श्रीविष्णोरपामार्जनस्तोत्रम्
श्रीवासुदेवाय नमः ।
दाल्भ्य उवाच ।
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः ।
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः ॥ १॥
आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः ।
सदा सम्पीड्यमानास्ते तिष्ठन्ति मुनिसत्तम ॥ २॥
येन कर्मविपाकेन ग्रहरोगाद्युपद्रवाः ।
न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ॥ ३॥
पुलस्त्य उवाच ।
जनार्दनं भूतपतिं जगद्गुरुं स्मरन्मनुष्यः सततं महामुने ।
दुष्टान्यशेषाण्यपहन्ति सद्यो निःशेषकार्याणि च साधु साधयेत् ॥ ४॥
व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनि तोषितः ।
ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः ॥ ५॥
यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् ।
विषग्रहज्वराणां ते मनुष्या दाल्भ्य भागिनः ॥ ६॥
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ।
तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ॥ ७॥
नाधीन्प्राप्नोति न व्याधीन्न विषग्रहबन्धनम् ।
कृत्यास्पर्शभयं वाऽपि तोषिते मधुसूदने ॥ ८॥
सर्वदुष्टशमस्तस्य सौम्यास्तस्य सदा ग्रहाः ।
देवानामप्यधृष्योऽसौ तुष्टो यस्य जनार्दनः ॥ ९॥
यः समः सर्वभूतेषु यथाऽऽत्मनि तथा परे ।
उपवासादिना येन तोषितो मधुसूदनः ॥ १०॥
तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः ।
अरोगाः सुखिनो भोगान् भोक्तारो मुनिसत्तम ॥ ११॥
न तेषां शत्रवो नैव स्पर्शरोगाभिचारिकम् ।
ग्रहरोगादिकं वाऽपि पापकार्यं न जायते ॥ १२॥
अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि तु ।
रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ १३॥
दाल्भ्य उवाच ।
अनाराधितगोविन्दा ये नरा दुःखभागिनः ।
तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः ॥ १४॥
पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने ।
समदृष्ट्या हृषीकेशं तन्मम ब्रूह्यशेषतः ॥ १५॥
पुलस्त्य उवाच ।
तद्वक्ष्यामि मुनिश्रेष्ट समाहितमनाः शृणु ।
रोगदोषहरं नॄणां गुरुपापप्रणाशनम् ॥ १६॥
सौवर्णं राजतं ताम्रं मृण्मयं वा नवं दृढम् ।
अव्रणं कलशं शुद्धं स्थापयेत्तन्दुलोपरि ॥ १७॥
तत्रोदकं समानीय शुद्धं निर्मलमेव च ।
शतमेकं कुशान् साग्रान्स्थापयेत्कलशोपरि ॥ १८॥
पूजयेत्तत्र कलशमुपचारैः समन्त्रकैः ।
विरिञ्चिना सहोत्पन्न परमेष्ठीनिसर्गज ॥ १९॥
नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव ।
कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः ॥ २०॥
कुशाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्थिताः ।
गृहीत्वैतान्समूलाग्रान् कुशान्शुद्धानुस्पृशेत् ॥ २१॥
मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् ।
शरीरे यस्य तिष्ठन्ति कुशोत्था जलबिन्दवः ।
नश्यन्ति तस्य पापानि गरुडेनेव पन्नगाः ॥ २२॥
विष्णुभक्तो विशेषेण शुचिस्तद्गतमानसः ।
रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् ॥ २३॥
वाराहं नारसिंहं च वामनं विष्णुमेव च ।
ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यसेत् ॥ २४॥
नारसिंहं समभ्यर्च्य शुचौ देशे कुशासने ।
मन्त्रैरेतैर्यथालिङ्गं कुर्याद्दिग्बन्धमादितः ॥ २५॥
पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे ।
प्रद्युम्नः पश्चिमे पातु वामदेवस्तथोत्तरे ॥ २६॥
ईशान्यां वामनः पातु ह्याग्नेय्यां तु जनार्दनः ।
नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥ २७॥
ऊर्ध्वं गोवर्धनधरो ह्मधरायां त्रिविक्रमः ।
एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु केशवः ॥ २८॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ २९॥
एवं कृत्वा तु दिग्बन्धं विष्णुं सर्वत्र संस्मरेत् ।
आत्मनश्च परस्यापि विधिरेष उदाहृतः ॥ ३०॥
अव्यग्रचित्तः कुर्वीत न्यासकर्म यथाविधि ।
एतत्समस्तं विन्यस्य पश्चान्मन्त्रं प्रयोजयेत् ॥ ३१॥
करन्यासं पुरा कृत्वा ततोऽङ्गन्यासमारभेत् ।
अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् ॥ ३२॥
मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ।
कनिष्ठिक्यां न्यसेद्विष्णुं करमध्ये तु माधवम् ॥ ३३॥
हृन्मध्ये चिन्तयेद्देवं परमात्मानमीश्वरम् ।
नृसिंहं मणिबन्धे च करपृष्ठे जनार्दनम् ॥ ३४॥
कृते च वैष्णवे न्यासे सर्वपापैः प्रमुच्यते ।
एवं कृत्वा करन्यासं सर्वं तस्याक्षयं भवेत् ।
एवं न्यासं करे कृत्वा पश्चादङ्गेषु विन्यसेत् ॥ ३५॥
शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् ।
मालाधरं ललाटे च गोविन्दं तु भ्रुवोर्न्यसेत् ॥ ३६॥
चक्षुर्मध्ये न्यसेद्विष्णुं श्रोत्रयोर्मधुसूदनम् ।
त्रिविक्रमं कपोले तु वामनं कर्णमूलयोः ॥ ३७॥
नासारन्ध्रद्वये चैव श्रीधरं कल्पयेद्बुधः ।
उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाधरे ॥ ३८॥
दामोदरं दन्तपङ्क्तौ वाराहं चिबुके तथा ।
जिह्वायां वासुदेवं च तालौ च गरुडध्वजम् ॥ ३९॥
वैकुण्ठं कण्ठदेशे च अनन्तं नासिकोपरि ।
दक्षिणे च भुजे विप्र विन्यसेत्पुरुषोत्तमम् ॥ ४०॥
वामे भुजे महाभागं राघवं हृदि विन्यसेत् ।
कुक्ष्योः पृथ्वीधरं चैव पार्श्वयोरमितौजसम् ॥ ४१॥
स्तनयोः पीतवसनं हरिं नाभ्यां तु विन्यसेत् ।
करे तु दक्षिणे विप्र ततः सङ्कर्षणं न्यसेत् ॥ ४२॥
वामे रिपुहरं विद्यात्कटिमध्येऽपराजितम् ।
पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोर्द्वयोः ॥ ४३॥
वक्षःस्थले माधवं च कक्षयोर्योगशायिनम् ।
वामकुक्षे माधवं च दक्षिणे जलशायिनम् ॥ ४४॥
योगीशं दक्षिणे पार्श्वे वामपार्श्वे श्रियःपतिम् ।
अन्त्रेषु वासुदेवं च गुदमध्येऽव्ययं न्यसेत् ॥ ४५॥
स्वयम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम् ।
जानुमध्ये चक्रधरं जङ्घयोरच्युतं न्यसेत् ॥ ४६॥
पादयोः पुष्कराक्षं च सर्वतो विश्वरूपिणम् ।
गुल्फयोर्नारसिंह च पादपृष्ठेऽमितौजसम् ।
अङ्गुल्यां श्रीधरं विद्यात्पद्माक्षं सर्वसन्धिषु ॥ ४७॥
नखेषु घननीलाङ्गं न्यसेत्पादतलेऽच्युतम् ।
रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥ ४८॥
मनोबुद्ध्योरहकारं चित्ते न्यस्य जनार्दनम् ।
पादमूले तु देवस्य शङ्खं विन्यस्य निर्मलम् ॥ ४९॥
वनमालां हृदि न्यस्य सर्वदेवाभिपूजिताम् ।
गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः ॥ ५०॥
श्रीवत्साङ्कं न्यसेन्मूर्ध्नि पङ्कजं कवचे न्यसेत् ।
आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमम् ॥ ५१॥
