अक्षर आकार:

श्रीविष्णुपूजास्तोत्रम्

shrIviShNupUjAstotram

श्रीविष्णुपूजास्तोत्रम्

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १॥ आराधयामि मणिसन्निभमात्मविष्णुं मायापुरे हृदयपङ्कजसन्निविष्टम् । श्रद्धानदीविमलचित्तजलाभिषिक्तं नित्यं समाधिकुसुमैरपुनर्भवाय ॥ २॥ ज्योतिश्शान्तं सर्वलोकान्तरस्थमोङ्कारारव्यं योगिहृद्ध्यानगम्यम् । साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णुमावाहयामि ॥ ३॥ कल्पद्रुमे मणिवेदिमध्ये सिंहासने स्वर्णमयं सरत्नम् । विचित्रवस्त्रावृतमच्युत प्रभो गहाण लक्ष्मीधरणीसमन्वित ॥ ४॥ पादोदकं ते परिकल्पयामि पुण्यं सरित्सागरतोयनीतम् । पाद्यं प्रदास्ये सुमनस्समेतं गृहाण लक्ष्मीधरणीसमन्वित ॥ ५॥ ब्रह्मेन्द्ररुद्राग्निमुनीन्द्रसेव्यपादारविन्दाम्बुदसन्निभाङ्ग । अर्ध्यं गृहाणाश्रितपारिजात श्रिया सहाम्भोजदलायताक्ष ॥ ६॥ तीर्थोदकं गाङ्गमिदं हि विष्णो त्रिविक्रमानन्त मया निवेदितम् । दध्याज्ययुक्तं मधुपर्कसंज्ञं गृहाण देवेश यथाक्रमेण ॥ ७॥ आकल्पसंशोभितदिव्यगात्र राकेन्दुनीकाशमुखारविन्द । दत्तं मया चाचमनं गृहाण श्रीकेशवानन्त धरारिदारिन् ॥ ८॥ तीर्थोदकैः काञ्चनकुम्भसंस्थैस्सुवासितैर्देव सुमन्त्रपूतैः । मयार्पितं स्नानमिदं गृहाण पादाब्जनिष्ठ्यूतनदीप्रवाह ॥ ९॥ मन्दाकिनी जह्नुसुतार्य गौतमी वेण्यादितीर्थेषु च पुण्यवत्सु । आनीतमम्भो घनसारयुक्तं श्रीखण्डमिश्रं कुसुमादिसंश्रितम् ॥ १०॥ कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् । पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ ११॥ चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि । स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥ १२॥ आज्यं सुराणामाहारमाज्यं यज्ञे प्रतिष्ठितम् । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥ १३॥ सर्वौषधिसमुत्पन्नं पीयूषममृतं मधु । स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥ १४॥ इक्षुदण्डसमुद्भूत दिव्यशर्करया हरिम् । स्नपयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥ १५॥ स्वर्णाञ्चलं चित्रतरं सुशोभितं कौशेययुग्मं परिकल्पितं मया । दामोदर प्रावरणं गृहाण मायाबलप्रावृतदिव्यरूप ॥ १६॥ सुवर्णतन्तूद्भवयज्ञसूत्रं मुक्ताफलस्यूतमनेकरत्नम् । गृहाण तद्वत्प्रियमुत्तरीयं स्वकर्मसूत्रान्तरिणे नमोऽस्तु ॥ १७॥ कस्तूरिकाकर्दमचन्दनानि काश्मीरसंयोजितगन्धसारैः । विलेपनं स्वीकुरु देवदेव श्रीदेविवक्षोजविलेपनाङ्ग ॥ १८॥ श्रीगन्धं चन्दनोन्मिश्रं कर्पूरेण सुसंयुतम् । विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥ १९॥ ष्लोक २० मिस्सिन्ग्। सेवन्तिकावकुलचम्पकपाटलाब्जैः पुन्नागजातिकरवीररसालपुष्पैः । बिल्वप्रवालतुलसीदलमल्लिकाभिः त्वां पूजयामि जगदीश्वर मे प्रसीद ॥ २१॥ आरामपुष्पाणि मनोहराणि जलाशयस्थानि सुपल्लवानि । सुवर्णपुष्पाणि मयार्पितानि त्वं गृह्यतां देववर प्रसीद ॥ २२॥ केयूरकटके चैव हस्ते चित्राङ्गुलीयकम् । माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ॥ २३॥ नाभौ नायकरत्वं च नूपुरे पादपद्मयोः । अङ्गुलीमुद्रिकाश्चैव गृहाण पुरुषोत्तम ॥ २४॥ श्रीखण्ठलाक्षासितकाष्ठदिव्यकर्पूरकालागुरुकर्दमानि । स्वचोरकाचन्दनदेवदारुमांसीनखं शैलजपूतिकाश्च ॥ २५॥ कालागुरुप्रचुरगुग्गुलुगन्धधूपै- र्नानाविधैस्सुरभितैः खलु धूप्यमानैः । त्वां धूपयामि रघुपुङ्गव वासुदेव लक्ष्मीपते मयि दयां कुरु लोकनाथ ॥ २६॥ सूर्येन्दुकोटिप्रभ वासुदेव दीपावलिं गोघृतवर्तियुक्ताम् । गृहाण लोकत्रयपूजिताङ्घ्रे धर्मप्रदीपान्कुरु दीप्यमानान् ॥ २७॥ स्वामिन् लक्ष्मीश देवेश भक्तलोकदयानिधे । ज्ञानतोऽज्ञानतो वापि भक्त्या शक्त्या समर्पितम् ॥ २८॥ मयोपनीतं नैवेद्यं पञ्चभक्ष्यसुभोजनम् । मक्षिका मशकाः केशाः पृथु बीजानि वल्कलाः ॥ २९॥ पाषाणमस्थिकं सर्वं कृमिकीटपिपीलिकाः । एतान्सवान्परित्यज्य शुचिपाकानि यानि वै ॥ ३०॥ तानि सर्वाणि गृह्णीष्व मया दत्तानि माधव । कदलीपनसाम्राणां सुपक्वानि फलानि च ॥ ३१॥ अन्नं चतुर्विधं सूपं सद्यस्तप्तघृतं दधि । मया समर्पितं सर्वं सङ्गृहाण श्रिया सह ॥ ३२॥ सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तागन् सुपक्वान् भक्ष्यान्भोज्यांश्च लेह्यानपरिमितमहाचोष्यमन्नं निधाय । नानाशाकैरुपेतं दधिमधुसुगुडक्षीरपानीययुक्तं ताम्बूलं चापि विष्णो प्रतिदिवसमहो मानसे कल्पयामि ॥ ३३॥ सुपूगरवण्डैश्च सुशुभ्रपर्णैस्सुशङ्खचूर्णैर्धनसारमिश्रैः । मयार्पितं देव दयासमुद्र ताम्बूलमेतत्प्रमुदा गृहाण ॥ ३४॥ नीराजनं स्वीकुरु देवदेव नीलोत्पलश्रीकर नीरजाक्ष । गृहाण देवासुरमौलिरत्नमरीचिनीराजितपादपद्म ॥ ३५॥ पुष्पाञ्जलिं स्वीकुरु पुष्कराक्ष प्रसन्नकल्पद्रुमपारिजात । इन्द्रादिवृन्दारकवन्द्यपाद नमोस्तु ते देववर प्रसीद ॥ ३६॥ यादि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदेपदे ॥ ३७॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । त्राहि मां कृपया देव शरणागतवत्सल ॥ ३८॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन ॥ ३९॥ नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ ४०॥ आवाहनं न जानामि च जानामि विसर्जनम् । पूजां चैव न जानामि क्षमस्व परमेश्वर ॥ ४१॥ यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ४२॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ ४३॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥ ४४॥ मत्समो नास्ति पापिष्ठः त्वत्समो नास्ति पापहा । इति सञ्चिन्त्य देवेश यथेच्छसि तथा कुरु ॥ ४५॥ भूमौ स्खलितपदानां भूमिरेवावलम्बनम् त्वयि जातापराधानां त्वमेव शरणं मम ॥ ४६॥ गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ ४७॥ रूपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ ४८॥ इति विष्णुपूजास्तोत्रं सम्पूर्णम् ।