अक्षर आकार:

श्रीविष्णुपदी अथवा गङ्गास्तोत्रम् ब्रह्मवैवर्तपुराणान्तर्गतम्

Shrivishnupadi or Gangastotram

श्रीविष्णुपदी अथवा गङ्गास्तोत्रम् ब्रह्मवैवर्तपुराणान्तर्गतम्

ॐ नमो गङ्गायै । श्रीब्रह्मोवाच । श्रोतुमिच्छामि देवेश लक्ष्मीकान्त नमः प्रभो । विष्णो विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारणम् ॥ ११३॥ श्री नारायण उवाच । शिवसङ्गीतसंमुग्धश्रीकृष्णाङ्गद्रवोद्भवाम् । राधाङ्गद्रवसम्भूतां तां गङ्गां प्रणमाम्यहम् ॥ ११४॥ या जन्मसृष्टेरादौ च गोलोके रासमण्डले । संनिधाने शंकरस्य तां गङ्गां प्रणमाम्यहम् ॥ ११५॥ गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे । कार्तिकीपूर्णिमाजातां तां गङ्गां प्रणमाम्यहम् ॥ ११६॥ कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः । समावृता या गोलोकं तां गङ्गां प्रणमाम्यहम् ॥ ११७॥ षष्टिलक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा । समावृता या वैकुण्ठं तां गङ्गां प्रणमाम्यहम् ॥ ११८॥ विंशल्लक्षैर्योजनैर्या ततो दैर्घ्ये चतुर्गुणा । समावृता ब्रह्मलोकं या तां गङ्गां प्रणमाम्यहम् ॥ ११९॥ त्रिंशल्लक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः । आवृता शिवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२०॥ षड्योजनसुविस्तीर्णा दैर्घ्ये वशगुणा ततः । मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ १२१॥ लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः । आवृता ध्रुवलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२२॥ लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः । आवृता चन्द्रलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२३॥ योजनैः षष्टिसाहस्रैर्दैर्घ्ये दशगुणा ततः । आवृता सूर्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२४॥ लक्षयोजनविस्तीर्णा दैर्घ्ये षड्गुणिता ततः । आवृता सत्यलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२५॥ दशलक्षैर्योजनैर्या दैर्घ्ये पञ्चगुणा ततः । आवृता या तपोलोकं तां गङ्गां प्रणमाम्यहम् ॥ १२६॥ सहस्रयोजना या च दैर्घ्ये सप्तगुणा ततः । आवृता जनलोकं या तां गङ्गां प्रणमाम्यहम् ॥ १२७॥ सहस्रयोजनयामा दैर्घ्ये सप्तगुणा ततः । आवृता या च कैलासं तां गङ्गां प्रणमाम्यहम् ॥ १२८॥ पाताले या भोगवती विस्तीर्णा दशयोजना । ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ १२९॥ क्रोशैकमात्रविस्तीर्णा ततः क्षीणा न कुत्रचित् । क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ १३०॥ सत्ये य क्षीरवर्णा च त्रेतायामिन्दुसंनिभा । द्वापरे चन्दनाभा च तां गङ्गां प्रणमाम्यहम् ॥ १३१॥ जलप्रभा कलौ या च नान्यत्र पृथिवीतले । स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ १३२॥ यस्याः प्रभाव अतुलः पुराणे च श्रुतौ श्रुतः । या पुण्यदा पापहर्त्री तां गङ्गां प्रणमाम्यहम् ॥ १३३॥ यत्तोयकणिकास्पर्शः पापिनां च पितामह । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ १३४॥ इत्येवं कथितं ब्रह्मन्गङ्गापद्यैकविंशतिम् । स्तोत्ररूपं च परमं पापघ्नं पुण्यबीजकम् ॥ १३५॥ नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् । अश्वमेधफलं नित्यं लभते नात्र संशयः ॥ १३६॥ अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् । रोगान्मुच्येत रोगी च बद्धो मुच्येत बन्धनात् ॥ १३७॥ अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ १३८॥ शुभं भवेत्तु दुस्स्वप्नं गङ्गास्नानफलं भवेत् ॥ १३९॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे गङ्गोपाख्याने दशमोऽध्यायान्तर्गतं गङ्गास्तोत्रं सम्पूर्णम् ॥ From brahmavaivartapurANa prakRitikhaNDa adhyAya 10