अक्षर आकार:

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम्

Shri Venkateshvarashtottara ShatanAmastotram

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम्

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः । अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १॥ श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः । गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २॥ सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् । चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३॥ धरापतिस्सुरपतिर्निर्मलो देवपूजितः । चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४॥ निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः । निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५॥ गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः । अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६॥ अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः । आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७॥ दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः । त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८॥ शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः । नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९॥ जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः । चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १०॥ देवकीनन्दन शौरि हयग्रीवो जनार्धनः । कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११॥ वनमालीपद्मनाभ मृगयासक्त मानसः । अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२॥ घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः । सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३॥ यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः । परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४॥ परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः । एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५॥ पठ्यतां श‍ृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् । ॥ इति श्री ब्रह्माण्ड पुराणानान्तर्गत श्री वेङ्कटेश्वराष्टोत्तरशतनाम स्तोत्रं समाप्तम् ॥