अक्षर आकार:

श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः

shrI ve~NkaTeshAShTottarashatanAmAvaliH

श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः

॥ श्रीः॥ ॐ ओंकारपरमर्थाय नमः । ॐ नरनारायणात्मकाय नमः । ॐ मोक्षलक्ष्मीप्राणकान्ताय नमः । ॐ वेंकटाचलनायकाय नमः । ॐ करुणापूर्णहृदयाय नमः । ॐ टेङ्कारजपसुप्रीताय नमः । ॐ शास्त्रप्रमाणगम्याय नमः । ॐ यमाद्यष्टाङ्गगोचराय नमः । ॐ भक्तलोकैकवरदाय नमः । ॐ वरेण्याय नमः ॥ १०॥ ॐ भयनाशनाय नमः । ॐ यजमानस्वरूपाय नमः । ॐ हस्तन्यस्तसुदर्शनाय नमः । ॐ रमावतारमंगेशाय नमः । ॐ णाकारजपसुप्रीताय नमः । ॐ यज्ञेशाय नमः । ॐ गतिदात्रे नमः । ॐ जगतीवल्लभाय नमः । ॐ वराय नमः । ॐ रक्षस्सन्दोहसंहर्त्रे नमः ॥ २०॥ ॐ वर्चस्विने नमः । ॐ रघुपुङ्गवाय नमः । ॐ धानधर्मपराय नमः । ॐ याजिने नमः । ॐ घनश्यामलविग्रहाय नमः । ॐ हरादिसर्वदेवेड्याय नमः । ॐ रामाय नमः । ॐ यदुकुलाग्रणये नमः । ॐ श्रीनिवासाय नमः । ॐ महात्मने नमः ॥ ३०॥ ॐ तेजस्विने नमः । ॐ तत्त्वसन्निधये नमः । ॐ त्वमर्थलक्ष्यरूपाय नमः । ॐ रूपवते नमः । ॐ पावनाय नमः । ॐ यशसे नमः । ॐ सर्वेशाय नमः । ॐ कमलाकान्ताय नमः । ॐ लक्ष्मीसल्लापसंमुखाय नमः । ॐ चतुर्मुखप्रतिष्ठात्रे नमः ॥ ४०॥ ॐ राजराजवरप्रदाय नमः । ॐ चतुर्वेदशिरोरत्नाय नमः । ॐ रमणाय नमः । ॐ नित्यवैभवाय नमः । ॐ दासवर्गपरित्रात्रे नमः । ॐ नारदादिमुनिस्तुताय नमः । ॐ यादवाचलवासिने नमः । ॐ खिद्यद्भक्तार्तिभञ्जनाय नमः । ॐ लक्ष्मीप्रसादकाय नमः । ॐ विष्णवे नमः ॥ ५०॥ ॐ देवेशाय नमः । ॐ रम्यविग्रहाय नमः । ॐ माधवाय नमः । ॐ लोकनाथाय नमः । ॐ लालिताखिलसेवकाय नमः । ॐ यक्षगन्धर्ववरदाय नमः । ॐ कुमाराय नमः । ॐ मातृकार्चिताय नमः । ॐ रटद्बालकपोषिणे नमः । ॐ शेषशैलकृतस्थलाय नमः ॥ ६०॥ ॐ षाड्गुण्यपरिपूर्णाय नमः । ॐ द्वैतदोषनिवारणाय नमः । ॐ तिर्यग्जन्त्वर्चितांघ्र्ये नमः । ॐ नेत्रानन्दकरोत्सवाय नमः । ॐ द्वादशोत्तमलीलाय नमः । ॐ दरिद्रजनरक्षकाय नमः । ॐ शत्रुकृत्यादिभीतिघ्नाय नमः । ॐ भुजङ्गशयनप्रियाय नमः । ॐ जाग्रद्रहस्यावासाय नमः । ॐ शिष्टपरिपालकाय नमः ॥ ७०॥ ॐ वरेण्याय नमः । ॐ पूर्णबोधाय नमः । ॐ जन्मसंसारभेषजाय नमः । ॐ कार्तिकेयवपुर्धारिणे नमः । ॐ यतिशेखरभाविताय नमः । ॐ नरकादिभयध्वंसिने नमः । ॐ रथोत्सवकलाधराय नमः । ॐ लोकार्चामुख्यमूर्तये नमः । ॐ केशवाद्यवतारवते नमः ॥ ८०॥ ॐ शास्त्रश्रुतानन्तलीलाय नमः । ॐ यमशिक्षानिबर्हणाय नमः । ॐ मानसंरक्षणपराय नमः । ॐ इरिणांकुरधान्यदाय नमः । ॐ नेत्रहीनाक्षिदायिने नमः । ॐ मतिहीनमतिप्रदाय नमः । ॐ हिरण्यदानग्राहिणे नमः । ॐ मोहजालनिकृन्तनाय नमः । ॐ दधिलाजाक्षतार्च्याय नमः । ॐ यातुधानविनाशनाय नमः ॥ ९०॥ ॐ यजुर्वेदशिखागम्याय नमः । ॐ वेङ्कटाय नमः । ॐ दक्षिणास्थिताय नमः । ॐ सारपुष्करिणीतीरे रात्रौ देवगणार्चिताय नमः । ॐ यत्नवत्फलसन्धात्रे नमः । ॐ श्रीजापधनवृद्धिकृते नमः । ॐ क्लींकारजपकाम्यार्थ- प्रदानसदयान्तराय नमः । ॐ स्व सर्वसिद्धिसन्धात्रे नमः । ॐ नमस्कर्तुरभीष्टदाय नमः । ॐ मोहितखिललोकाय नमः ॥ १००॥ ॐ नानारूपव्यवस्थिताय नमः । ॐ राजीवलोचनाय नमः । ॐ यज्ञवराहाय नमः । ॐ गणवेङ्कटाय नमः । ॐ तेजोराशीक्षणाय नमः । ॐ स्वामिने नमः । ॐ हार्दाविद्यानिवारणाय नमः । ॐ श्रीवेङ्कटेश्वराय नमः ॥ १०८॥ ॥ इति श्रीसनत्कुमारसंहितान्तर्गता श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः संपूर्णा ॥