विष्णुरूर्ध्वमधो रक्षेद्वैकुण्ठो विदिशो दिशः ।
पातु मां सर्वतो रामो धन्वी चक्री च केशवः ॥ ५२॥
अथ ध्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ।
वराहरूपिणं देवं संस्मरन्नर्चयञ्जपेत् ॥ ५३॥
बृहत्तनुं बृहद्गात्रं बृहद्दंष्ट्रं सुशोभनम् ।
समस्तवेदवेदाङ्गैर्युक्ताङ्गं भूषणैर्युतम् ॥ ५४।
उद्धृत्य भूमिं शिरसा मूर्ध्नि जिघ्रन्तमच्युतम् ।
उद्धृत्य भूमिं पाताले हस्ताभ्यामुपगृह्य ताम् ॥ ५५॥
आलिङ्ग्य भूमिं शिरसा मूर्ध्नि जिघ्रन्तभच्युतम् ।
रत्नवैडूर्यमुक्तादिभूषणैरुपशोभितम् ॥ ५६॥
पीताम्बरधरं देवं शुक्लमाल्यानुलेपनम् ।
त्रयस्त्रिंशत्कोटिदेवैः स्तूयमानं दिवानिशम् ॥ ५७॥
नृत्यद्भिरप्सरोभिश्च गीयमानं च किन्नरैः ।
इत्थं ध्यात्वा तथाऽऽत्मानं जपेन्नित्यमतन्द्रितः ॥ ५८॥
सुवर्णमण्डपान्तःस्थं पद्मं ध्यायेत्सकेशरम् ।
सकर्णिकैर्दलैश्चैव ह्यष्टभिः परिशोभितम् ॥ ५९॥
कलङ्करहितं देवं पूर्णचन्द्राम्बुजप्रभम् ।
तडित्समजटाशोभिकण्ठनालेन शोभितम् ॥ ६०
श्रीवत्साङ्कितवक्षःस्थं तीक्ष्णदंष्ट्रं सुलोचनम् ।
वनमालाविशोभाढ्यं मुक्ताहारोपशोभितम् ॥ ६१॥
सपङ्कजं चतुर्हस्तं तत्प्रख्यातं सुशोभनम् ।
प्रातः सूर्यसमाभ्यां वै कुण्डलाभ्यां विराजितम् ॥ ६२॥
जानूपरिन्यस्तकरद्वन्द्वरत्ननखाङ्कितम् ।
जङ्घाभरणसस्पर्धि शुभालङ्करणं त्विषः ॥ ६३॥
चतुर्थीचन्द्रसङ्काशं सुदंष्ट्रमुखपङ्कजम् ।
अतिरक्तोष्ठवदनं व्यक्तं समतिभीषणम् ॥ ६४॥
वामाङ्कस्थश्रिया युक्तं शान्तिदां तुङ्गरोहिणीम् ॥ ६५॥
अर्हणां रक्तपादां च सुभासां शुभलक्षणाम् ।
सुभ्रूं सुकेशीं सुश्रोणीं सुभुजां सुप्रभाननाम् ॥ ६६॥
सुप्रतिष्ठां च सुदतीं चतुर्हस्तां विचिन्तयेत् ।
दुकूलां चैव चार्वङ्गीं हरिणीं सर्वकामदाम् ॥ ६७॥
तप्तकाञ्चनसङ्काशां सर्वाभरणभूषिताम् ।
सुवर्णकलशप्रख्यपीनोन्नतपयोधराम् ॥ ६८॥
गृहीतमातुलुङ्गाभ्यामुद्बाहुभ्यामथान्ययोः ।
गृहीतपद्मयुगलां जाम्बूनदकरां तथा ॥ ६९॥
एवं देवीं नृसिंहस्य वामाङ्कोपरि संस्मरेत् ॥ ७०॥
अतिसुविमलगात्रं रुक्मपात्रस्थमन्नं
सुललितदधिखण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखं वामनं भावयेद्यः ॥ ७१॥
अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये ।
इति जगत्त्रितयाय जितारये निगमवाक्पटवे बटवे नमः ॥ ७२॥
शान्तं पद्मासनस्थं सकलशशिनिभं श्रीपतिं कोमलाङ्गं
हस्ते पीयूषकुम्भं दधियुतकलशं पञ्चहस्तं तथाऽन्यैः ।
पीतं वस्त्रं दधानं कटकमुकुटके हारकेयूरमालां
नानालङ्कारयुक्तं स्फटिकमणिनिभं वामनं नौमि दान्तम् ॥ ७३॥
अम्रश्यामः शुभ्रयज्ञोपवीती लसत्कौपीनो जातकृष्णाजिनश्रीः ।
छत्री दण्डी पुण्डरीकायताक्षः पायान्मायावामनो ब्रह्मचारी ॥ ७४॥
क्षीरसागरकल्लोलसीकरौघविभूषितम् ।
मणिमुक्तामये रम्ये सैकते संस्थितं शुभम् ॥ ७५॥
शुभ्रमेघविनिर्मुक्तं सुधासिक्तं सुसुन्दरम् ।
एवं वामनमात्मानं ध्यात्वाऽपामार्जनं जपेत् ॥ ७६॥
ॐ नमः परमार्थाय पुरुषाय महात्मने ।
अरूपबहुरूपाय व्यापिने परमात्मने ॥ ७७॥
निष्कल्मषाय शुद्धाय ध्यातृपापहराय च ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ७८॥
वराहाय नृसिंहाय वामनाय महात्मने ।
नमः कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ७९॥
चिकित्सानन्तरूपाय योगिने परमात्मने ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८०॥
