अक्षर आकार:

श्रीवेंकटेश्वर वज्रकवचम्स्तोत्रम्

shrI venkaTeshvara vajra kavacha stotram

श्रीवेंकटेश्वर वज्रकवचम्स्तोत्रम्

मार्कण्डेय उवाच - नारायणं परब्रह्म सर्वकारणकारकम् । प्रपद्ये वेङ्कटेशाख्यं वन्दे कवचमुत्तमम् ॥ १॥ var तदेव कवचं मम सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरोवतु । प्राणेशः प्राणनिलयः प्राणान् रक्षतु मे हरिः ॥ २॥ आकाशराट् सुतानाथ आत्मानं मे सदावतु । देवदेवोत्तमः पाया द्देहं मे वेङ्कटेश्वरः ॥ ३॥ सर्वत्र सर्वकालेषु मंगांबाजानिरीश्वरः । पालयेन्मां कर्मसाफल्यं सः प्रयच्छ ॥ ४॥ var पालयेन्मामका कर्मसफल्य नः प्रयच्छतु य एतद्वज्रकवचमभेद्यं वेङ्कटेशितु । सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ ५॥ ॥ इति श्री वेङ्कटेश्वर वज्रकवच स्तोत्रम् सम्पूर्णं ॥