अक्षर आकार:

श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम्

shrIviShNorakArAdyaShTottarashatanAmArthavivaraNam

श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम्

(श्रीविष्णुसहस्रनामावल्यन्तर्गतं) अतीतोऽ यं क्षरं यस्मात् अक्षरः प्रोच्यते ततः । १७ अयं न जायते यस्मात् अज इत्युच्यते ततः ॥ ९५ अयं न च्यवते यस्मात्स्वस्थितेरच्युतस्ततः । १०० अमोघो यस्य सङ्कल्पो मोघो च स्यात्कदाचन ॥ ११० अनिरुद्धो न केनापि निरुद्धः संयुगादिषु । १८५ अयं ह्यनिमिषो नित्यं जागरूकोऽवनादिषु ॥ २१५ अग्रे सर्वस्य नेतृत्वाद् अग्रणीः उच्यते प्रभुः । २१८ अव्ययोऽयं सर्वगतिःन व्येति च कुतश्चन ॥ १३ अनादित्वादनन्तत्वात् अनादिनिधनो ह्यसौ । ४३ अमेयात्मा यतो ह्यात्मा मानैर्मातुं च शक्यते ॥ १०१ असम्मितो यतो नास्य देशकालव्यवस्थितिः । १०८ अनिलो यस्य नाधारः सर्वभूतधरो ह्यसौ ॥ २३४ अगम्यत्वात्प्रमाणानां अप्रमेय इति स्मृतः । ४७ अपक्षयविहीनत्वात्पुनरेवायमव्ययः ॥ ३१ अग्राह्यात्वान्मनोवाचांअग्राह्य इति कीर्त्यते । ५६ अमृतः कीर्तितो यस्मान्नित्यो मरणवर्जितः ॥ ११९ अव्यङ्गो हरिरेवस्याद्यतः सर्वाङ्गसुन्दरः । १२९ अच्युतोऽयं यतो भक्तान्न कदापि विमुञ्चति ॥ १०० अतुलो यस्य नास्त्येव सदृशो भुवनत्रये । ३५५ अतीन्द्रोऽयं यतो वीर्यादिन्द्रमत्येति भूरिशः ॥ १५७ अतीन्द्रियो यतोऽगम्य इन्द्रियैश्चक्षुरादिभिः । १६९ अग्राह्यश्चक्षुषा बुद्ध्या ततोऽदृश्यः स उच्यते ॥ ५६ अशक्यत्वात्सुनिर्देष्टुमनिर्देश्यवपुः स्मृतः । १७७ अन्तकत्वात्स सर्वेषां प्राणिनामन्तकः स्मृतः ॥ ५२० अनुत्तमो यतस्तस्मादुत्तमो नैव विद्यते । ८१ अनघोऽयं सदा शुद्धः पापसंसर्गवर्जितः ॥ १४६ अमोघा यस्य पादाब्जसेवा मोघा कदापि न । १५४ अयं स्यादप्रमेयात्मा यः प्रत्यक्षाद्यगोचरः ॥ २४८ अशेषस्यापि लोकस्य ह्यत्तृत्वादमिताशनः । ३७२ अहः संवर्तको यस्माद्दिवसानां प्रवर्तकः ॥ २३२ अनन्तजिद्यतो जेता सर्वेषामपि युध्यताम् । ३०७ अनुत्पन्नः कदापीति सोऽभूरित्यभिधीयते ॥ ४३७ अजितो यो न केनापि कदाचिदपि निर्जितः ॥ ५४९ अच्युतः सततं सिद्धः च्युतिहेतोरभावतः ॥ ५५२ अनन्तगुणसम्पत्तेः असङ्ख्येयः स उच्यते । २४७ एष एवामृतवपुः यद्वपुर्मृतिवर्जितम् ॥ ८१४ अर्थोऽसावर्थ्यमानत्वात्पुरुषार्थस्वरूपतः । ४३० अनर्थोऽयं यतो लोके तेन प्रार्थ्यं च किञ्चन ॥ ४८१ अमेयो विक्रमो यस्य प्रोच्यतेऽमितविक्रमः । ५१६ अविज्ञाता यतो भिन्नो विज्ञातुः जीवशब्दितात् ॥ ४८२ अक्षिणी यस्य पद्माभे सोऽरविन्दाक्ष ईर्यते । ३४७ अनुकूलः स सर्वेषां स्थितिरक्षणतत्परः ॥ ३४२ अहस्करस्वरूपत्वादेषोऽप्यहरितीर्यते । ९० अपां निधिर्यतस्तस्य स्याद्विभूतिर्हि सागरः ॥ ३२३ अमृतांशूद्भवस्तस्मात् चन्द्रस्यापि समुत्थितेः । २८३ अमृत्युः स यतो मृत्योरपि मृत्युर्भवत्यसौ ॥ १९८ अमराणामशेषाणां प्रभुत्वादमरप्रभुः । ४९ अक्षरो च क्षरत्येष सच्चिदानन्दलक्षणात् ॥ १७ अगाधत्वाद्गभीरत्वादम्भोनिधिरिति स्मृतः । ५१७ अशेषवस्तुरूपत्वादनन्तात्मेति विश्रुतः ॥ ५३८ अज इत्युच्यते विष्णुर्विराड्रूपेण संस्थितेः । २०४ अनलः कीर्त्यते विष्णुः परञ्ज्योतिःस्वरूपतः ॥ २९३ असदित्युच्यते तस्य नागरूपाद्यभावतः । ४७९ अधः कृत्वाऽक्षजा वृत्तीः ज्ञेयस्तस्मादधोक्षजः ॥ ४१५ अशोको नित्यमेवासौ नित्यानन्दस्वरूपतः । ३३६ निजानन्दसुधापाननिरतोऽमृतपः स्मृतः । अनीशः खलु सर्वेषां ईशानोऽयमिति स्मृतेः । ६२६ अशेषबन्धनिर्मुक्तो योऽनिरुद्धः स एव हि । ६३८ अनवच्छिन्नशौर्यत्वात्प्रोच्यतेऽमितविक्रमः ॥ ६४१ अनिर्विण्णः सदैवासौ नित्यतृप्तस्वभावतः । ४२५ अनयोऽयं यतो नेता नास्ति लोकत्रयेऽपि च ॥ ४०० अनन्तो योऽपरिच्छिन्नो देशकालान्यवस्तुभिः । ५२८ अयमेवाविधेयात्मा स्वतन्त्रः सर्वथा सदा । ६२१ अपराजित इत्युक्तो यस्य नास्ति पराजितिः ॥ ७१६ अधिष्ठानं प्रपञ्चस्य मायाकल्पितवस्तुनः । ३२४ अनन्तं यस्य चैश्वर्यं अनन्तश्रीः स एव हि ॥ ९३३ अप्रमत्तो भवेद्यस्मात्प्रमादरहितः सदा । ३२५ अशेषस्य लये मुक्तौ प्राप्यत्वादप्ययः सदा ॥ ९०० अशेषाणां च भूतानां पुरा सिद्धोऽग्रजः स्मृतः । ८९१ अयोनिजो यतो नास्य कर्माधीना जनिर्भवेत् ॥ ५७३ अनिवर्ती निवर्तन्ते यं प्राप्य न कदाचन । ५९६ अर्को भास्करमध्यस्थज्योतीरूपेण संस्थितेः ॥ ७९५ अनिर्देश्यवपुर्यस्मान्निर्देशार्हं न तद्वपुः । ६५६ अशेषैः पूज्यमानैश्च पूज्यमानोऽर्चितः खलु ॥ ६३४ अर्चिस्मान्दीप्तिमानेष स्वयञ्ज्योतिः स्वभावतः । ६३३ रथी चास्य समो नैव तेनाप्रतिरथः स्मृतः ॥ ६३९ अन्तो नास्त्यस्य रूपस्यानन्तरूपो भवत्यतः । ९३२ अनिशं जयशीलोऽसौ तस्मात्प्रोक्तोऽपराजितः ॥ ८६२ अनामयो यतो व्याधिराधिर्वाऽस्य च जायते । ६८९ अनलोऽग्निसमानोऽयं तेजःपुञ्जस्वभावतः ॥ ७११ अस्य क्षोभणकृन्नैव विद्यतेऽक्षोभ्य एव सः । ९९९ अनेकमूर्तरित्युक्तः सर्वास्तस्यैव मूर्तयः ॥ ७२१ अमूर्तिमान्निगूढत्वान्मूर्तिमत्स्वखिलेष्वपि । ७२० अमृताशः स्वयं चाश्नत्प्राशयत्यमृतं सुरान् ॥ ८१३ अचलो व्याप्तरूपत्वात्क्वचित् चलनवर्जितः । ७४५ अहङ्कारादिमानित्वरिक्तोऽमानीति कीर्त्यते ॥ ७४७ अधृतोऽन्येन केनापि स्वयं धत्तेऽखिलं जगत् ॥ ८४२ अणीयान्न यतः कश्चित्तस्मादणुरिति स्मृतः ॥ ८३५ अनिलो वायुरूपेण चेष्टयत्यखिलं जगत् । ८१२ अचिन्त्यरचनारूपजगत्स्रष्टाऽद्भुतः किल ॥ ८९५ अमूर्तिः स यतस्तस्य मूर्तिः काऽपि न विद्यते । ८३० अर्हः पूज्यतमैः सर्वैः पूज्यमानो निरन्तरम् ॥ ८७० अभिप्रायः स सर्वेषां प्राणिनां मनसि स्थितः । ८७१ अचिन्त्योऽयं यतश्चिन्ताविषयो न कदाचन ॥ ८३२ अनिर्विण्णः सदाऽऽनन्दी निर्वेदस्याप्रसक्तितः । ८९२ अजन्यत्वात्सदासिद्धो ह्यनादिः स सनातनः ॥ ९४१ अयं भोज्यस्वरूपेण स्थितत्वादन्नमुच्यते । ९८३ अयं भोक्तृस्वरूपेण तिष्ठन्नन्नाद उच्यते ॥ ९८४ अनुत्पन्नस्वभावत्वादज इत्युच्यते बुधैः । ५२१ अव्यक्तो नामरूपादिव्यञ्जकानामभावतः ॥ ७२२ अक्रूरः कूरचेष्टानां हिंसादीनां विवर्जनात् । ९१५ अमेयात्मा न मानार्हः आत्मा यस्य च केनचित् ॥ १७९ अघस्पर्शविहीनत्वादनघः सर्वदाऽपि सः । ८३१ अश्वत्थः प्रोच्यते देवोऽस्थिरलोकस्वरूतः ॥ ८२४ अक्षोभ्यः क्षोभ्यमाणोऽपि न क्षुब्धो भवति क्वचित् । ९९९ अरौद्रो रौद्रवृत्तीनां क्रोधादीनामभावतः ॥ ९०६ अन्यधातृविहीनत्वादधातेति स कीर्त्यते । ९५१ अन्तवत्सु स्थितोऽप्येष ह्यनन्तो नाशवर्जितः ॥ ५३६ इति श्रीज्ञानानन्दभारतीस्वामिविरचितं विष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणं सम्पूर्णम् ।