नारायणाय विश्वाय विश्वेशायेश्वराय च ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८१॥
गोविन्दपद्मनाभाय वासुदेवाय शाङ्गिणे ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८२॥
दामोदराय देवाय अनन्ताय महात्मने ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८३॥
विष्टरश्रवसे तस्मै क्षीराम्भोनिधिशायिने ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८४॥
भक्तिप्रियाय देवाय विष्वक्सेनाय शार्ङ्गिणे ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८५॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८६॥
हिरण्यगर्भपतये हिरण्यकशिपुच्छिदे ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८७॥
चक्रहस्ताय शूराय तार्क्ष्यपत्राय धीमते ।
नमस्कृत्वा प्रणश्यामि यत्तत्सिध्यतु मे वचः ॥ ८८॥
अधोक्षजाय भद्राय श्रीधरायात्ममूर्तये ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ८९॥
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९०॥
सच्चिदानन्दरूपाय योगिने परमात्मने ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ ९१॥
योगेश्वराय गुह्याय गूढाय परमात्मने ।
नमस्कृत्वा प्रवक्ष्यामि यक्षत्सिध्यतु मे वचः ॥ ९२॥
वाराहेश नृसिंहेश वामनेश त्रिविक्रम ।
हयग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥ ९३॥
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।
अखण्डितप्रभावैस्त्वं सर्वदुःखहरो भव ॥ ९४॥
हरामुकस्य दुरितं दुष्कृतं दुरुपासितम् ।
मृत्युबाधार्तिभयदं दुरिष्टस्य च यत्फलम् ॥ ९५॥
परापध्यानसंस्थानप्रयुक्तं चाभिचारिकम् ।
गरस्पर्शमहायोगं प्रयोगं जरया जर ॥ ९६॥
हरये वासुदेवाय नमः कृष्णाय शार्ङ्गिणे ।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥ ९७॥
नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।
महाहवरिपुस्कन्धघृष्टचक्राय चक्रिणे ॥ ९८॥
दंष्ट्रोद्धृतक्षितिभृते त्रिमूर्तिपतये नमः ।
महायज्ञवराहाय शेषभोगोरुशायिने ॥ ९९॥
तप्तहाटककेशान्तज्वलत्पावकलोचन ।
वज्रायुधनखस्पर्शदिव्यसिंह नमोऽस्तु ते ॥ १००॥
तीक्ष्णैर्नखाग्रैर्यदुरो विदार्य
त्रातुं सुरान्दैत्यपतिं जघान ।
सुदर्शनं पद्मगदे च शङ्खं
बिभ्रन्नृसिंहोऽस्तु ममाभया ॥ १०१॥
काश्यपायातिह्रस्वाय ऋग्यजुःसाममूर्तये ।
तुभ्यं वामनरूपाय क्रमते गां नमो नमः ॥ १०२॥
वराहाशेषदुष्टानि सर्वपापफलानि च ।
मर्द मर्द महादंष्ट्र मर्द मर्द महीधर ॥ १०३।
नरसिंह करालास्यदन्तप्रान्तनखोज्ज्वल ।
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥ १०४॥
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।
प्रशमं सर्वदुःखानि नयत्वाशु जनार्दनः ॥ १०५॥
आद्यन्तवन्तः कवयः पुराणाः
सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
सर्वान् ज्वरान्घ्नन्तु ममानिरुद्ध-
प्रद्युम्नसङ्कर्षणवासुदेवाः ॥ १०६॥
त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः ।
स मे प्रीतः सुखं दद्यात्सर्वामयपतिर्ज्वरः ॥ १०७॥
ज्वरमन्त्रस्य कालाग्निरृषिः, महाज्वरो देवता,
गायत्री छन्दः, रोगप्रशमनार्थे जपे विनियोगः ॥ १०८॥
भस्मायुधाय विद्महे एकदंष्ट्राय धीमहि ।
