अक्षर आकार:

श्रीविष्णुद्वादशनामन्यासः

shrIviShNudvAdashanAmanyAsaH

श्रीविष्णुद्वादशनामन्यासः

केशवः पातुमे पादौ जङ्घे नारायणो मम । माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥ १॥ नाभिं विष्णुस्तु मे पातु जठरं मधुसूदनः । उरस्त्रिविक्रमः पातु हृदयं पातु वामनः ॥ २॥ श्रीधरः पातु मे कण्ठं हृषीकेशो मुखं मम । पद्मनाभस्तु नयने शिरो दामोदरो मम ॥ ३॥ एवमेतानि नामामि जपकाले विशेषतः । विन्यसेदात्मरक्षार्थं सर्वमङ्गलसिद्धये ॥ ४॥ इति श्रीविष्णुद्वादशनामन्यासः समाप्तः ।