अक्षर आकार:

श्रीविष्णोर्नामस्तोत्रम् महादेवोक्त नरसिंहपुराणे

Vishnu stotra by Mahadeva in Narasimhapurana

श्रीविष्णोर्नामस्तोत्रम् महादेवोक्त नरसिंहपुराणे

श्रीमहादेव उवाच -- विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः । प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥ १॥ केशवः केशिहा कल्पः सर्वकारणकारणम् । कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥ २॥ आदिकर्ता वराहश्च माधवो मधुसूदनः । नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥ ३॥ ज्योतिष्मान् द्युतिमान् श्रीमान् आयुष्मान् पुरुषोत्तमः । वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥ ४॥ नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः । आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥ ५॥ गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः । पद्मनाभो हृषीकेशो विभुर्दामोदरो हरिः ॥ ६॥ त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः । वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥ ७॥ भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः । कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ ८॥ संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः । बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः ॥ ९॥ भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः । तपोवासो दमो वासः सत्यवासः सनातनः ॥ १०॥ पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः । पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥ ११॥ शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली । किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥ १२॥ जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः । शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥ १३॥ सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः । सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥ १४॥ स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः । मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥ १५॥ स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वमग्नयः ॥ १६॥ त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम । नमो देवादिदेवाय विष्णवे शाश्वताय च ॥ १७॥ अनन्तायाप्रमेयाय नमस्ते गरुडध्वज । मार्कण्डेय उवाच इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥ १८॥ उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः । इति । नरसिंहपुराण अध्याय ४० स्तोत्रसंख्या ६१ श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥ ४०॥ From Narasimhapurana adhyAya 40 https://archive.org/details/NarsimhaPuranGitapress (pdf pages 135-136)