तन्नो ज्वरः प्रचोदयात् ।
अङ्गवङ्गकलिङ्गेषु हूणेषु मगधेषु च ।
वाराणस्यां च यज्जातं तन्न स्मरसि रे ज्वर ॥ १०९॥
एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ।
चातुर्थिकं तथात्युग्रं तथैव सततज्वरम् ॥ ११०॥
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकज्वरम् ।
शमं नयाशु गोविन्द छिन्धि छिन्ध्याशु वेदनाम् ॥ १११॥
नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् ।
अतिकासमतिश्वासमतितापं सवेपथुम् ॥ ११२॥
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथा क्षयम् ।
कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥ ११३॥
भगन्दरातिसारांश्च मुखरोगान् सत्वग्भवान् ।
श्वित्रादीन्नखरोगांश्च त्वगस्थ्यन्तर्बहिःस्थितान् ॥ ११४॥
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ।
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ॥ ११५॥
कफोद्भवाश्च ये रोगा ये केचित्सान्निपातिकाः ।
आगन्तुकाश्च ये रोगा लूताविस्फोटकादयः ॥ ११६॥
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ।
विलयं यान्तु सर्वे ते विष्णोरुच्चारणेन तु ॥ ११७॥
क्षयं गच्छन्तु शेषास्ते चक्रेणाभिहता हरेः ।
अच्युतानन्तगोविन्दनामोच्चारणमेषजात् ॥ ११८॥
नश्यन्तु सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ ११९॥
अच्युतेति मनःपूतमनन्तेति वचः पुनः ।
गोविन्देति तनुः पूता त्वज्ञातज्ञातपातकैः ॥ १२०॥
अच्युतानन्त गोविन्द परमानन्द माधव ।
ॐ नमः सम्पुटीकृत्य जपन्नेवमधोक्षजम् ॥ १२१॥
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात्परं नास्ति न देवः केशवात्परः ॥ १२२॥
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।
दन्तोद्भूतं नखोद्भूतमाकाशप्रभवं विषम् ॥ १२३॥
लूतादिप्रभवं चैव विषमत्यन्तदुःखदम् ।
शमं नयाशु तत्सर्वं कीर्तितोऽसि जनार्दन ॥ १२४॥
ग्रहान्प्रेतग्रहांश्चैव तथा वै डाकिनीग्रहान् ।
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् ॥ १२५॥
शाकिनीपूतनादींश्च तथा वैनायकग्रहान् ।
मुखमण्डलिकान्क्रूरान् रेवतीं वृद्धरेवतीम् ॥ १२६॥
वृद्धिकाख्यांस्तथा चोग्रांस्तथा मातृग्रहानपि ।
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥ १२७॥
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ।
सटाकरालवदनो नरसिंहो महाबलः ॥ १२८॥
ग्रहानशेषान्निःशेषान् करोतु जगतो हि सः ॥ १२९॥
नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।
ग्रहानशेषान्निःशेषान् खाद खादाग्निलोचन ॥ १३०॥
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ १३१॥
व्याघ्रसिंहवराहेषु ग्रहभूतभयेषु च ।
शस्त्रक्षतेषु ये रोगा जालगर्दभकादयः ॥ १३२॥
यानि च क्रूरभूतानि प्राणिपीडाकराणि च ।
तानि सर्वाणि सर्वात्मन्परमात्मन् जनार्दन ॥ १३३॥
किञ्चिद्रूपं समाश्रित्य वासुदेवाशु नाशय ।
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालातिभीषणम् ॥ १३४॥
सर्वदुष्टप्रशमनं कुरु देववराच्युत ।
सुदर्शन महाज्वाल छिन्धि छिन्धि महायुध ॥ १३५॥
तीक्ष्णधार महावेग सूर्यकोटिसमप्रभ ।
त्रैलोक्यरक्षाकर्तस्त्वं दानवान्वयमर्दन ॥ १३६॥
ज्वलल्पावकसङ्काश छिन्धि छिन्ध्याशु वेदनाम् ।
