अक्षर आकार:

श्रीवेङ्कटेश्वरस्तुतिमणिमाला

shrIve~NkaTeshvarastutimaNimAlA

श्रीवेङ्कटेश्वरस्तुतिमणिमाला

विश्वं सर्वमिदं चराचरमयं यः स्वेच्छया निर्ममे तच्चैतज्जननीव रक्षति सदा यः शक्तिमान् लीलया । अन्ते नाशयते दशैव निखिलं यो देवराजः क्षणात् तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ १॥ स्तोतुं यं प्रभवन्ति नैव निखिला वेदाश्च शास्त्राणि षट् न ब्रह्मा चतुरः, सहस्रवदनः शेषोऽपि शक्तस्तथा । विद्वांसः कवयः सुकाव्यनिपुणा न प्राभवन् यत्स्तवे तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ २॥ चन्द्रोऽयं वसुधामिमां स्नपयते स्वीयैः सुधारश्मिभिः ध्वान्तं सर्वमिदं विनाश्य गगने देदीप्यते भास्करः । मेघो वर्षति वात्ययं च पवनो यस्य प्रभोराज्ञया तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ३॥ आन्ध्रे सुप्रथिते पुरे तिरुपतौ यस्याग्रजो विश्रुतो वासं स्वीकृतवान् विपत्रशरणं गोविन्दराजः प्रभुः । पद्मा पद्ममुखी चकार वसतिं मङ्गापुरे यत्प्रिया तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ४॥ रम्ये पर्वतसप्तके विरचितो यस्यास्ति देवालयः पाषाणैः सुदृढैर्विनिर्मितदृढप्राकारसंवेष्टितः । उत्तुङ्गः कलशः सुवर्णखचितो यन्मन्दिरे राजते तस्मैः नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ५॥ मत्स्योऽभूत् प्रथमं ततः समभवत् कर्मो वराहश्च यः प्रल्हादस्य कृते नृसिंहतनुभाग् यो वामनो भार्गवः । रामो यश्च हरिस्तथा च सुगतो यः स्याच्च कल्किः कलौ तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ६॥ ग्रामो वेङ्कटपर्वते तिरुमला वैकुण्ठलोकोऽपरः तत्रैतत् सकलं हिरण्यबहुलं लोकातिगं वैभवं । ``आनन्दे निलये'' सुवर्णरचिते रम्ये विमानेऽस्ति यः तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ७॥ मूर्तिकृष्णमयी सुललिता या दृष्टिसौख्यप्रदा यामायान्ति विलोकितुं प्रतिदिनं भक्ताश्च लक्षाधिकाः । स्वर्णं रत्नयुतं च हीरकमयं यस्यातुलं वैभवं तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ८॥ वक्तुं द्रष्टुमपि प्रभुर्न मनुजो यत्प्रेरणाया ऋते नो चेत्सत्यमिदं कथं रचयितुं मादृग् जनः स्यात् प्रभुः । मूकं या कुरुते बृहस्पतिसमं ह्येतादृशी यत्कृपा तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ ९॥ भूस्त्वं वारि कृशानुरेवमनिलः खं भास्करस्त्वं शशी विश्वं स्थावरजङगमात्मकमिदं त्वद्रूपमेतत् खलु । यद्यद् ब्रह्मतृणान्तमेतदखिलं श्रीवेङ्कटेशात्मकं इत्येवंविधभावना शुभतमा जागर्तु शश्वद् हृदि ॥ १०॥ विद्यां सत्त्ववतीं प्रयच्छ भगवन् ! सत्कीर्तिदां में शुभां विद्यादानपरान् गुरूनपि विभो ! मां सर्वदा प्रापय । श्रद्धेया गुणिनो भवन्तु सुहृदो ये मां न जह्युः क्वचित् यल्लभ्येत मया तवैव कृपया तेनास्तु तुष्टिर्मम ॥ ११॥ इति श्रीवेङ्कटेश्वरस्तुतिमणिमाला समाप्ता । रचनाकारः पं. पु. म. जोशी (सांगली)