नसि बृहद्रवा बृहतीमीन्ध्रय वाचं वद ॥ ९॥ विष्णोः कर्म्याणि पश्यत यतो व्रतानि पश्यसे इन्द्रस्य युज्यस्सखा ॥ १०॥ तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः दिवीवन्वक्षुराततम् ॥ ११॥ इति श्रीविष्णुसूक्तं २ समाप्तम् ॥ From shrI sarasa stotrasangrahaH (Lucknow, 1909).