अक्षर आकार:

श्रीविष्णोरेकादशनामस्तोत्रम्

shrIviShNorekAdashanAmastotram

श्रीविष्णोरेकादशनामस्तोत्रम्

राम नारायणानन्त मुकुन्द मधुसूदन । कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ॥ १॥ इत्येकादशनामानि पठेद्वा पाठयेद्यतः । जन्मकोटिसहस्राणां पातकादेव मुच्यते ॥ २॥ इति श्रीविष्णोरेकादशनामस्तोत्रं सम्पूर्णम् ।