अक्षर आकार:

वेङ्कटेशसेवाक्रमः

Venkateshasevakrama

वेङ्कटेशसेवाक्रमः

यश्चक्रे वेंकटेशस्य सेवाक्रममनुत्तमम् । तं शठारिगुरुं वन्दे गार्ग्यं श्रीपुरवासिनम् ॥ श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ १॥ प्रातरुत्थाय पूतात्मा ध्यायेय स्वगुरोः पदे । श्रीवेंकटेशपादाब्जे इयासुवेंकटाचलम् ॥ २॥ चक्रतीर्थे ततः स्नात्वा कृतपूर्वाह्निकक्रियः । ध्यायन् श्रिवेंकटाधीशं सेवेयाञ्जनभूधरम् ॥ ३॥ ततः पश्चिमदिग्भागे गत्वा कञ्चिन्महापथम् । श्रीवेंकटगिरेर्मूले शेषांशेनोत्थितां भुवः ॥ ४॥ चिञ्चामुन्निद्रसुभगां दिव्यां तन्मूलतः शुभे । श्रीनिवासपदाम्भोजे स्वसंकल्पात् समुत्थिते ॥ ५॥ तन्मूलतः स्वयंव्यक्तान् सरोयोगिमुखानपि । लक्ष्मीनृसिंहं शेषाद्रिं प्रणिपत्य कृताञ्जलिः ॥ ६॥ दयाशतकमप्युच्चैः स्तोत्रगद्ये समुञ्चरन् । भक्तैर्भागवतैस्सार्धमारोहेयं वृषाचलम् ॥ ७॥ घुप्यद्भिः सङ्घशश्चोच्चैर्गोविन्देति पुनःपुनः । गच्छद्भिः स्वामिसेवार्थमागच्छद्भिर्निरन्तरम् ॥ ८॥ संपूर्णं लब्धकामैश्च चतुर्वर्गार्थिभिर्नरैः । शिखराणि च रम्याणि निर्ज्झरान् परिषत्प्रभुम् ॥ ९॥ श्रीवेंकटेशं संसेव्य गच्छेयं तं महापथम् । आरुह्य तिष्ठन्नामोदादञ्ज्नाद्रिशिरोवरम् ॥ १०॥ श्रीवेंकटाचलप्रान्तभूमिपर्यन्तपर्वतान् । वापीकूपतटाकादीन् वनान्युपवनानि च ॥ ११॥ सुवर्णमुखरीं चैव शोभमानां महानदीम् । धाम गोविन्दराजस्य पश्येयं श्रीपुरीमपि ॥ १२॥ ततः कर्पूरसुरभितीर्थं कर्पूरनिर्ज्झरम् । गत्वाऽऽचम्य ततश्चान्यच्छृङ्गमारुह्य सुन्दरम् ॥ १३॥ पक्षिवृक्षाकृतिधरैर्निबिडं नित्यसूरिभिः । शीघ्रं क्वचिञ्च गच्छेयं सेवाचपलमानसः ॥ १४॥ सुखमत्रैव वर्तेय रम्ये श्रीशैलसानुनि । इतीरयन्मन्दमतिर्गच्छेयं कुत्रचित्पुनः ॥ १५॥ सुवर्चसां सुरूपाणां पुण्यानां मृगपक्षिणाम् । श‍ृणुयामद्भुतं शब्दं कूजतां मधुरं पथि ॥ १६॥ अतीत्य कञ्चित्पन्थानमटवीनृहरिं ततः । प्रणम्य तदनुज्ञातः प्रविशन्वनमन्तरा ॥ १७॥ सालतालतमालाम्लचन्दनामरभूरुहैः । नालिकेराम्रपनसकदलीक्रमुकैरपि ॥ १८॥ (नारिकेला) पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोहरैः । भूषितं भूरुहैश्चान्यैर्निर्ज्झरैश्चामलोदकैः ॥ १९॥ सिंहकुञ्जरगोव्याघ्रतरक्षुहरिणादिभिः । निर्वै रैर्मृगसङ्घैश्च रममाणैः समाकुलम् ॥ २०॥ मयूरकोकिलानां च मधुरैः कूजितैरपि । शारिकाशुकसंलापैर्मोदिताखिलचेतनम् ॥ २१॥ चन्दनागरुसंवाहिमन्दमारुतसेवितम् । श्रीमदप्राकृतं दिव्यं झिल्लिकागणनादितम् ॥ २२॥ नयनानन्दजनकं नवीनं पश्यतां सदा । सर्वत्र फलपुष्पाढ्यं संपश्येयं वनस्थलम् ॥ २३॥ ततोऽन्यच्छृ ङ्गमारुह्य ततोऽन्यत्रावरुह्य च । क्वचिद्गच्छन् क्वचित्तिष्ठन् क्वचिद्ध्यायन् रमापतिम् ॥ २४॥ सानुमन्यं समारोहन् श्रीश मामानयान्तिकम् । इति ब्रुवन् यतिवरं प्राप्नुयां परया मुदा ॥ २५॥ तं प्रणम्याभ्यनुज्ञातः परं पन्थानमास्थितः । अर्चिरादिपथे दिव्ये मित्रचन्द्रेन्द्रवेधसाम् ॥ २६॥ लोकपङ् क्तिवदत्यन्तरम्यां मण्डपसन्ततिम् । संपश्यंस्तत्र गच्छेयं शौरेर्धामान्तिकस्थलम् ॥ २७॥ ततः प्रणवनिस्स्वाणकाहलीनादमेदुरम् ? पणवनिस्साण श‍ृणुयां श्रोत्रसुखदं दिव्यदुन्दुभिनिस्वनम् ॥ २८॥ ततश्चम्पकपुन्नागवकुलामरभूरुहाम् । अन्येषां दिव्यगन्धैश्च नानावर्णैर्मनोरमैः ॥ २९॥ अभ्रङ्कषाणां कुसुमैरनिशं चित्रिताम्बरम् । मल्लिकामाधवीजातिपुष्पैश्चित्रितभूतलम् ॥ ३०॥ मध्येमध्ये लसद्दिव्यलीलामण्टपशोभितम् । तत्रतत्र स्थितैः क्रीडाशैलैश्चारुभिरुज्ज्वलम् ॥ ३१॥ पुण्यपक्षिगणानां च पूरिताशामुखं रवैः । पद्मकल्हारकुमुदनीलोत्पलसुगन्धिभिः ॥ ३२॥ राजहंसादिशकुनैः कूजद्भिश्च विराजितैः । सरोवापीतटाकाद्यैरावृतं परमाद्भुतैः ॥ ३३॥ अतिप्रमाणमाश्चर्यावहमप्राकृतं शुभम् । उद्यानशतसाहस्रमुद्यत्पल्लवकोरकम् ॥ ३४॥ पश्यन् श‍ृङ्गविहीनं तद्गोपुरं प्राप्नुयां परम् । ततः श्रीवेंकटेशस्य मन्दिरं लोकवन्दितम् ॥ ३५॥ दिव्यं सुवर्णप्राकारगोपुरैरुज्ज्वलं महत् । ततश्चोद्यत्सहस्रांशुशतकोटिसमप्रभम् ॥ ३६॥ मङ्गलं सर्वजगतां मण्डनं शेषभूभृतः । भूमावनुपमं दिव्यं लोकानुग्रहकाम्यया ॥ ३७॥ स्वयंव्यक्तं विमानं तदानन्दनिलयाह्वयम् । दिव्यं च नगरं पश्यन् श्रीवैकुण्ठमिवापरम् ॥ ३८॥ धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मीति च ब्रुवन् । परमानन्दभरितः प्रणमेयं प्रसन्नधीः ॥ ३९॥ ततस्सन्निधिवीथ्यग्रभूषणं पवनात्मजम् । नमस्कृत्य ततः पश्यन् सहस्रस्तम्भमण्टपम् ॥ ४०॥ प्रविशेयं प्रसन्नात्मा वैकुण्ठद्वारमद्भुतम् । ततः काञ्चनदीप्त्या च रत्नकान्त्या च रूपितम् ॥ ४१॥ भूषितं दिव्यमाल्यैश्च मुक्तादामभिरेव च । चन्दनागरुधूपैश्च सर्वतस्सुरभीकृतम् ॥ ४२॥ आज्ञामुद्राधरर्भीमैरस्थानभयशङ्किभिः । चण्डप्रचण्डप्रमुखैर्द्वारपालैः सुरक्षितम् ॥ ४३॥ भेरीमृदङ्गपणवतूर्यशङ्खादिभिश्शुभैः । अष्टादशविधैर्वाद्यैराघोषितनभस्स्थलम् ॥ ४४॥ ब्रह्मरुद्रादिदेवानां महर्षीणां महात्मनाम् । योगिनां सनकादीनां दिव्यस्थाननिवासिनाम् ॥ ४५॥ दिव्याप्सरोगणानां च नृत्तं गीतं च कुर्वताम् । चातुर्वर्ण्यप्रसूतानां सदा भक्तिमतां हरौ ॥ ४६॥ आबालवृद्धमाबद्धमस्तकाञ्जलिशोभिनाम् । नानादेशागतानां च नराणां भाग्यशालिनाम् ॥ ४७॥ सपुत्रमित्रदाराणां बृन्दैः सान्द्रं सुशोभनम् । विच्छिन्नाग्रनिवेशं तत्परीतं द्वारमास्थितः ॥ ४८॥ प्रणम्य भक्त्या साष्टाङ्गं प्रहर्षं प्राप्नुयां परम् । तत्र श्रीवेंकटाधीशं ततस्तत्र कृताञ्जलिः ॥ ४९॥ राजवीथीषु रम्यासु प्रदक्षिणपरो भवन् । नित्यमुक्तसमानानां तदीयानां महात्मनाम् ॥ ५०॥ भवनानि विचित्राणि पश्यन् हृष्टः पुनःपुनः । स्वामिपुष्करिणीतीरं श्रयेयं श्रमनाशनम् ॥ ५१॥ ततस्त्वाचम्य तत्तीर्थे कृतमाध्याह्निकक्रियः । वराहरूपिणं देवं वामाङ्कस्थवसुन्धरम् ॥ ५२॥ प्रणम्य प्राञ्जलिः कुर्यां प्रदक्षिणमहं ततः । तीर्थं प्रदक्षिणं कुर्वन् श्रीशैलस्तुतिरूपिणीः ॥ ५३॥ कुलशेखरसूक्तीरप्युञ्चार्यानम्य वै रथम् । पुनः परीतं विच्छिन्नाभिनिवेशमुपेत्य च ॥ ५४॥ नत्वा श्रीमन्महद्द्वारं प्रविश्यान्तः प्रसन्नधीः । आस्थानचिञ्चामचलच्छायां शेषांशकां ततः ॥ ५५॥ आनम्य मण्टपांश्चैव पश्येयं विपुलोन्नतान् । बलिपीठं महादिव्यं ब्रह्मरुद्रादिसेवितम् ॥ ५६॥ ध्वजस्तम्भेन सहितं प्रणम्य प्राञ्जलिर्मुदा । भावयेयं वृषाद्रीशं प्रणतार्तिहरं प्रभुम् ॥ ५७॥ तत्र प्रदक्षिणपरान्नमस्कारपरान् मुहुः । वेदपारायणपरान् वेदान्तव्याक्रियापरान् ॥ ५८॥ इतिहासपुराणादीन् पठतः श‍ृण्वतोऽपि च । स्तोत्रपाठे च निरतान् ब्रह्मविद्यासु निष्ठितान् ॥ ५९॥ सङ्कीर्तनपरान् शौरेः गुणश्रवणतत्परान् । ध्याननिष्ठान् योगनिष्ठाञ्जपशीलांस्तथा यतीन् ॥ ६०॥ आबद्धाञ्जलिपद्मां ?श्चाप्या? नन्दाश्रुभिराप्लुतान् । पुलकाञ्चितगात्रांश्च पूतभावान्महात्मनः ॥ ६१॥ सन्तानधनराज्यश्रीसंपदादिवरार्थिनः । लब्ध्वा वरं ततस्तूर्णमिष्टालापपरानपि ॥ ६२॥ सर्वान्महाभागवतान् संपश्येयं पुनःपुनः । ततो वेङ्कटनायक्याः स्थानं दृष्ट्वा ततःपरम् ॥ ६३॥ आनम्य चम्पकतरुं तन्नामाङ्कितवीथिकाम् । प्रदक्षिणपरस्सर्वं पश्येयं च कृताञ्जलिः ॥ ६४॥ शालिमुद्गतिलादीनां शालास्तत्र सहस्रशः । सर्वसंपत्समृद्धाश्च पाकशाला मनोरमाः ॥ ६५॥ स्वामिपुष्करिणीतीर्थं दृष्ट्वाऽऽचम्य ततःपरम् । यामुनेयाभिधं दिव्यं माल्यागारं मनोहरम् ॥ ६६॥ गोपीनां रमणं तत्र वेणुनादविनोदिनम् । सुवर्णमण्टपं चैव नारायणगिरिं तथा ॥ ६७॥ बलिपीठं पुनर्गत्वा प्रत्यग्द्वारं च चाम्पकम् । बद्धाञ्जलिस्ततः पश्यन्प्रासादान्परमाद्भुतान् ॥ ६८॥ पायसान्नैर्गुडान्नैश्च शुद्धैरोदनराशिभिः । दधिक्षीराज्यसंपन्नैर्मृष्टान्नैर्विविधोदनैः ॥ ६९॥ अपूपैः स्वादुभिर्हृद्यैः शालिपिष्टोपपादितैः । सुगन्धैर्गोघृतैः पक्वैः प्रभूतगुडसंमितैः ॥ ७०॥ पृथुकैर्गुडसंमिश्रैस्सजीरकमरीचकैः । कन्दमूलफलैश्चैव व्यञ्जनैर्विविधैरपि ॥ ७१॥ संपूर्णं पाकशालां च संप्रविश्याथ सन्नतः । श्रियं तत्र स्थितां देवीं श्रीनिवासमनःप्रियाम् ॥ ७२॥ प्रणमेयं तदाज्ञप्तो भजेयं यागशालिकाम् । दिव्यं ततो रत्नमयं श्रीमहामणिअमण्टपम् ॥ ७३॥ तत्र शय्यागृहं रम्यं तत्रस्थं देवमच्युतम् । श्रिया देव्या धरण्या च सेवितं पार्श्वयोस्सदा ॥ ७४॥ उत्सवार्हमुदाराङ्गमुज्ज्वलायुधभूषणम् । प्रणिपत्य प्रसन्नात्मा परमानन्दमाप्नुयाम् ॥ ७५॥ ततः परीत्य तं धन्यो वस्त्रागारं महर्द्धिमत् । वाहनानि महार्हाणि विमानं चानतस्ततः ॥ ७६॥ छत्रचामरकोशं च श्रयेयं सैन्यनायकम् । ततो रामानुजाचार्यं प्रपन्नकुलशेखरम् ॥ ७७॥ अप्राकृतं विमानं च आनन्दनिलयाह्वयम् । प्रणम्य तदनुज्ञातः प्रणमन्नृहरिं ततः ॥ ७८॥ प्रदक्षिणपरो भूत्वा पक्षिराजं त्रयीमयम् । परमानन्दजनकं पश्येयं पुष्पमण्टपम् ॥ ७९॥ प्रविश्य पक्षिराजं च भजेयं द्वारपालकौ । ततस्तत्र विचित्राणि रत्नानि विविधानि च ॥ ८०॥ वाहनानि महार्हाणि भूषणानि सहस्रशः । दिव्याम्बराण्यनेकानि क्षौमपीताम्बराणि च ॥ ८१॥ सुवर्णरौप्यखण्डानि धनानि विविधानि च । गजांश्च पशुसङ्घांश्च छत्रव्यजनचामरैः ॥ ८२॥ समस्तदेशजातानि वस्तून्यन्यान्यनेकशः । श्रीवेंकटेशप्रीत्यर्थं सर्वदेशनिवासिभिः ॥ ८३॥ सर्वान् समर्पितान् पश्यन्नुपहारांश्च सन्निधौ । आत्मस्वरूपानुगुणमपि श्रीशमनःप्रियम् ॥ ८४॥ द्रव्यं व्यक्तिञ्चिद्तुलमुपहारं समर्प्य च । प्रणमन् परया भक्त्या भजेयं कृतकृत्यताम् ॥ ८५॥ ततो रामानुजाचार्यं पुरस्कृत्य यतीश्वरम् । श्रीवेंकटाचलाधीशं श्रीनिधिं करुणनिअधिम् ॥ ८६॥ अस्मद्भाग्यपरीपाकमखिलाभीष्टदायिनम् । नाथं समस्तजगतां नाथं नः कुलदैवतम् ॥ ८७॥ मातरं पितरं बन्धुं भ्रातरं सुहृदं गुरुम् । अस्मत्कुलधनं भोग्यमाचार्यकुलदर्शितम् ॥ ८८॥ शेषाचलशिरोरत्नं श्रीनिवासं परात्परम् । महनीयं परं ब्रह्म वन्दिषीय पुनःपुनः ॥ ८९॥ पश्यन् रमन् समुत्तिष्ठंस्तुवन्नृत्यन् पुनःपुनः । पुलकाञ्चितगात्रश्च भवेयं प्राञ्जलिस्ततः ॥ ९०॥ द्वारपालाभ्यनुज्ञातः कृपया चावलोकितः । कथञ्चित्प्रविशन् भीतो महामण्टपमन्तरा ॥ ९१॥ पश्यन् हरिं प्रसन्नात्मा प्राप्नुयामर्धमण्टपम् । तस्मिन्धनुर्धरं रामं सौमित्रिमपि जानकीम् ॥ ९२॥ हनूमन्तं च सुग्रीवमङ्गदं दौत्यलक्षणम् । विष्वक्सेनं विहङ्गेशमनन्तं चानतस्ततः ॥ ९३॥ उपसृत्य च सोपानं कुलशेखरनाम ?य? कम् । भयभक्तिसमाक्रान्तः पार्श्वं दक्षिणमास्थितः ॥ ९४॥ निभ्रुतः प्रणतः प्रह्वो भवेयं प्राञ्जलिस्ततः । शुभाः श्रीभट्टनाथस्य सूक्तीर्मङ्गलरूपिणीः ॥ ९५॥ शठारिकलिजिस्सूक्तीश्शरणागतिवाचिकाः । श्रीवेंकटेशविषयाः श्रीनिवासमनःप्रियाः ॥ ९६॥ तदीयप्रवरैः सार्धं गद्यं चाप्यनुसन्दधत् । श्रीभूमिनीलादेवीनां दिव्यहस्तोपलालितौ ॥ ९७॥ शरण्यौ चाशरण्यानां शङ्खचक्रादिचिह्नितौ । विलासविक्रमक्रान्तत्रैलोक्यौ लोकपावनौ ॥ ९८॥ वन्दारुजनमन्दारौ मञ्जीरद्युतिरञ्जितौ । हंसकालङ्कृतौ दिव्यौ किङ्किणीकविभूषितौ ॥ ९९॥ पारिजातादिकुसुमैः सूरिभिश्चार्चितौ सदा । श्रीमच्छठारिकलिजिच्छ्रीरामानुजयोगिभिः ॥ १००॥ प्राप्यप्रापकभावेन प्रपन्नौ परभक्तितः । सेवेय श्रीनिवासस्य चरणौ जलजोपमौ ॥ १०१॥ सौवर्णकाहलाकारे जङ्घे सर्वमनोहरे । समानसंनिवेशं च चारुजानुयुगं तथा ॥ १०२॥ कदलीकाण्डकान्तोरुयुगलं चातिसुन्दरम् । दिव्यपीताम्बराश्लिष्टं दीप्रकाञ्चीगुणोज्ज्वलम् ॥ १०३॥ कटीतटं च रुचिरं कान्तखङ्गविराजितम् । वन्दारुभववाराशिकटीदघ्नत्वसूचकम् ॥ १०४॥ करं वामं कटिन्यस्तं कनत्कङ्कणभूषणम् । वैकुण्ठमेतद्धामेति व्यञ्जकं दक्षिणं करम् ॥ १०५॥ लावण्यनिम्नगावर्तनाभिं चापि तनूदरम् । इन्दिरामन्दिरं वक्षश्चन्द्रचन्दनचर्चितम् ॥ १०६॥ विहरन्तीं श्रियं तत्र वेंकटाचलनायकाम् । ग्रीवां च कम्बुवत्कान्तां ग्रैवेयकविभूषिताम् ॥ १०७॥ समस्तशोकशमनं चन्द्रकान्तं तदाननम् । शुचिस्मितं सुन्दरोष्टं शोभनाधरपल्लवम् ॥ १०८॥ सुकपोलौ सुनासां च सुन्दरभ्रूलतायुगम् । दयाकञ्चुकितापाङ्गैर्दृष्टादृष्टफलप्रदे ॥ १०९॥ दिव्याम्बुजदलाकारे दीर्घे दिव्ये च लोचने । तथा करयुगा दञ्चच्छङ्खचक्रे सदोज्ज्वले ॥ ११०॥ करयुगो उन्नतांसयुगालम्बिलसन्मकरकुण्डले । उदग्रकर्णचापौ चाप्युल्लसत्कर्णपूरके ॥ १११॥ रम्ये ललाटे विलसदूर्ध्वपुण्ड्रं ललाटिकाम् । लसद्रत्नकिरीटं च जगन्नाथत्वसूचकम् ॥ ११२॥ एवं सर्वाङ्गसौन्दर्यमियतारहितं प्रभुम् । आपादमौलिलावण्यमखिलाभरणादिकम् ॥ ११३॥ समस्तार्तिहरं सद्यस्सौख्यदं च पृथक् पृथक् । अनुभूयानुभूयाहमाप्नुयां प्रीतिमुत्तमाम् ॥ ११४॥ सर्वाङ्गसुन्दरं पुंसां दृष्टिचित्तापहारिणम् । महनीयोपवीतेन वैजयन्त्यादिभूषितम् ॥ ११५॥ हारकेयूरकटकैरन्यैराभरणोत्तमैः । माल्यैश्चन्दनपुन्नागमालतीकुसुमाञ्चितैः ॥ ११६॥ चम्पक अन्यैः कमलकल्हारैरसंख्येयैरलङ्कृतम् । सौशील्याश्रितवात्सल्यसौलभ्यादिगुणार्णवम् ॥ ११७॥ वेदान्तवेद्यविभवं विधिरुद्रादिसेवितम् । चिन्तामणिमशेषाणां शेषाचलशिरोमणिम् ॥ ११८॥ श्रीभूनीलाकुचमणिं देवदेवशिखामणिम् । वैकुण्ठनाथं मन्नाथं वासुदेवमिवापरम् ॥ ११९॥ वेङ्कटाचलश‍ृङ्गाग्रंविहाररसिकं हरिम् । पश्यन् पश्यन्प्रसन्नात्मा भवेयं नित्यकिङ्करः ॥ १२०॥ इत्थं श्रीवेङ्कटेशस्य सेवाक्रमपरां शुभाम् । गार्ग्यश्रीशठजिद्दाससूक्तिं श्रुतिसुखावहाम् ॥ १२१॥ प्राप्यां च प्रार्थनारूपामनुसन्दधतोऽन्वहम् । लभन्ते श्रीनिवासस्य नित्यसेवामनुत्तमाम् ॥ १२२॥ ॥ श्रीघनगुरवेनमः ॥ ॥ इति वेंकटेशसेवाक्रमः ॥ From a telugu book veNkaTeshakAvyakalApa