अक्षर आकार:

विष्णोरष्टोत्तरशतनामस्तोत्रम्

Vishnorashtottarashatanamastotram

विष्णोरष्टोत्तरशतनामस्तोत्रम्

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । दामोदरो दीनबन्धुरादिदेवोऽदितेः सुतः ॥ १॥ पुण्डरीकः परानन्दः परमात्मा परात्परः । परशुधारी विश्वात्मा कृष्णः कलिमलापहः ॥ २॥ कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः । हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ ३॥ हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः । वामनो वेदवक्ता च वासुदेवः सनातनः ॥ ४॥ रामो विरामो विरजो रावणारी रमापतिः । वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥ ५॥ धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ६॥ सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः । कौसल्यानन्दनः श्रीमान् रक्षःकुलविनाशकः ॥ ७॥ जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा । जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥ ८॥ क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा । शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ॥ ९॥ माधवो मधुरानाथो मोहदो मोहनाशनः । दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥ १०॥ सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः । नित्यो निरामयः शुद्धो नरदेवो जगत्प्रभुः ॥ ११॥ हयग्रीवो जितरिपुरुपेन्द्रो रुक्मणीपतिः । सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥ १२॥ साम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः । यशोदातनयो योगी योगशास्त्रपरायणः ॥ १३॥ रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूदनः । इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १४॥ सर्वपापहरं पुण्यं विष्णोरमिततेजसः । दुःखदारिद्रयदौर्भाग्यनाशनं सुखवर्धनम् ॥ १५॥ सर्वसम्पत्करं सौम्यं महापातकनाशनम् । प्रातरुत्थाय विप्रेन्द्र पठेदेकाग्रमानसः । तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ १६॥ इति शाक्तप्रमोदतः विष्णोः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।