अक्षर आकार:

श्रीविष्णवष्टोत्तरशतनामस्तोत्रम्

shrIviShNavaShTottarashatanAmastotram

श्रीविष्णवष्टोत्तरशतनामस्तोत्रम्

नमाम्यहं हृषीकेशं केशवं मधुसूदनम् । सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १॥ जयन्तं विजयं कृष्णं अनन्तं वामनं तथा । विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सुरार्चितम् ॥ २॥ अनघं त्वघहर्तारं नारसिंहं श्रियः प्रियम् । श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ ३॥ श्रीरामं माधवं मोक्षक्षमारूपं जनार्दनम् । सर्वज्ञं सर्ववेत्तारं सर्वेशं सर्वदायकम् ॥ ४॥ हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम् । आनन्दज्ञानसम्पन्नं ज्ञानदं ज्ञानदायकम् ॥ ५॥ अच्युतं सबलं चन्द्रवक्त्रं व्याप्तपरावरम् । योगेश्वरं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ ६॥ मुकुन्दं चापि वैकुण्ठमेकरूपं कविं ध्रुवम् । वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ ७॥ गोप्रियं गोहितं यज्ञं यज्ञाङ्गं यज्ञवर्धनम् । यज्ञस्यापि च भोक्तारं वेदवेदाङ्गपारगम् ॥ ८॥ वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् । प्रत्यक्षं च महाहंसं शङ्खपाणिं पुरातनम् ॥ ९॥ पुष्करं पुष्कराक्षं च वराहं धरणीधरम् । प्रद्युम्नं कामपालं च व्यासध्यातं महेश्वरम् ॥ १०॥ सर्वसौख्यं महासौख्यं साङ्ख्यं च पुरुषोत्तमम् । योगरूपं महाज्ञानं योगीशमजितप्रियम् ॥ ११॥ असुरारिं लोकनाथं पद्महस्तं गदाधरम् । गुहावासं सर्ववासं पुण्यवासं महाजनम् ॥ १२॥ वृन्दानाथं बृहत्कायं पावनं पापनाशनम् । गोपीनाथं गोपसखं गोपालं च गणाश्रयम् ॥ १३॥ परात्मानं पराधीशं कपिलं कार्यमानुषम् । नमामि निखिलं नित्यं मनोवाक्कायकर्मभिः ॥ १४॥ नाम्नां शतेनापि तु पुण्यकर्ता यः स्तौति विष्णुं मनसा स्थिरेण । स याति लोकं मधुसूदनस्य विहाय दोषानिह पुण्यभूतः ॥ १५॥ नाम्नां शतं महापुण्यं सर्वपातकशोधनम् । अनन्यमनसा ध्याजेज्जपेद्ध्यानसमन्वितः ॥ १६॥ नित्यमेव नरः पुण्यं गङ्गास्नानफलं लभेत् । तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ १७॥ इति श्रीविष्णवष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।