अक्षर आकार:

श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम्

Shri Venkateshvara Dvadashamanjarika Stotram

श्रीवेङ्कटेश्वर द्वादशमञ्जरिकास्तोत्रम्

श्रीरस्तु ॥ श्री कल्याण गुणोल्लासं चिद्विलासं महौजसम् । शेषाद्रिमस्तकावासं श्रीनिवासं भजामहे ॥ १॥ वाराहवेष भूलोकं लक्ष्मीमोहन विग्रहम् । वेदान्त गोचरं देवं वेङ्कटेशं भजामहे ॥ २॥ साङ्गाना मर्चिताकारं प्रसन्न मुखपङ्कजम् । विश्वविश्वम्भराधीशं वृषाद्रीशं भजामहे ॥ ३॥ कनत्कनक वेलाढ्यं करुणा वरुणालयम् । श्री वासुदेव चिन्मूर्तिं शेषाद्रीशं भजामहे ॥ ४॥ घनाघनं शेषाद्रि शिखरानन्द मन्दिरम् । श्रिईतचातक संरक्षं सिंहाद्रीशं भजामहे ॥ ५॥ मङ्गळत्रं पद्माक्षं कस्तूरी तिलकोज्ज्वलम् । तुलस्यादि मनःपूज्यं तारागण विभूत्वमे ॥ ६॥ स्वामिपुष्करिणी तीर्थ वासं व्यासाभिः वर्णितम् । स्वाङ्घ्रीसूचित हस्ताब्जं सत्यरूपं भजामहे ॥ ७॥ श्रीमन्नारायणं श्रीशं ब्रह्माण्डा वसन तत्परम् । ब्रह्मण्यं सच्चिदानन्दं मोहातीतं भजामहे ॥ ८॥ अञ्जनाद्रीश्वरं लोकरञ्जनं मुनिरञ्जनम् । भक्तार्ति भञ्जनं भक्त पारिजातं तमाश्रये ॥ ९॥ भिल्ली मनोहर्यं सत्य मनन्तं जगतां विभुम् । नारायणाचलपतिं सत्यानन्दं तमाश्रये ॥ १०॥ चतुर्मुखत्र्यम्बकाढ्यं सन्नुतार्य कदम्बकम् । ब्रह्म प्रमुखनित्रानं प्रधान पुरुषाश्रये ॥ ११॥ श्रीमत्पद्मासनाग्रस्थ चिन्तितार्थ प्रदायिकम् । लोकैक नायकं श्रीमद् वेङ्कटाद्रीश माश्रये ॥ १२॥ वेङ्कटाद्रि हरेः स्तोत्रं द्वादश श्लोक संयुतम् । यःपठेः सततं भक्त्या तस्यमुक्तिः करे स्थिता ॥ १३॥ सर्वपापहरं प्राहुः वेङ्कटेशस्तदोच्यतेः । त्वन्नामको वेङ्कटाद्रिः स्मरतो वेङ्कटेश्वरः सद्यः संस्मरणादेव मोक्ष साम्राज्य माप्नुयात् ॥ १४॥ वेङ्कटेश्वर पदद्वन्द्यं प्रजामिस्र स्मरणं सदा । भूयाश्शरण्योमे साक्षाद्देवेशो भक्तवत्सलः ॥ १५॥ ॥ श्री वेङ्कटेश्वर द्वादश मञ्जरिका स्तोत्रं सम्पूर्णम् ॥