अक्षर आकार:

श्रीविष्णुपञ्जरस्तोत्रम्

shrIviShNupanjarastotram

श्रीविष्णुपञ्जरस्तोत्रम्

श्रीगणेशाय नमः । ॐ अस्य श्रीविष्णुपञ्जरस्तोत्रमन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोहं शक्तिः । ॐ ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः । नारद ऋषये नमः मुखे । श्रीविष्णुपरमात्मदेवतायै नमः हृदये । अहं बीजं गुह्ये । सोहं शक्तिः पादयोः । ॐ ह्रीं कीलकं पादाग्रे । ॐ ह्रांह्रींह्रूंह्रैंह्रौंह्रः इति मन्त्रः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । अथ हृदयादिन्यासः । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । इति अङ्गन्यासः । अहंबीजप्राणायामं मन्त्रत्रयेण कुर्यात् । अथ ध्यानम् । परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥ १॥ ॐ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् । उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥ २॥ त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् । तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥ ३॥ पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः । ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥ ४॥ नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः । उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥ ५॥ वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः । बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥ ६॥ कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् । माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥ ७॥ नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः । कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥ ८॥ श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् । पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥ ९॥ दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु । पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः ॥ १०॥ गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः । आकाशे च गदा पातु पाताले च सुदर्शनम् ॥ ११॥ सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः । विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥ १२॥ राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे । नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥ १३॥ डाकिनीप्रेतभूतेषु भयं तस्य न जायते । रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४॥ रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः । जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥ १५॥ अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥ १६॥ पन्थानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः । रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ १७॥ स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः । मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ १८॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९॥ आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा । यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥ २०॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । गोसहस्रफलं तस्य वाजपेयशतस्य च ॥ २१॥ अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः । सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ २२॥ जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २३॥ इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्रीविष्णुपञ्जरस्तोत्रं सम्पूर्णम् ॥