अक्षर आकार:

श्रीवेङ्कटेशसुप्रभातम्

Shri Venkatesha Suprabhatam

श्रीवेङ्कटेशसुप्रभातम्

सुप्रभातम् प्रपत्ति मङ्गलाशासनं स्तोत्रम् सहितम् ॥ श्रीः ॥ ॥ अथ श्रीवेङ्कटेशसुप्रभातम् ॥ कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ ४॥ अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५॥ पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल- पूगद्रुमादिसुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८॥ तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९॥ भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीत निनदैःसह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १०॥ योषागणेन वरदध्निविमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥ श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥ श्रीशेषशैलगरुडाचलवेङ्कटाद्रि नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥ सेवापराः शिवसुरेशकृशानुधर्म- रक्षोऽम्बुनाथपवमानधनाधिनाथाः । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥ घाटीषु ते विहगराजमृगाधिराज- नागाधिराजगजराजहयाधिराजाः । स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥ सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः । त्वद्दासदासचरमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥ त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः । कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥ श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्त गरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥ श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिन्ह शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥ कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुट्मललोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥ मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥ एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽऽद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ २६॥ ब्रह्मादयः सुरवरास्समहर्षयस्ते सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः । धामान्तिके तव हि मङ्गलवस्तु हस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥ लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्य निजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥ इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९॥ ॥ इति वेङ्कटेशसुप्रभातम् ॥ ॥ अथ वेङ्कटेशस्तोत्रम् ॥ कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो । कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥ १॥ सचतुर्मुखषण्मुखपञ्चमुख- प्रमुखाखिलदैवतमौलिमणे । शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ २॥ अतिवेलतया तव दुर्विषहैः अनुवेलकृतैरपराधशतैः । भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥ ३॥ अधिवेङ्कटशैलमुदारमते जनताभिमताधिकदानरतात् । परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये ॥ ४॥ कलवेणुरवावशगोपवधू शतकोटिवृतात्स्मरकोटिसमात् । प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥ ५॥ अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते । रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥ ६॥ अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् । रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥ ७॥ सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् । अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥ ८॥ विना वेङ्कटेशं नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि । हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९॥ अहं दूरतस्ते पदाम्भोजयुग्म- प्रणामेच्छयाऽऽगत्य सेवां करोमि । सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ १०॥ अज्ञानिना मया दोषान् अशेषान्विहितान् हरे । क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥ ११॥ ॥ इति वेङ्कटेशस्तोत्रम् ॥ ॥ अथ वेङ्कटेशप्रपत्ति ॥ ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥ श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २॥ आनूपुरार्पितसुजातसुगन्धिपुष्प सौरभ्यसौरभकरौ समसन्निवेशौ । सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३॥ सद्योविकासिसमुदित्वरसान्द्रराग- सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४॥ रेखामयध्वजसुधाकलशातपत्र वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्व चिन्हैः श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५॥ ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६॥ सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७॥ लक्ष्मीमहीतदनुरूपनिजानुभाव- नीलादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८॥ नित्यान्नमद्विधिशिवादिकिरीटकोटि- प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः । नीराजनाविधिमुदारमुपादधानौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९॥ विष्णोः पदे परम इत्युतिदप्रशंसौ यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १०॥ पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिह तौ करदर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११॥ मन्मूर्ध्नि कालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२॥ अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ । आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३॥ प्रायः प्रपन्नजनता प्रथमावगाह्यौ मातुस्स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४॥ सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन संसारतारकदयार्द्र दृगञ्चलेन । सौम्योपयन्तृमुनिना मम दर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५॥ श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६॥ ॥ इति वेङ्कटेशप्रपत्ति ॥ ॥ अथ वेङ्कटेशमङ्गलाशासनम् ॥ श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १॥ लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २॥ श्रीवेङ्कटाद्रिश‍ृङ्गाङ्ग्रमङ्गलाभरणाङ्घ्रये मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३॥ सर्वावयवसौन्दर्यसम्पदा सर्वचेतसां सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४॥ नित्याय निरवद्याय सत्यानन्दचिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ५॥ स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् ॥ ६॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७॥ आकालतत्त्वमश्रान्तं आत्मनामनुपश्यतां अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८॥ प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ९॥ दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १०॥ स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११॥ श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२॥ श्रीमत्सुन्दरजामातृमुनिमानसवासिने सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३॥ मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४॥ ॥ इति वेङ्कटेशमङ्गलाशासनम् ॥ ॥ ॐ तत्सत् ॥