छिन्धि वातं च लूतांश्च छिन्धि रोगं महद्विषम् ॥ १३७॥
छिन्धि छिन्धि महाव्याधीन् छिन्धि छिन्धि महाग्रहान् ।
रुजं दाहं च शूलं च निमिषजालगर्दभौ ॥ १३८॥
सुधन्वाखण्डपरशुर्दारुणो द्रविणप्रदः ।
हां हां हुं हुं फट्कारेण ठद्वयेन हन द्विषः ॥ १३९॥
सुदर्शनस्य मन्त्रेण ग्रहा यान्ति दिशो दश ॥ १४०॥
ॐ नमो भगवते भो भो सुदर्शन मम दुष्टं दारय दारय
दुरितं हन हन पापं मथ मथ आरोग्यं कुरु
हां हां हुं हुं कुरु फट् स्वाहा ॥ १४१॥
त्रैलोक्यरक्षाकर्तस्त्वमाज्ञापय जनार्दन ।
सर्वदुष्टानि रक्षांसि क्षपयारिविभीषण ॥ १४२॥
प्राच्यां रक्ष प्रतीच्यां च दक्षिणोत्तरतस्तथा ।
ईशान्यां च तथाऽऽग्नेय्यां नैरृत्यां वायुदिश्यपि ॥ १४३॥
अधरायां तथोर्ध्वायां सदा रक्षां करोत्वसौ ।
रक्षां करोतु भगवान्नरसिंहः स्वगर्जितैः ॥ १४४॥
भुव्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ।
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥ १४४॥
यया यज्ञेश्वरो विष्णुर्वेदान्तेष्वपि गीयते ।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ १४६॥
परमात्मा यथा विष्णुर्वेदान्तेष्वपिधीयते ।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ १४७॥
यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषम् ।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ १४८॥
यथा विष्णौ स्मृते सद्यः सङ्क्षयं याति पातकम् ।
तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् ॥ १४९॥
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ।
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् ॥ १५०॥
यत एवागतं पापं तत्रैव प्रतिगच्छतु ।
यदस्य दुःखं तत्सर्वं शमं नयतु माधवः ॥ १५१॥
वासुदेवशरीरोत्थैः कुशैः सम्मार्जिता मया ।
अपामार्जितगोविन्दो नरो नारायणो भवेत् ॥ १५२॥
ममास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः ।
शान्ताः समस्तरोगास्ते ग्रहाः सर्वे विषादयः ॥ १५३॥
भूतानि प्रशमं यान्तु स्मृते च मधुसूदने ।
एतत्समस्तरोगेषु ग्रहभूतभयेषु च ।
अपामार्जनकं शस्त्रं विष्णोर्नामाभिमन्त्रितम् ॥ १५४॥
एते कुशा विष्णुशरीरसम्भवा
जनार्दनाग्रे स्वयमेव चागताः ।
हतो मया दुष्टमशेषमस्य
स्वस्थो भवत्वेष यथा वचो हरेः ॥ १५५॥
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ।
यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणार्णवे ॥ १५६॥
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् ।
यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥ १५७॥
एतद्रोगादिपीडासु जन्तूनां हितकाम्यया ।
विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् ॥ १५८॥
अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयम् ।
सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैव हि ॥ १५९॥
य इदं धारयेद्विद्वान् श्रद्धाभक्तिसमन्वितः ।
ग्रहास्तं नोपसर्पन्ति न रोगा न च राक्षसाः ॥ १६०॥
धन्यो यशस्वी शत्रुघ्नः स्तवोऽयं मुनिसत्तम ।
पठतां शृण्वतां चैव ददाति परमां गतिम् ॥ १६१॥
इति श्रीविष्णुधर्मोत्तरे विष्णुरहस्ये पुलस्त्यदाल्भ्यसंवादे
श्रीविष्णोरपामार्जनस्तोत्रं सम्पूर्णम् ॥
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):