अक्षर आकार:

श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम्

shrIVishnukavacha from Brahmavaivarta Purana

श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम्

शौनक उवाच । किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा । दत्तो वसिष्ठैस्ताभ्यां च तं भवान् वक्तुमर्हति ॥ ८॥ द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् । दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥ ९॥ तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम । शङ्करस्तोत्रकवचं मन्त्रं दुर्गविनाशनम् ॥ १०॥ सौतिरुवाच । तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् । तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं श‍ृणु ॥ ११॥ ओं नमो भगवते रासमण्डलेशाय स्वाहा । इमं मन्त्रं कल्पतरुं प्रदद्यौ षोडशाक्षरम् ॥ १२॥ पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः । पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥ १३॥ ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् । मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥ १४॥ अतीवगुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् । पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥ १५॥ शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले । धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥ १६॥ ब्रह्मोवाच । राधाकान्त महाभाग कवचं यं प्रकाशितम् । ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥ १७॥ मां महेशं च धर्मं च भक्तं च भक्तवत्सल । त्वं प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥ १८॥ श्रीकृष्ण उवाच । श‍ृणु वक्ष्यामि ब्रह्मेश धर्मदं कवचं परम् । अहं दास्यामि युष्मभ्यः गोपनीयं सुदुर्लभम् ॥ १९॥ यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि । यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥ २०॥ कुरु सृष्टिमिदं धृत्वा धाता त्रिजगतां भव । संहर्ता भव हे शम्भो मम तुल्यो भवे भव ॥ २१॥ हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् । तपसां फलदाता च यूयं भवत मद्वरात् ॥ २२॥ ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् । ऋषिश्च्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥ २३॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । त्रिलक्षवारपठनात् सिद्धिदं कवचं विधे ॥ २४॥ यो भवेत् सिद्धकवचो मम तुल्यो भवेत्तु सः । तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥ २५॥ प्रणवो मे शिरः पातु नमो रासेश्वराय च । भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥ २६॥ कृष्णः पायात् श्रोत्रयुग्मं हे हरे घ्राणमेव च । जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥ २७॥ श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः । ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ॥ २८॥ नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु । दन्तपंक्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥ २९॥ ओं नमो भगवते रासमण्डलेशाय स्वाहा । स्वयं वक्षस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥ ३०॥ ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदावतु । ओं विष्णवे स्वाहेति च कङ्कालं सर्वतोऽवतु ॥ ३१॥ ओं हरये नम इति पृष्ठं पादं सदावतु । ओं गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ॥ ३२॥ प्राच्यां मां पातु श्रीकृष्णः आग्नेय्यां पातु माधवः । दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ॥ ३३॥ वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः । उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥ ३४॥ सन्ततं सर्वतः पातु परो नारायणः स्वयम् । इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम् ॥ ३५॥ मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च । अश्वमेधसहस्राणि वाजपेयशतानि च । कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥ ३६॥ गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ॥ ३७॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् द्विज ॥ ३८॥ इति श्रीब्रह्मवैवर्ते महापुरुषब्रह्माण्डपावनं कवचं समाप्तम् ॥ brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 8-38