श्रीविष्णोर्स्तोत्रं शिवप्रोक्तं नरसिंहपुराणे
मार्कण्डेय उवाच वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव । साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥ १॥ दितेः पुत्रो महानासीद्धिरण्यकशिपुः पुरा । तपस्तेपे निराहारो बहुवर्षसहस्रकम् ॥ २॥ तपतस्तस्य संतुष्टो ब्रह्मा तं प्राह दानवम् । वरं वरय दैत्येन्द्र यस्ते मनसि वर्तते ॥ ३॥ इत्युक्तो ब्रह्मणा दैत्यो हिरण्यकशिपुः पुरा । उवाच नत्वा देवेशं ब्रह्माणं विनयान्वितः ॥ ४॥ हिरण्यकशिपुरुवाच यदि त्वं वरदानाय प्रवृत्तो भगवन्मम । यद्यदवृणोम्यहं ब्रह्मंस्तत्तन्मे दातुमर्हसि ॥ ५॥ न शुष्केण न चाद्रेंण न जलेन न वह्निना । न काष्ठेन न कीटेन पाषाणेन न वायुना ॥ ६॥ नायुधेन न शूलेन न शैलेन न मानुषैः । न सुरैरसुरैर्वापि न गन्धर्वैर्न राक्षसैः ॥ ७॥ न किंनरैर्न यक्षैस्तु विद्याधरभुजंगमैः । न वानरैर्मृगैर्वापि नैव मातृगणैरपि ॥ ८॥ नाभ्यन्तरे न बाह्ये तु नान्यैर्मरणहेतुभिः । न दिने न च नक्तं मे त्वत्प्रसादाद् भवेन्मृतिः ॥ ९॥ इति वै देवदेवेशं वरं त्वत्तो वृणोम्यहम् । मार्कण्डेय उवाच इत्युक्तो दैत्यराजेन ब्रह्मा तं प्राह पार्थिव ॥ १०॥ तपसा तव तुष्टोऽहं महता तु वरानिमान् । दुर्लभानापि दैत्येन्द्र ददामि परमाद्भुतान् ॥ ११॥ अन्येषां नेदृशं दत्तं न तैरित्थं तपः कृतम् । त्वत्प्रार्थितं मया दत्तं सर्वं ते चास्तु दैत्यप ॥ १२॥ गच्छ भुङ्क्ष्व महाबाहो तपसामूर्जितं फलम् । इत्येवं दैत्यराजस्य हिरण्यकशिपोः पुरा ॥ १३॥ दत्त्वा वरान् ययौ ब्रह्मा ब्रह्मलोकमनुत्तमम् । सोऽपि लब्धवरो दैत्यो बलवान् बलदर्पितः ॥ १४॥ देवान् सिंहान् रणे जित्वा दिवः प्राच्यावयद् भुवि । दिवि राज्यं स्वयं चक्रे सर्वशक्तिसमन्वितम् ॥ १५॥ देवा अपि भयात्तस्य रुद्राश्चैवर्षयो नृप । विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ १६॥ प्राप्तत्रैलोक्यराज्योऽसौ हिरण्यकशिपुः प्रजाः । आहूय सर्वा राजेन्द्र वाक्यं चेदमभाषत ॥ १७॥ न यष्टव्यं न होतव्यं न दातव्यं सुरान् प्रति । युष्माभिरहमेवाद्य त्रैलोक्याधिपतिः प्रजाः ॥ १८॥ ममैव पूजां कुरुत यज्ञदानादिकर्मणा । ताश्च सर्वास्तथा चक्रुर्दैत्येन्द्रस्य भयान्नृप ॥ १९॥ यत्रैवं क्रियमाणेषु त्रैलोक्यं सचराचरम् । अधर्मयुक्तं सकलं बभूव नृपसत्तम ॥ २०॥ स्वधर्मलोपात् सर्वेषां पापे मतिरजायत । गते काले तु महति देवाः सेन्द्रा बृहस्पतिम् ॥ २१॥ नीतिज्ञं सर्वशास्त्रज्ञं पप्रच्छुर्विनयान्विताः । हिरण्यकशिपोरस्य विनाशं मुनिसत्तम ॥ २२॥ त्रैलोक्यहारिणः शीघ्रं वधोपायं वदस्व नः । बृहस्पतिरुवाच शृणुध्वं मम वाक्यानि स्वपदाप्राप्तये सुराः ॥ २३॥ प्रायो हिरण्यकशिपुः क्षीणभागो महासुरः । शोको नाशयति प्रज्ञां शोको नाशयति श्रुतम् ॥ २४॥ शोको मतिं नाशयति नास्ति शोकसमो रिपुः । सोढुं शक्योऽग्निसम्बन्धः शस्त्रस्पर्शश्च दारुणः ॥ २५॥ न तु शोकभवं दुःखं संसोढुं नृप शक्यते । कालान्निमित्ताच्च वयं लक्ष्यामस्तत्क्षयं सुराः ॥ २६॥ बुधाश्च सर्वे सर्वत्र स्थिता वक्ष्यन्ति नित्यशः । अचिरादेव दुष्टोऽसौ नश्यत्येव परस्परम् ॥ २७॥ देवानां तु परामृद्धिं स्वपदप्राप्तिलक्षणाम् । हिरण्यकशिपोर्नाशं शकुनानि वदन्ति मे ॥ २८॥ यत एवमतो देवाः सर्वे गच्छत माचिरम् । क्षीरोदस्योत्तरं तीरं प्रसुप्तो यत्र केशवः ॥ २९॥ युष्माभिः संस्तुतो देवः प्रसन्नो भवति क्षणात् । स हि प्रसन्नो दैत्यस्य वधोपायं वदिष्यति ॥ ३०॥ इत्युक्तास्तेन देवास्ते साधु साध्वित्यथाब्रुवन् । प्रीत्या च परया युक्ता गन्तुं चक्रुरथोद्यमम् ॥ ३१॥ पुण्ये तिथौ शुभे लग्ने पुण्यं स्वस्ति च मङ्गलम् । कारयित्वा मुनिवरैः प्रस्थितास्ते दिवौकसः ॥ ३२॥ नाशाय दुष्टदैत्यस्य स्वभूत्यै च नृपोतम् । ते शर्वमग्नतः कृत्वा क्षीराब्धेरुत्तरं तटम् ॥ ३३॥ तत्र गत्वा सुराः सर्वे विष्णुं जिष्णुं जनार्दनम् । अस्तुवन् विविधैः स्तोत्रैः पूजयन्तः प्रतस्थिरे ॥ ३४॥ भवोऽपि भगवान् भक्त्या भगवन्तं जनार्दनम् । अस्तुवन्नामभिः पुण्यैरेकाग्रमनसा हरिम् ॥ ३५॥श्रीमहादेव उवाच विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः । प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥ ३६॥ केशवः केशिहा कल्पः सर्वकारणकारणम् । कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥ ३७॥ आदिकर्ता वराहश्च माधवो मधुसूदनः । नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥ ३८॥ ज्योतिष्मान् द्युतिमान् श्रीमानायुष्मान् पुरुषोत्तमः । वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥ ३९॥ नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः । आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥ ४०॥ गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः । पद्मनाभो हषीकेशो विभुर्दामोदरो हरिः ॥ ४१॥ त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः । वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥ ४२॥ भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः । कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ ४३॥ संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः । बदरीनिलयः शान्तततपस्वी वैद्युतप्रभः ॥ ४४॥ var शान्ततत्त्वज्ञो भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः । तपोवासो दमो वासः सत्यवासः सनातनः ॥ ४५॥ पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः । पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥ ४६॥ शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली । किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥ ४७॥ जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः । शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥ ४८॥ सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः । सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥ ४९॥ स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः । मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥ ५०॥ स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वमग्नयः ॥ ५१॥ त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम । नमो देवादिदेवाय विष्णवे शाश्वताय च ॥ ५२॥
अनन्तायाप्रमेयाय नमस्ते गरुडध्वज । मार्कण्डेय उवाच इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥ ५३॥ उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः । श्रीभगवानुवाच युष्माभिः संस्तुतो देवा नामभिः केवलैः शुभैः ॥ ५४॥ अत एव प्रसन्नोऽस्मि किमर्थं करवाणि वः । देवा ऊचुः देवदेव हृषीकेश पुण्डरीकाक्ष माधव ॥ ५५॥ त्वमेव जानासि हरे किं तस्मात् परिपृच्छसि । श्रीभगवानुवाच युष्मदागमनं सर्वं जानाम्यसुरसूदनाः ॥ ५६॥ हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण तु । पुण्यनामशतेनैव संस्तुतोऽहं भवेन च ॥ ५७॥ एतेन यस्तु मां नित्यं त्वयोक्तेन महामते । तेनाहं पूजितो नित्यं भवामीह त्वया यथा ॥ ५८॥ प्रीतोऽहं गच्छ देव त्वं कैलासशिखरं शुभम् । त्वया स्तुतो हनिष्यामि हिरण्यकशिपुं भव ॥ ५९॥ गच्छध्वमधुना देवाः कालं कंचित् प्रतीक्षताम् । यदास्य तनयो धीमान् प्रह्लादो नाम वैष्णवः ॥ ६०॥ तस्य द्रोहं यदा दैत्यः करिष्यति सुरांस्तदा । हनिष्यामि वरैर्गुप्तमजेयं देवदानवैः । इत्युक्त्वा विष्णुना देवा नत्वा विष्णुं ययुर्नृप ॥ ६१॥ इति श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥४०॥ Narasimhapurana adhyAya 40. The stotra is from 36-52. https://archive.org/details/NarsimhaPuranGitapress