अक्षर आकार:

विष्णोस्त्रिंशोपचार पूजनम्

Vishnu Trimshopachara Pujanam 30 Parts

विष्णोस्त्रिंशोपचार पूजनम्

१ ध्यानम् -- सुरकदम्बकैः प्रश्रयेण वै नियतसेवितं गोकुलोत्सवम् । किरीटकुण्डलं पीतजाम्बरं खलनिषूदनं चिन्तये विभुम् ॥ २ आवाहनम् -- खगपवाहनं क्षीरजाप्रियं भवभयापहं भुक्तिमुक्तिदम् । सुरपतिं जगन्नाथमीश्वरं कमलभासमा वाहयाम्यहम् ॥ ३ आसनम् -- विधिमुखामरैर्नम्रमूर्तिभिः प्रणतसंश्रितं दुर्धरादिमत् । वरमणिप्रभा भासुरन्नवं जनपगृह्यतां स्वर्णमासनम् ॥ ४ पाद्यम् -- कुसुमवासितं गन्धविस्तृतं मुनिनिषेवितं सादरेण वै । ध्रुवपराशराभीष्टद ! प्रभो जनपगृह्यतां पाद्यमुत्तमम् ॥ ५ अर्घ्यम् ः- कनकसम्पुटे स्थापितं वरं जलसुवर्णमुक्ताफलैर्युतम् । करसरोरुहाभ्यां घृतम्मया जनपगृह्यतामर्घ्यमुत्तमम् ॥ ६ आचमनीयम् -- तव रमायुजः सेवनाज्जना नृपतिसन्निभाः सम्भवन्ति हि । सुरतरङ्गिणी शुद्धवारिभि- र्जनपगृह्यतामाचमं शुभम् ॥ ७ स्नानम् -- हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् । जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥ ८ पयःस्नानम् -- सुरगवुद्भभवं वीर्यवर्धकं निखिलदेहिनां जीवनप्रदम् शशधरप्रभं फेनसंयुतम् जनपगृह्यतामर्पितं पयः ॥ ९ दधि स्नानम् -- शुचिपयः समुद्भूतमुतप्रदं व्रजनिवासिभिः स्वादितं शुभम् । रजतसंनिभं शीततामयं जनपगृह्यतामर्पितन्दधिम् ॥ १० घृतस्नानम् -- हुतवहप्रियं क्षीरजोद्भवं सकलदेहिनां सत्त्ववर्धकम् । कुमुदसदृशं विष्णु दैवतं जनपगृह्यतामर्पितङ्घृतम् ॥ ११ मधुस्नानम् -- मधुलतोद्भवं स्वादुमञ्जुलं मधुपमक्षिकाद्यैर्विनिर्मितम् । मधुरतामयं गन्धसम्प्रदं मधुहतेऽर्पितं गृह्यताम्मधु ॥ १२ शर्करा स्नानम् -- मदनकार्मुकाद्या विनिर्मिता मधुरतान्विता सर्वपापहा । सरसताङ्गता तारकोपमा जनपगृह्यतां शुद्धशर्करा ॥ १३ उद्वर्तन स्नानम् -- कदम्बकेतकी पुष्पसम्भवं मृगमदान्वितं यन्त्रनिर्मितम् । जनुपकारिणा भक्तितो मया जनपगृह्यतां तैलमर्पितम् ॥ १४ शुद्धोदक स्नानम् -- हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् । जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥ १५ वस्त्रम् -- विविधतन्तुभिर्गुम्फितं नवं सुतपनीयभं सोत्तरीयकम् । मधुरिपो जगन्नाथ माधव जनपगृह्यतां वस्त्रमर्पितम् ॥ १६ यज्ञोपवीतम् -- त्रिगुणितं सितैरर्कतन्तुभिः कृतमिदम्मया शुद्धचेतसा । निगमसम्मतं बन्धमोचकः जनपगृह्यतामुपवीतकम् ॥ १७ गन्धम्-चन्दनम् -- मलयसम्भवं पीतवर्णकं मृगमदाधिभिर्वासितं वरम् । मुक्तिषट्पदं कुङ्कुमान्वितं जनपगृह्यतां गन्धमर्पितम् ॥ १८ अक्षतान् -- कमलसम्भवा मौक्तिकोपमा स्त्रिपथगोदकैः शालिताः शिवाः । अगरुकुङ्कुमैर्मिश्रितावरा जनपगृह्यतामर्पिताक्षताः ॥ १९ पुष्पमाला -- तरुणमल्लिका कुन्दमालती बकुलपङ्कजानां समुच्चयैः । सततसुत्रितं भक्तितो मया जनपगृह्यतां हारमर्पितम् ॥ २० श्वेत चूर्ण -- कदम्बकेतकी वृक्षसम्भवं विविधसौख्यदं कान्तिवर्धनम् । सितकरोपमं स्नेहसत्कृतं जनपगृह्यतां श्वेतचूर्णकम् ॥ २१ रक्तचूर्ण ;-- अमरजादिभिर्देववृन्दकैः शिरसिवैधृतं प्रश्रयेण वा । तपनसदृशं दृष्टिमुत्कलं जनपगृह्यतां रक्तचूर्णकम् ॥ २२ सिन्दूर चूर्ण -- गणपतिप्रियं बालसूर्यभं पवनसूनुना स्वीकृतं सदा । सुरभिवासितं सूक्ष्मचूर्णकं जनपगृह्यतां नागसम्भवम् ॥ २३ धूपम् -- अगरगुग्गुला ज्यादिमिश्रितं तपनयोगजोद् भूतसौरभम् । अमरवृन्दकैः स्नेह सत्कृतं जनपगृह्यतां धूपमुत्तमम्। ॥ २४ दीपम् -- अनलतैलिनी गोघृतान्वितं तिमिरनाशकं दीप्ततन्तुभिः । कनकभाजने स्थापितम्मया जनपगृह्यतां दीपमुत्तमम् ॥ २५ नैवेद्यम् -- पनसदाडिमाम्रादिसत्फलं सुघृतमोदका पूपपायसम् । रजतभाजने स्थापितम्मया जनपगृह्यतां खाद्यमुत्तमम् ॥ २६ जळ-आचमनी -- जलधिगोद्भवं शीततामयं सकलप्राणिनां प्राणदायकम् । विधिसमर्पितं शुद्धचेतसा जनपगृह्यतामाचममं शुभम् ॥ २७ मुखवास --(पूगीफलं ताम्बूलं) -- खपुरसम्भवं पूगचूर्णयुग् मृगमदेलुका वासितं वरम् । फणिलतादलैः क्लृप्तबीडकं जनपगृह्यतामास्यभूषणम् ॥ २८ दक्षिणा -- निखिलयाचिनां श्रेष्ठभोगदा निगमसम्मता कर्मपूर्णदा ॥ सकलभूजनैर्वाञ्छिता सदा जनपगृह्यतां हेमदक्षिणा ॥ २९ नीराजनम् -- हुतवहप्रियैर्मिश्रितं वरं जलधिजैर्युतं सर्वपापहम् । मुखविलोकनार्थाय संस्कृतं जनपगृह्यतामार्तिकं शुभम् ॥ ३० प्रदक्षिणाम् -- वरदसञ्चितं पूर्वजन्मभिर्दहति किल्विषं त्वत्प्रदक्षिणा । नरहरिमुदा शुद्धचेतसा सततमीश्वरं त्वां नमाम्यहम् ॥ इति विष्णोर्स्त्रिंशोपचारपूजनम् सम्पूर्णम् ।