अक्षर आकार:

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३

shrIve~NkaTeshvarAShTottarashatanAmastotram 3

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३

॥ श्रीः ॥ ॥ सिद्धाः ऊचुः॥ भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् । अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥ १॥ ॥ नारद उवाच॥ सावधानेन मनसा श‍ृन्वन्तु तदिदं शुभम् । जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥ २॥ ओङ्कारपरमार्थश्च नरनारायणात्मकः । मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥ ३॥ करुणापूर्णहृदयः टेङ्कारजपसौख्यदः । शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥ ४॥ भक्तलोकैकवरदो वरेण्यो भयनाशनः । यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥ ५॥ रमावतारमङ्गेशो णाकारजपसुप्रियः । यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥ ६॥ रक्षस्सन्दोहसंहर्त्रा वर्चस्वी रघुपुङ्गवः । दानधर्मपरो याजी घनश्यामलविग्रः ॥ ७॥ हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः । श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥ ८॥ त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः । सर्वेशो कमलाकान्तो लक्ष्मीसल्लापसम्मुखः ॥ ९॥ चतुर्मुखप्रतिष्टाता राजराजवरप्रदः । चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः ॥ १०॥ दासवर्गपरित्राता नारदादिमुनिस्तुतः । यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः ॥ ११॥ लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रः । माधवो लोकनाथश्च लालिताखिलसेवकः ॥ १२॥ यक्षगन्धर्ववरदः कुमारो मातृकार्चितः । रटद्पालकपोषी च शेषशैलकृतस्थलः ॥ १३॥ षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः । तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दोत्सवः ॥ १४॥ द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः । शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः ॥ १५॥ जाग्रद्रहस्यावासश्च यः शिष्टपरिपालकः । वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम् ॥ १६॥ कार्तिकेयवपुर्धारी यतिशेखरभावितः । नरकादिभयध्वंसी रथोत्सवकलाधरः ॥ १७॥ लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् । शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः ॥ १८॥ मानसंरक्षणपरः इरिणाङ्कुरधान्यदः । नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥ १९॥ हिरण्यदानग्राही च मोहजालनिकृन्तनः । दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥ २०॥ यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः । सारपुष्करणीतीरे रात्रौदेवगणार्चितः ॥ २१॥ यत्नवत्फलधाता श्रीञ्जपाद्धनवृद्धिकृत् । क्लीङ्कारजापी काम्यार्थप्रदानदयान्तरः ॥ २२॥ स्वसर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः । मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥ २३॥ राजीवलोचनो यज्ञवराहो गणवेङ्कटः । तेजोराशीक्षणस्स्वामी हार्दाविद्यादिवारणः ॥ २४॥ इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् । प्रातःप्रातस्समुत्ताय यः पटेद्भक्तिमान्नरः ॥ २५॥ सर्वेष्टार्थानवाप्नोति वेङ्कतेशप्रसादतः ॥ २६॥ ॥ इति श्रीसनत्कुमारसंहितान्तर्गतं श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