अक्षर आकार:

श्रीविष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रम्

shrIviShNorakArAdyaShTottarashatanAmastotram

श्रीविष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रम्

(श्रीविष्णुसहस्रनामावल्यन्तर्गतं) (सभाष्यम्) ओक्षरोऽजोऽच्युतोऽमोघोऽनिरुद्धोऽनिमिषोऽग्रणीः । अव्ययोऽनादिनिधनोऽमेयात्माऽसम्मितोऽनिलः ॥ १॥ अप्रमेर्योऽव्ययोऽग्राह्योऽमृतोऽव्यङ्गोऽच्युतोऽतुलः । अतीन्द्रोऽतीन्द्रियोऽदृश्योऽनिर्देश्यवपुरन्तकः ॥ २॥ अनुत्तमोऽनघोऽमोघोऽप्रमेयात्माऽमिताशनः । अहःसवर्तकोऽनन्तजिदभूरजितोऽच्युतः ॥ ३॥ असङ्ख्येयोऽमृतवपुरर्थोऽनर्थोऽमितविक्रमः । अविज्ञाताऽरविन्दाक्षोऽनुकूलोऽहरपान्निधिः ॥ ४॥ अमृतांशूद्भवोऽमृत्युरमरप्रभुरक्षरः । अभोनिधिरनन्तात्माऽजोऽनलोऽसदधोक्षजः ॥ ५॥ अशोकोऽमृतपोऽनीशोऽनिरुद्धोऽमितविक्रमः । अनिर्विण्णोऽनयोऽनन्तोऽविधेयात्माऽपराजितः ॥ ६॥ अधिष्ठानमनन्तश्रीरप्रमत्तोऽप्ययोऽग्रजः । अयोनिजोऽनिवर्त्यर्कोऽनिर्देश्यवपुरर्चितः ॥ ७॥ अर्चिष्मानप्रतिरथोऽनन्तरूपोऽपराजितः । अनामयोऽनलोऽक्षोभ्योऽनेकमूर्तिरमूर्तिमान् ॥ ८॥ अमृताशोऽचलोऽमान्यधृतोऽणुरनिलोऽद्भुतः । अमूर्तिरर्होऽभिप्रायोऽचिन्त्योऽनिर्विण्ण एव च ॥ ९॥ अनादिरन्नमन्नादोऽजोऽव्यक्तोऽक्रूर एव च । अमेयात्माऽनधोऽश्वत्थोऽक्षोभ्योऽरौद्र एव च ॥ १०॥ अधाताऽनन्त इत्येवं नाम्रामष्टोत्तरं शतम् । विष्णोः सहस्रनामभ्योऽकारादि समुद्धृतम् ॥ ११॥ स्मृतं श्रुतमधीतं तत्प्रसादादघनाशनम् । ध्यातं चिराय तद्भावप्रदं सर्वार्थसाधकम् ॥ १२॥ इति विष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।