अक्षर आकार:

श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रम् ४

shrIvenkaTeshAShTottarashatanAmastotram 4

श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रम् ४

ऋषय ऊचुः । सूत सर्वार्थतत्त्वज्ञ सर्ववेदाङ्गपारग । येनचाराधितः सद्यः श्रीमद्वेंकटनायकः ॥ १॥ भवत्यभीष्टसर्वार्थप्रदस्तद्ब्रूहि नो मुने । इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत् क्षणात् ॥ उवाच मुनिशार्दूल श्रूयतामिति वै मुनीन् ॥ २॥ ॥ श्रीसूत उवाच॥ अस्ति किंचिन्महद्गोप्यं भगवत्प्रियकारकम् । पुरा शेषेण कथितं कपिलाय महात्मने ॥ ३॥ नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम् । आदाय हेमपद्मानि स्वर्णदीसंभवानि च ॥ ४॥ ब्रह्मा वै पूर्वमभ्यर्च्य श्रीमद्वेंकटनायकम् । अष्टोत्तरशतैर्दिव्यैर्नामभिर्मुनिपुष्पकैः ॥ ५॥ स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः । भवद्भिरपि पद्मैश्च समभ्यर्च्य च नामतः ॥ ६॥ तेषां शेषनगाधीशो मनसो ह्लादकारकः । नाम्नामष्टशतं पुण्यं वेंकटाद्रिनिवासिनः ॥ ७॥ आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम् । ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥ ८॥ अर्चयेन्नामभिर्दिव्यैः वेंकटेशपदांतिकैः । नाम्नामष्टशतस्यास्य ऋषिर्बहुः प्रकीर्तितः ॥ ९॥ छंदोऽनुष्टुप् तथा देवो वेंकटेश उदाहृतः । नीलगोक्षीरसंभूतो बीजमित्युच्यते बुधैः ॥ १०॥ श्रीनिवासस्तथा शक्तिर्हृदयं वेंकटाधिपः । विनियोगस्तथाऽभीष्टसिद्ध्यर्थे विनिगद्यते ॥ ११॥ ॐ नमो वेंकटेशाय शेषाद्रिनिलयाय च । वृषदृग्गोचरायाथ विष्णवे सततं नमः ॥ १२॥ सदंजनगिरीशाय वृषाद्रिपतये नमः । मेरुपुत्रगिरीशाय सरस्स्वामितटं जुषे ॥ १३॥ कुमारकल्पसेव्याय वज्रदृग्विषयाय च । सुवर्चलासुतान्यस्त-सेनापत्यकराय च ॥ १४॥ रामाय पद्मनाभाय सदा वायुस्तुताय च । त्यक्तवैकुण्टलोकाय गुह्यकुंजविहारिणे ॥ १५॥ हरिचंदनगोप्तेंद्रस्वामिने सततं नमः । शंकरऽजननेत्राब्जविषयाय नमो नमः ॥ १६॥ वसूपरिचरित्राय कृष्णाय सततं नमः । अब्धिकन्यापरिष्वक्तवक्षसे वेंकटाय च ॥ १७॥ सनकादिमहायोगिपूजिताय नमो नमः । देवजित्प्रमुखानंतदैत्यसंघप्रणासिने ॥ १८॥ श्वेतद्वीपे वसन्मुक्तपूजितांघ्रियुगाय च । शेषपर्वतरूपत्वप्रशासनवराय च ॥ १९॥ प्रकाशनपराय सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने । मायागूढविमानाय गरुडस्कन्धवासिने ॥ २०॥ अनंतशिरसे नित्यमनंताक्षाय ते नमः । अनंतचरणाय श्रीशैलनिलयाय च ॥ २१॥ दामोदरय ते नित्यं नीलमेघनिभाय च । ब्रह्मादिदेवदृष्टाय विश्वरूपाय ते नमः ॥ २२॥ वेंकटागतसद्धेमविमानांतर्गताय च । अगस्त्यार्चिताशेषजनदृग्विषयाय च ॥ २३॥ वासुदेवाय हरये तीर्थपंचकवासिने । वामदेवप्रियायाथ जनकेष्टप्रदाय च ॥ २४॥ वाक्पतिब्रह्मधात्रे च चंद्रलावण्यदायिने । मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥ २५॥ नारायणनगेशाय ब्रह्मकॢप्तोत्सवाय च । शंकचक्रगदापद्मलसत्करतलाय च ॥ २६॥ द्रवन्मृगमदासक्तविग्रहाय नमो नमः । केशवाय नमस्तुभ्यं नित्ययौवनमूर्तये ॥ २७॥ अर्थितार्थप्रदात्रे च विश्वतोर्थौघहारिणे । तीर्थस्वामिसरःस्नातजनाभीष्टप्रदाय च ॥ २८॥ कुमारधारिकास्कन्दमह्यशक्ति-प्रदाय च । जमदग्निसमद्भूतपौत्रिणे कूर्ममूर्तये ॥ २९॥ किन्नरद्वंद्वशापांतप्रदात्रे माधवाय च । वैखानसमुनिश्रेष्ठ-पूजिताय नमो नमः ॥ ३०॥ सिंहाचलनिवासाय श्रीमन्नारायणाय च । सद्भक्तनीलकण्ठाय नृसिंहाय नमो नमः ॥ ३१॥ कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय च । दुर्मेधःप्राणहर्त्रे च वामनाय नमो नमः ॥ ३२॥ क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः । पाण्डवाघप्रहर्त्रे च श्रीधराय नमो नमः ॥ ३३॥ उपत्यकाप्रदेशस्थशंकरध्यानमूर्तये । रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥ ३४॥ लसल्लक्ष्मीकरांभोजदत्तकल्हारकस्रजे । शालिग्रामनिवासाय शुकदृग्विषयाय च ॥ ३५॥ नारायणार्थिताशेषजनदृग्विषयाय च । मृगयारसिकायाथ वृषभासुरहारिणे ॥ ३६॥ अंजनागोत्रपतये वृषभाचलवासिने । अंजनासुतदात्रे च माधवस्याघहारिणे ॥ ३७॥ प्रियाङ्गप्रियकोलाय श्वेतकोलवराय च । नीलधेनुपयोधारासेकदेहोद्भवाय च ॥ ३८ । सगरप्रियमित्राय चोलपुत्रप्रियाय च । सुधर्मिणे सुचैतन्यप्रदात्रे मधुघातिने ॥ ३९॥ कृष्णाख्यविप्रवेदान्तदेशिकत्व प्रियाय च । वराहाचलनाथाय बलभद्राय ते नमः ॥ ४०॥ त्रिविक्रमाय महते हृषीकेशाय ते नमः । अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥ ४१॥ नमः क्षीराब्धिनाथाय वैकुंठाचलवासिने । मुकुंदाय नमो नित्यं अनंताय नमो नमः ॥ ४२॥ विरिंचभ्यर्तितानीतसौम्यरूपाय ते नमः । सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥ ४३॥ हलायुधजगत्तीर्थसमस्तफलदायिने । गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥ ४४॥ अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसान्वितम् । यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥ ४५॥ वेंकटेशाभिधे यंत्रे वेंकटाद्रिनिवासिनः । अर्चयन्नामभिस्तस्य फलमुक्तं प्रसिध्यते ॥ ४६॥ अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् । तस्य श्रीवेंकटेशश्च प्रसन्नो भवति ध्रुवम् ॥ ४७॥ गोपनीयमिदं स्तोत्रं सर्वेषां न प्रकाशयेत् । श्रद्धाभक्तियुजामेव दापयेन्नामसंग्रहम् ॥ ४८॥ इति शेषेण कथितं कपिलाय महात्मने । कपिलाख्यमहायोगिसकाशात्तु मयाश्रुतम् । तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥ ४९॥ ॥ इति श्रीवराहपुराणे श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